#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00363 Uniform title: āryamañjuśrīmūlakalpam Part 1 Editor : T. Gaṇapatiśāstrī Description: Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Oct. 2, 2016 Publisher : Government Press Travancore Publication year : 1920 Publication city : Travancore Publication country : India #################################################### १, प्. १) श्रीः आर्यमञ्जुश्रीमूलकल्पम् | नमः सर्वबुद्धबोधिसत्त्वेभ्यः | एवं मया श्रुतम् | एकस्मिन् समये भगवां शुद्धावासोपरि गगनतलप्रतिष्ठितेऽचिन्त्याश्चर्याद्भुतप्रविभक्तबोधिसत्त्वसन्निपातमण्डलमाडे विहरति स्म | तत्र भगवां शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म | तत्र भगवां शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म | शृण्वन्तु देवपुत्राः ! मञ्जुश्रियस्य कुमारभूतस्य बोधिसत्त्वस्य महासत्त्वस्याचिन्त्याद्भुतप्रातिहार्वचर्यासमाधिशुद्धिविशेषविमोक्षमण्डल- बोधिसत्त्वविकुर्वणं सर्वसत्त्वोपजीव्यमायुरारोग्यैश्वर्यमनोरथपापारिपूरकाणि मन्त्रपदानि सर्वसत्त्वानां हिताय भाषिष्यते | तं शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येऽहं ते | अथ शुद्धावासकायिका देवपुत्राः साञ्जलयो भूत्वा [*] विशेषभूमिप्रतिलाभवज्रासनाक्रमणमारधर्पणधर्मचक्रप्रवर्तनसर्व-श्र अवकप्रत्येकबुद्धनिर्याणदेवमनुष्योपपत्तिसर्वदुःखप्रशमनदरिद्रव्या-धित- आढ्यरोगोपकर्षणतां सर्वलौकिकलोकोत्तरमन्त्रचर्यानभिभवनतां सर्वाशापरिपूरणतः सर्वतथागतानामवश्यवचनधारणम् | तद् वदतु भगवान् मंत्रचित्तो हितचित्तोऽस्माकमनुकम्पामुपादाय सर्वसत्त्वानां च | अथ भगवान् शाक्यमुनिः सर्वावन्तं शुद्धावासभवनं बुद्धचक्षुषावलोस्य विशुद्धविपयज्योतिर्वि* * * * * (?) विध्वंसिनीं नाम समाधिं पमापयनं ******* (?) यनन्तरसमापन्नर सुमितः ******* (?) ञ्चोदनी नाम सिनरश्म्यवभासं दृष्ट्वा ईषत् २, प्. २) प्रहासेतवदनो भूत्वा तं बोधिसत्त्वगमामहायते स्म | इयं भो ! जिनपुत्राः ! अस्माकं रश्मिसञ्चोदनी | इदायात | सज्जीभवन्तु भवन्तः || अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्व उत्फुल्लनयनोऽनिमिषनयनो येनासौ रश्म्यवभासः तेनाभिमुखस्तस्थौ || अथ सा रश्मिः सञ्चोदनी कुसुमावती लोकधातुं महतावभासेनावभास्य भगवतः सङ्कुसुमितराजेन्द्रस्य तथागतस्य त्रिः प्रदक्षिणीकृत्य मञ्जुश्रियस्य बोधिसत्त्वस्य महासत्वस्य मूर्धन्यन्तर्धीयते स्म || अथ मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं सङ्कुसुमितराजेन्द्रं तथागतं त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवन्तं सङ्कुसुमितराजेन्द्रमेतदवोचत् || समन्वाहृताय भगवता शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन | गच्छामो वयं भगवन्नितो सहां लोकधातुं भगवन्तं शाक्यमुनिं द्रष्टुं वन्दितुमुपासितुं सर्वमन्त्रचर्यासाधनौपयिकमण्डलविधानं कल्परहस्यपटविधानरूपसर्वतथागतहृदयगुह्यमुद्राभिषेकं निर्देष्टुं सर्वसत्वानां सर्वाशां परिपूरयितुम् || एवमुक्तेः भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मञ्जुश्रियं कुमारभूतमेतदवोचत् - गच्छ तं मञ्जुश्रीः कुमार यस्येदानीं कालं मन्यसे | अपि त्वस्मद्वचनेन भगवान् शाक्यमुनिरल्पावाधतामल्पातङ्कतां लघूत्थानतां सन्यासविहारतां प्रष्टव्यः || अथ भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मञ्जुश्रियं कुमारभूतमेतदवोचत् - अपि तु कुमार ! शतसहस्रगङ्गानदीसिकतप्रख्यैस्तथागतैरर्हद्भिः सम्यक् अभ्युद्धैस्त्वदीयं मन्त्रचर्यामण्डलकल्परहस्वाभिपेकमुद्रापटलविधानहोमजपनियमसर्वाशा- पारिपूरकसर्वसत्त्वसन्तोषणज्योति* * * * * (?) पटलविसरातीत ***** (?) सततर्तमानज्ञानराज्यै **** (?) याकरणमन्त्रावर्तन ****** (?) वसानान्तर्धान्तु ***** (?) विसरण ***** (?) पंचपलौकिक लोको बोधिसत्त्वार्यश्रा ******** (?) पूजाक्रमणतश्चर्यानिष्ठ अनन्तः भाषिष्यन्ते च ********* (?) | अनुमोदितुमेव ३, प्. ३) गच्छ त्वं मजुश्रीः ! कुमारभूत ! यस्येदानीं कालं मन्यसे | शाक्यमुनिसमीपं सम्मुखम् | इयं धर्मपर्यायं श्रोष्यसि | त्वमपि भाषिष्यसे | भवति चात्र मन्त्रः - नमः सर्वतथागतानामचिन्त्याप्रतिहतशासनानां ओं र र स्मर | अप्रतिहतशासनकुमाररूपधारिण हूम् हूम् फट् फट् स्वाहा || अयं स कुमार ! मञ्जुश्रीः ! मूलमन्त्रः | सर्वेषां तथागतानां हृदयः सर्वैश्च तथागतैर्भाषितः भाषिष्यन्ते | स त्वमपीदानीं भाषिष्यसे | सहां लोकधातुं गत्वा विस्तर विभागशः सर्वकर्मकरम् | शाक्यमुनिना | तथागतेनाभ्यनुज्ञातः | परमहृदयं भवति चात्र ओं वाक्ये द नमः | उपहृदयं चात्र वाक्ये हूम् || अथ खलु मञ्जुश्रीः कुमारभूतो भगवान् सङ्कुसुमितराजेन तयागतेनाभ्यनुज्ञातः सर्वव्यूहालङ्कारो बोधिसत्त्वचर्यानिष्यन्दबोधिमण्डलसमनुप्रापणं नाम समाधिं समापद्यते | समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य चतुर्दिग्व्यापन्नाग्र अन्तोर्ध्वमधस्तिर्यक् सर्वे सर्वावन्तं दिशं बुद्धिर्भगवद्भिः संपूर्णं तं लोकधातुमभवत् | साधु साधु भो ! जिनपुत्र ! यत् त्वमिमं समाधिविशेषं समापद्यसे | न शक्यं सर्वश्रावकप्रत्येकबुद्धैर्बोधिसत्त्वैश्च चर्याप्रविष्टैर्दशभूमिप्रतिष्ठितैरपि ** (?) सङ्कुसुमितराजेन्द्रस्तथागतस्तैश्च बुद्धैर्भगवद्भिः सार्धं सम्मन्त्र्य इदं मञ्जुश्रियः कुमारभूतस्य परमहृदयं परमगुह्यं सर्वार्थसाधनं मन्त्रं भाषते स्म | एकाक्षरं नाम परमगुह्यं सर्वसत्त्वानामर्थकरं दिव्यमन्यैरपि मन्त्रचर्याविशेषैः साधनीयम् || अथ भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मुहूर्तं तूष्णीमभूत् | सर्वं सर्वावन्तं लोकधातुं बुद्धचक्षुपावलोक्य तांश्च बुद्धान् भगवतः समन्वाहुतं वा मैत्रात्मकेन चेतसा मन्त्रमुदीरयते स्म | नमः सर्वबुद्धानाम् | मन्त्रः | एष मञ्जुश्रीः परमहृदयः सर्वकर्मकरः || अथ मञ्जुश्रीः कुमारस्दस्तस्मात् यमाधेर्व्युत्थाय संयषाणि नाम *** (?) पुरुषः सम्मिन्न*** (?) आहुं ***** (?) प्रसारितं वा स **** (?) ** (?) सङ्घातमात्रो ************ (?) देवलवलजबुद्धिर्नानीत् क्षेपविकुर्वणं नाम समा***** (?) समा ****** (?) ******* (?)कधातुं प्रत्यस्यात् || ४, प्. ४) आगत्य चोपरि गगनतलमहामणिरवपतिष्ठिते शुद्धावासदेवनिकाये प्रत्यष्ठात् | सर्वं च तं शुद्धाभवनं महन****(?)भ्यवभासेनावभास्य ज्योतिरवप्रतिमण्डनोद्द्योतनीं नाम समापयतरम | समनन्रसमापन्नस्य मञ्जुश्रियः कुमारभूतस्यानेकरवप्रविभक्तकूटागाररत्नच्छत्रानेकयोजनशतसहस्र- विस्तीर्णदिव्यदृश्यमहापट्टकलापोपशोभितविरचितदिव्यपुष्पध्वजषनाकमाला- कुलरत्नकिङ्किणीजालोपनद्धमधुरसर्वनिर्घोषवैवर्तिकत्वयोधिसत्त्वप्रतिष्ठा- पनदिव्यं च गन्धमाल्यविलेपनस्रक्चूर्णप्रवर्षं चाभिनिर्ममे भगवतः शाक्यमुनेः पूजाकर्मणे तमाश्चर्याद्भुतप्रातिहार्यं बोधिसत्त्वविकुर्वणं दृष्ट्वा || अथ ते शुद्धावासकायिका देवपुत्रा संहृष्टरोमकूपजाता भवनं *******(?)पमानं दृष्ट्वा उत्तप्तभिन्नहृदया आहोस्वित् किं ऋद्धेः परिहीयाम इति सत्वरमाणरूपाः उच्चैः क्रोशितुमारव्धाः एवं चाहुः - परित्रायस्व भगवन् ! परित्रायस्व शाक्यमुने ! || अथ भगवान् सर्वावन्तं शुद्धावासपर्षदमामन्त्रयते स्म | मा भैष्टतु मार्षा मा भैष्टथ | एष स मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः सङ्कुसुमिते बुद्धक्षेत्रे सङ्कुसुमितराजस्य तथागतस्य सकाशाद् द्रष्टुं वन्दितुं पर्युपासितुं महतार्थचर्यामन्त्रपदवैपुल्याद्भुतधर्मपदं च निर्दिष्टुमागतः || अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः शाक्यमुनेस्त्रिः प्रदक्षिणीकृत्यानिमिषनयनो भगवन्तमवलोक्य चरणयोर्निपत्य इमेभिरक्षरपदप्रत्याहारैर्बह्गवन्तमभ्यष्टावीत् || नमस्ते मुक्तायाजन्य नमस्ते पुरुषोत्तमः | नमस्ते पुरुषश्रेष्ठ ! सर्वचर्यार्थसाधकः | नमस्ते पुरुषसिंह ! सर्वानर्थनिवारक ! | नमोऽस्तु महावीर ! ******** (?) ******* (?) ! पुण्डरीकपुण्वन ***** (?) | *********** (?) ! त्रिभवपङ्कविशोधक ! | नमस्ते ************ (?) दुःखविमोचक ! | नमस्ते ************ समान्तक ! | ५, प्. ५) नमस्ते सिद्धाय सर्वमन्वनर्यार्थसाधक ! | नमस्ते मङ्गल्याय सर्वमङ्गलमङ्गल ! | नमस्ते बुद्धाय सर्वधर्मावबोधने ! | नमस्ते तथागताय सर्वधर्मतथागत ! | निःप्रपञ्चाकारसमनुप्रविष्टदेशिक ! | नमस्ते सर्वज्ञाय सर्वज्ञ ज्ञेयवस्तुसंस्कृतासंस्कृतत्रियानमार्गनिर्वाणप्रतिष्ठापनप्रतिष्ठिताय इति | एभिरक्षरपदप्रत्याहारास्तोत्रपदैर्भगवन्तं संमुखम लोकधातूनतिक्रम्य पूर्वोत्तरे दिग्भागे सङ्कुसुमितं नाम बुद्धक्षेत्रमभूत् | तत्र कुसुमावती नाम लोकधातु यत्र स भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो विहरत्यर्हं सम्यक् सम्बुद्धो विद्याचरण वोदशयत्यादौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वार्थं सर्वं जन केवलं परिपूर्णं परिशुद्धं पर्यवदातं बुद्धचर्यं सम्प्रकाशयति स्म || स एतर्हि तिष्ठति ध्रियते यापयति धर्मं च दो * * * * * * * * * * (?) त्राणं लयनं शरणं परायणं क्षेममत्यन्तनिष्ठमत्यन्तपर्यवसानं सर्वसत्त्वानां च भाषते स्म | तेनैव भगवता कृताभ्यनुज्ञात इहागतो भगवतः समीपपादमूलम् स च भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो भगवत अल्पाताधतां लघूत्थानलोवभास्यत्वविहारतां पर्यपृच्छत् | एवं चाह - आश्चर्यम् | यत्र हि नाम एवंविधे पञ्चकपाये काले बुद्धो भगवानः शक्यमुनिरुत्पनः | दर्भं देशयति | अनूनपदव्यञ्जनं तृपयाप ******* (?) मनुप्योपपत्तिप्रितिलीभनता | आश्चर्यं तस्य भगवतः शाक्य ***** (?) | यत्र हि नाम अभव्ये सत्त्वनिकाये त्रिभवसमुद्यातानुवर्तियानेऽत्वन्तयोगक्षेमानुगमे निर्वाणे भक्तं प्रतिष्ठापयति | अपि तु भगवान् बुद्धान्तं ******** (?) चित्तं बुद्धा एव भगवन्तं पश्यन्ति | किं मया ६, प्. ५) शक्यमचिन्त्याद्गुतैश्वर्यविकुर्वितानां भगवतां बुद्धविकुर्वितुं ज्ञातुम् | चित्तचरितचर्यानुप्रवेशनिर्हारचेष्टितं ज्ञातुं वा समासनिर्देशतो वा कल्पकोटीनयुतशतसहस्रैरपि वक्तुम् | योऽयं तथागतानां तथागतनिर्हारसमस्तव्यस्ताशेषमूर्त्या संस्कृतधर्मतो द्रष्टव्यः | दर्शनहेयपुराणावलम्बिनां चर्या वक्तुं गुणान् वा कथयितुं तथागत एवात्र भगवान् जानीते न वयम् || अथ खलु मञ्जुश्रीः कुमारभूतः स्वरिद्धिविकुर्वितनिर्मिते महारत्नपद्मे निपण्णः भगवन्तं शाक्यमुनिं निरीक्ष्यमाणः || अथ भगवाञ्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतं बोधिसत्त्वं महासत्त्वं विविधकथानुसारे तथागतभूतान् पूर्वप्रश्नपूर्वङ्गमपुरःसरधर्मदेशनानुकूलबोधिसत्त्वचर्यानिर्हारार्थोप् असंहितेन ब्राह्मेण स्वरेण कलविङ्करुतरचितगर्जितदुन्दुभिस्वरनिनादितनिर्घोषेण स्वरेण मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म || स्वागतं ते मञ्जुश्रीः ! महासत्त्व चर्यासर्वबुद्ध्यधिष्ठितनिर्हारसर्वबोधिसत्त्वार्थसम्प्रापकसर्वमन्त्रपद- सरहस्याभिपेकमुद्रामण्डलकल्पभिषेक आयुरारोग्यैश्वर्यसर्वाशापारिपूरकः सर्वसाधनौषयिकतन्त्रज्ञानज्ञेयकालान्तराधानराज्यक्षेत्र अतीतानागतवर्तमानसंक्षेपतः सर्वसत्त्वानां सर्वाशापारिपूरक स्वगुणोद्बोधनमन्त्रचर्यानुवर्त्तितपरसत्त्वप्रीतिकरण अन्तर्द्धानाकाशगमन पादप्रचारिक मेधावीकरण आकर्षण पातालप्रवेशन आभिचारिक सर्वकामावाप्तिसङ्कुल यक्षयक्षिणी किङ्करपिशाचसर्वभूताकर्षण बालवृद्धतरुणयथास्थितिस्थापकसंक्षेपतः सर्वकर्मकर सर्वमनोरथपरिपूरक आभिचारक शान्तिकपौष्टिकेषु प्रकुर्वाणः यथा यथा प्रयुज्यमानस्तथा तथा श्राव्यमानबोधिसत्त्वपिटकावतंसकं महाकल्परत्नपटलविसरं अस्माभिरनुज्ञातः सर्ववृद्धैश्च भापन्तं शुद्धसत्त्वे यधर्मकोशं बहुजनहिताय *****(?)कामाय देवानां च सर्वसत्त्वानुद्दिश्य || अथ *********** (?) मारभूतः *********** (?) ज्योतिरश्मिव्यूहालङ्कारस********* (?) त्त्वसमाधिं ************ (?) मनन्तर ७, प्. ७) समापवस्यानेकमङ्गान यावद् भुवनं यावच्च अवीचिर्महानरकं ये केचित् सत्ता सुदुःखिताः सर्वे ते दुःखप्रशमनशान्तिं च जग्मुः | सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वान् बुद्धांश्च भगवतां सञ्चोद्य पुनरेवं सा रश्मिर्मञ्जुश्रियस्य बोधिसत्त्वस्य मूर्धन्यन्तर्धीयते स्म || अत्रान्तरे पूर्वस्यां दिशि ये व्यवस्थिता बुद्धक्षेत्राः तत्र बुद्धा भगवन्तः सञ्चोदिताः तेन रश्मिधातुमण्डलीसमुद्द्योतितनिर्हारेण | तद्यथा - ज्योतिस्सौम्यगन्धावभासश्रीर्नाम तथागतः भैषज्यगुरुवैदूर्यप्रभराजस्तथागतः समन्तावभासश्रीर्नाम तथागतः समुद्गतराजो नाम तथागतः शालेन्द्रराजो नाम तथागतः लोकेन्द्रराजो नाम तथागतः अमितायुर्ज्ञानविनिश्चयराजो नाम तथागतः अनन्तावभासराजेन्द्रो नाम तथागतः ज्योतिरश्मिराजेन्द्रो नाम तथागतः एवंप्रमुखा बुद्धा भगवन्तो बोधिसत्त्वगणपरिवृताः अनन्तानन्तेषु च लोकधातुषु तथागतार्हन्तः सम्यक् सम्बुद्धाः सहां लोकधातुं शुद्वावासभवनस्थं च शाक्यमुनिं तथागतामर्हन्तं सम्यक् सम्बुद्धं मञ्जुश्रिया सार्धं कुमारभूतेन बोधिसत्त्वचर्यानिर्देशमन्त्रपदार्थपटलविसरं भाषन्तं ते बुद्धा भगवन्तः सन्निपतेयुः | एवं दक्षिणस्यां पश्चिमस्यामुत्तरस्यां दिक्षु विदिक्षु | इत्यूर्ध्वमधस्तिर्यक् सर्वावन्तं बुद्धक्षेत्रानवभास्य सर्वेषु च बुद्धक्षेत्रेषु सर्वमारभवनानि जिह्वीकृत्य सबोधिसत्त्वगणपरिवृताः सश्रावकसङ्घपुरस्कृताश्च तं शुद्धावासभवनं बुद्धविकुर्वणबोधिसत्त्वमहात्म्यं च दर्शयितुकामा मन्त्रचर्यानिर्हारसमाधिविशेषपटलविसरतथागतशासनमप्रतिहतं चोद्द्योतयितुकामाः प्रत्यस्था || तद्यथा - सुबाहु सुरत्न सुव्रत सुनेत्र सूरत सुधर्म सर्वार्थसिद्धि सर्वोद्गत धर्मोद्गत रत्नोद्गत रत्नश्रीः मेरुश्रीः अचिन्त्यश्रीः प्रभाकरणीः ****** (?) ** (?)तिश्रीः सर्वार्थश्रीः सर्वरत्नपाणिः चूडामणिः मेरुध्व***** (?) **** (?) गर्भः रत्नगर्भं *** (?) गर्भः सचिन्त्यार्थगर्भः अचिन्त्यार्थम ****** (?) चर्मोद्गतगर्भः ध्व***** (?) सुकेतुः अनन्तकेतुः ८, प्. ८) * * * * * (?) गमनकेतुः रत्नकेतुः गर्भिनघोषदुन्दुभिस्वरराजाः अ****(?)सज्ञानरागः सर्वतमोऽन्धतरविधमनराजः सर्वविकरणबोधिविध्वंसनराजः सर्वचर्यातिशयज्ञानराजः लोकेन्द्रराज अतिशयेन्द्रराज विधमनराज निर्धूतराज आदित्यराज अभावसमुद्गतराज स्वभावसमुद्गतराज अभावस्वभावसमुद्गतराज अविवक्षितराज स्वभावपुण्याभः लोकाभः अमिताभः मिताभः अनन्ताभः सुनेत्राभः सुसम्भवाभः अर्थभावाभः अधृष्यः अमृष्यः अकृषः अकनिष्ठः अमलः अनलः द्युति पति मति सुख मुख नेमि निमि केतु ऋक्ष दिविदेव दिव्य नाभि रवन लोकशान्ति उपारिष्ट दुन्दुभिसिद्ध शिव आख्यदिव्य दुप्रसह दुर्धर्ष दुरालभ दूरङ्गम दुरालभ दुरस्थित ऊर्ध्वद्रव्यतम खद्योत समहद्योत अद्योत ऋषभ आभ सुमनाय सुमन महादेव सुनिर्मल मलान्त दान्त समि सुचिह्न श्वेतध्वज इमि किमि कनिष्ठ निकर्ष जीव सुजात धूमकेतु ध्वजकेतु श्वेतकेतु सुकेतु वसुकेतु वसव पितामह पितरनिष्ककुरुलोकाख्य समन्ताख्य महाख्य श्रेयसि तेजसि ज्योतिकिरण समन्तकर लोकङ्कर दिवङ्कर दीपङ्कर भूतान्तकर सर्वार्थङ्कर सिद्धङ्कर द्योतिङ्कर अवभासङ्कर दुन्दुभिस्वर रुतस्वर सुस्वर अनन्तस्वर केतुस्वर भूतमुनि कनकमुनि ऋक्च्छन्दः काश्यपशिखि | विश्वभुक् विपश्चि शाक्यमुनिश्चेति | एतैश्चान्यैश्च बहुभिर्बुद्धैर्भगवद्भिस्तं शुद्धवासभवनमवभास्य पद्मासनेषु च स्थित्वा भूदेवं बोधिसत्त्वगणाश्चाजहारं एवंरूपाः | तद्यथा - रत्नपाणिः वज्रपाणिः सुपाणि अनन्तपाणि क्षितिपाणि आलोकपाणि सुनिर्मल सुकूप प्रभूतकूट मणिकूट रत्नकूट रत्नहस्ति समन्तहस्ति गन्धहस्ति सुमति विगलगति लोकगति चारुगति अनन्तगति अनन्तकीर्ति विमलकीर्ति गतिकीर्ति **(?)लकीर्ति कीर्तिकीर्ति नाथ **** (?) **** (?) लोकनाथ नमन्तनाथ आत्रेय **(?) तत्रेय समन्तत्रेय ***(?) *** (?) नमन्तदेव त्वद्धत्रेय ***** (?) **(?)न्तात्रेय त्रिशर***** (?) ****(?)त्रेय **(?)र्ज सुमनोद्भार्**(?) *(?)र्मीश्वरः अभावे *********** (?) अवलोकितेश्वरः सुलोकितेश्वर विलोकं **(?)कमह सु*(?) वर्जितेश्वर दुन्दुभिस्वर निततेश्वर विध्वस्तेश्वर ९, प्. ९) सुवक्ष सुमूर्ति सुमद्ध यशोवत आदित्यप्रभाव प्रभविष्णुः सोमेश्वर सोम सौम्य अनन्तधो लोकश्री मगन गगनाढ्य गगनमं क्षितेश्वा महेश्वर क्षितिक्षितिगर्भ नीवरण सर्वावरण सर्वावरण विष्कम्भि सर्वनीवरणविष्कम्भि समन्तनिर्मथनः समन्तभद्रः भद्रपाणिः सुधनः सुसंहतः रसुपुष्य सुनभ आकाश आकाशगर्भः सवार्थगर्भः सर्वोद्भव अनिवर्ती अनिवर्तित अपायजह अविवर्तित अवैवर्त्तिकसर्वधर्मोपश्चेति | एतैश्चान्यैश्च बोधिसत्त्वैर्महासत्त्वैः सार्धं भगवान् शाक्यमुनिः शुद्धावासभवने विहरति स्म || अन्यैरपि बोधिसत्त्वैर्महासत्त्वैः स्त्रीरूपधारिभिः अनन्तचर्यार्थलोकनिरहारसकलसत्त्वाशय अनिवर्तनमार्गप्रतिष्ठापनतयाचिन्त्याविद्यापदमन्त्रधारणी ओषधवेषरूपधारिभिर्नानाविधपक्षिगणयक्षराक्षसमणिमन्त्ररत्नराजसत्त्व असत्त्वसङ्ख्यानसमनुप्रवेशसत्त्वचर्यानुवर्तिभिर्यथासयसत्त्वविनयनथानु- कारिभिः तत्प्रतिविशिष्टरूपानुवर्तिभिर्विद्याराजोपदेशयथावबोधधर्मनिर्याततथागता- ब्जकुलिशसर्वलौकिकलोकोत्तरसमनुप्रवेशसमयानतिक्रमणीयवचनपथप्रतिष्ठा- पनतृरत्नवंशानुपच्छेदकर्तृभिः तद्यथा - उष्णीष अत्यद्भुत अत्युन्नत सितातपत्र अनन्तपत्र शतपत्र जयोष्णीष लोकोत्तर विजयोष्णीष अभ्युद्गतोष्णीष कमलरश्मि कनकरश्मि सितरश्मि व्यूढोष्णीष कनकराशि सितराशि तेजोराशि मणिराशि समनन्तराशि विख्यातराशि भूतराशि सत्यराशि अभावस्वभावराशि अवितथराशि एतैश्चान्यैश्चोष्णीषराजैरनन्तधर्मधातुप्रविष्टैर्यथाशयसत्त्वाभिप्राय- पारिपूरकैः सर्वजिनहृदयसमन्तागनैर्न शक्यं कल्पकोटीनियुतशतसहस्रैरपि उष्णीषराज्ञां गणनापर्यन्तं वक्तुम् अचिन्त्यबलपराक्रमाणां माहात्म्यं वा कथयितुम् | समासनिर्देशतः संक्षेपतश्च कथ्यते वेद्याराज्ञीनां *****(?) वक्ष्यते | तद्यथा - ऊर्णा भ्रूलोचना पद्मा अ****(?)वा अभया करुणा मैत्री कृपा प्रज्ञा रश्मि चेतना प्रभा निर्म*******(?) तथान्याश्च विद्याराज्ञीभिरनन्तापर्यन्ततथागतमूर्तनिसृष्टां *****(?)या - १०, प्. १०) तथागतपात्र धर्मचक्र तथागतशयन तथागतावभास तथागतवचन तथागतोष्ठ तथागतोरु तथागतान्नल तथागतध्वज ******(?) तथागतचिह्नश्चेति | एतैश्चान्यैश्च तथागतमन्त्रभाषितैर्विचाराज्ञराज्ञीकिङ्करचेटचेटी दूतदूती यक्षयक्षी सत्त्वासत्त्वैश्च प्रतिविशिष्टव्यूहालङ्कारधर्ममेधान्निःसृतैः समाधिविशेषनिष्यन्दितैरपरिमितकोटीशतसहस्रपरिवारितैः सर्वविद्यागण उपर्युपरि प्रवर्तमानैर्विद्याराज्ञैः | तेऽपि तत्र शुद्धावासभवनमधिष्ठितवानभूवम् | अब्जकुले च विद्याराज्ञः | तद्यथा - भगवान् द्वादशभुजः षड्भुजेः चतुर्भुजः हालाहलः अमोघपाशः श्वेतहयग्रीवः सुग्रीव अनन्तग्रीव नीलग्रीव सुग्रीव सुकर्णः श्वेतकर्णः नीलकण्ठः लोककण्ठ विलोकित अवलोकित ईश्वासहस्ररश्मि मनः मनसः विख्यातमनसः कमलः कमलपाणिः मनोरथः आश्वासकः प्रहसित सुकेश केशान्त नक्षत्र नक्षत्रराज सौम्य सुगत दमकश्चेति | एतैश्चान्यैश्च विद्याराजैः | अब्जोष्णीपप्रमुखैरनन्तनिर्हारधर्ममेघनिष्यन्दसमाधिभूतैरनेक-शतसहस्र् अकोटीनियुतविदीपपरिवारितैरनेकैश्च विद्याराज्ञीभिर्लोकेश्वरमूर्त्तिसमाधिविसृतैः | तद्यथा - तारा सुतारा नटी भृकुटी अनन्तटी लोकटी भूमिप्रापटी विमलटी सिता श्वेता महाश्वेता पाण्डरवासिनी लोकवासिनी विमलवासिनी अब्जवासिनी दशबलवासिनी यशोवती भोगवती महाभोगवती उलूका अलोका अमलान्तकरी समन्तान्तकरी दुःखान्तकरी भूतान्तकरी श्रिया महाश्रिया भूपश्रिया अनन्तश्रिया लोकश्रिया विख्यातश्रिया लोकमाता समन्तमाता बुद्धमाता भगिनी भागीरथी सुरथी रथवती नागदन्ता दमनी भूतवती अमिता आवली भोगवली आकर्षणी अद्भुता रश्मी सुरसा सुरवती प्रमोदा द्युतिवती तटी समन्ततटी ज्योत्स्ना सोमा सोमावती मायूरी महामायूरी धनवती धनन्ददा सुरवती लोकवती *(?)र्चिष्मती **** ((?) ध्रुहन्ता सुघोषा सुनन्दा वसुदा लक्ष्मी लक्ष्मीव *(?)गान्तिका *****(?)धिचिकित्सनी असमा देवी ख्यानिकरी वशकरा अमकरी क्षेमद*****(?) मङ्गलावहा चन्द्रा शुचन्द्रा ******* (?) चेति | आन्यैश्च विद्यार***** (?) पर्णासवरिजाङ्गु******(?)नसीप्रमुखैरनन्तनिर्हारधर्मधातुगगनस्वभावैः ११, प्. ११) सत्त्वचर्याविकुर्वि******(?)ष्ठानसञ्जनितमानसैः दूतदूती **(?)पेटी किङ्करकिङ्करी यक्षयक्षी राक्षसराक्षसीं पिशाचपिशाची अब्जकुलसमयानुप्रवेशमन्त्रविचारिभिः येन तं शुद्धावासं देवभवनं शुद्धसत्त्वनिश्वस्तं तेन प्रत्यष्ठात् | प्रतिष्ठिताश्च भगवतः शाक्यमुनेः पूजाकर्मणोद्युक्तमानसो अभूवंस्थितवन्तः || तस्मिन् भगवतः शाक्यमुनेः समीपं वज्रपाणिः बोधिसत्त्वः स्वकं विद्यागणमामन्त्रयते स्म | सन्निपातं ह भवन्तोऽस्मद्विद्यागणपरिवृताः सक्रोधराजः विद्याराजराज्ञिभिर्महादूतिभिः स्मरणमात्रेणैव सर्वा विद्यागणाः सन्निपतिताः | तद्यथा - विद्योत्तमः सुविद्य सुविद्ध सुबाहु सुषेण सुरान्तक सुरद सुपूर्ण वज्रसेन वज्रकर वज्रबाहु वज्रहस्त वज्रध्वज वज्रपताक वज्रशिखर वज्रशिख वज्रदंष्ट्र शुद्धवज्र वज्ररोम वज्रसंहत वज्रानन वज्रकवच वज्रग्रीव वज्रनाभि वज्रान्त वज्रपञ्जर वज्रप्राकार वज्रासु वज्रधनुः वज्रशरः वज्रनाराच वज्राङ्क वज्रस्फोट वज्रपाताल वज्रभैरव नेत्र वज्रक्रोध जलान्तश्चर भूतान्तश्चर गन्धनान्तश्चर महाक्रोधान्तश्चर महेश्वरान्तश्चर सर्वविद्यान्तश्चर घोरः सुघोरः क्षेप उपक्षेपः पदनिक्षेपः विनायकान्तक्षेपः सविन्यासक्षेपः उत्कृष्टक्षेप बल महाबल सुम्भ भ्रमर भृङ्गिरिटि क्रोध महाक्रोध सर्वक्रोध अजर अजगर ज्वर शोष नागान्त दण्ड नीलदण्ड अङ्गद रक्ताङ्ग वज्रदण्ड मेध्य महामेध्य काल कालकूट श्वित्ररोम सर्वभूतसंक्षय शूल महाशूल अर्ति महार्ति यम वैवस्वत युगान्तकर कृष्णपक्ष घोरः घोररूपी पट्टिस तोमर गद प्रमथन ग्रसन संसार अरह युगान्तार्क प्राणहर शक्रघ्न द्वेष आमर्ष कुण्डलि सुकुण्डलि अमृतकुण्डलि अनन्तकुण्डलि रत्नकुण्डलि बाहु महाबाहु महारोग दुष्टसर्प वसर्प कुष्ठ उपद्रव भक्षक अतृप्त उच्छुष्यश्चेति | *****(?)न्यैश्च विद्याराज्ञैर्मनन्*****(?)श्च समस्ता*******(?)मक उन*******(?) ********(?)स्फोटन मारण ********(?)तारः भक्तानां *(?)तारः शानतिक पौष्टिक आभिचारककर्मेषु ******(?) अनेकैश्च विद्याराजकोटीनयुतशतसहस्रपरिवारिताः शा************* (?) मञ्जुश्रियं कुमारभूतं १२, प्. १२) निध्यायन्तं स्वकं विद्याराजं कुलिशपाणिं नमस्यतामाज्ञामुदीक्षयमाणाश्च कुलस्थानं स्थिताः | स्वकस्वकेषु चासनेषु च निषण्णा अभूवन् | भगवतो वज्रपाणेर्या अपि ता महादूत्यो विद्याराज्ञीनियुतसहस्रपरिवाराश्च अपि स्वकं धर्मधातुं गगनस्वभावं निःप्रपंचावलम्ब्य तस्मिन् स्थाने सजिपतिताः | तद्यथा - मेखला सुमेखला सिङ्कला वज्रार्णा वज्रजिह्वा वज्रभू वज्रलोचना वज्रांसा वज्रभ्रुकुटी वज्रश्रवणा वज्रलेखा वज्रसूची वज्रमुस्ती वज्राङ्कुशी वज्रशाटी वज्रासनी वज्रश्रिङ्खला सालवती साला विअरटी कामिनी वज्रकामिनी कामवज्रिणी पश्यिका पश्यिनी महापश्यिनी शिखरवासिनी ग्रहिला द्वारवासिनी कामवज्रिणी मनोजवा अतिजवा शीघ्रजवा सुलोचना सुरसवती भ्रमरी भ्रामरी यात्रा सिद्धा अनिला पूरा केशिनी सुकेशा हिण्डिनी तर्जिनी दूती सुदूती मामकी वामनी रूपिणी रूपवती जया विजया अजिता अपराजिता श्रेयसि हासिनी हासवज्रिणी लोकवती यसवती कुलिशवती अदान्ता त्रैलोक्यवशङ्करी दण्डा महादण्डा प्रियवादिनी सौभाग्यवती अर्थवती महानर्था तित्तिरी धवलतित्तिरी धवला सुनिर्मिता सुनिर्मला घण्टा खड्गपट्टिसा सूची जयती अवरा निर्मिता नायिका गुह्यकी विस्रम्भिका मुसला सर्वभूतवशङ्करी चेति | एताश्चान्याश्च महादूत्यः अनेकदूतीगणपरिवारिवारिता अत्रैव महापर्षन्मण्डले सन्निपतेयुः अनेकाश्च धारण्यः समाधिनिष्पन्दपरिभावितमानसोद्भवा दुष्टसत्त्वनिग्रहदण्डमायादयिताः तद्यथा - वज्रानलप्रमोहनी धारणी मेरुशिखरकूटागारधारिणी रत्नशिखरकूटागारधरणिन्धरा सुकृटा बहुकूटा पुष्पकूटा दण्डधारिणी निग्रहधारणी आकर्षणधारिणी केयूरा केयूरवती ध्वजाग्रकेयूरा रन्नागकेयूरा लोकाग्रकेयूरा पताग्रकेयूरा विपरिवर्ता लोकावर्ता सहस्रावर्ता विवस्वा**(?) सर्वभूतावर्ता केतुवती रत्नवती मणिरत्नचूडा बोद्ध्यगा बलवती अनन्तकेतु समन्तकेतु रत्नकेतु विख्यातकेतु सर्वभूतकेतु १३, प्. १३) अजिरवती अम्बरा सुनिर्मला षण्मुखा विमला लोकाख्या चेति | एताश्चान्याश्चानेकधारणीशतसहस्रकोटीपरिवारिता तत्रैव महापर्पन्मण्डले सन्निपतेयुः | अनन्तबुद्धाधिष्ठानमहाधिसत्त्वसमाध्याधिष्ठानं च | अथ बुद्धक्षेत्रविवर्जितप्रत्येकबुद्धा भगवन्तो खड्गविषाणकल्पा वनचारिणश्च ससत्त्वानागर्थं कुर्वन्तस्तूष्णीम्भावानधिवासनधर्मनेत्रीसम्प्रकाशयन्तः संसारानुवर्तिन सदा खिन्नमानसा महाकरुणावर्जितसन्तानः केवलचित्तवासनापरिभावितबोधिचित्तपूर्वोद्भावितपरिभावितचेतना एकभूमि द्विभूमि त्रिभूमिर्यावदष्टमी बोधिसत्त्वभूमिनिवर्तितमानसः खिन्नमानसो संसारभयभीरवः तेऽपि तं महापर्पन्मण्डलं सन्निपतेयुः | तद्यथा - गन्धमादनः सिमन्तायतन समन्तप्रभ चन्दन काल उपकाल नेमि उपनेमि रिष्ट उपरिष्ट उपारिष्ट पार्श्व सुपार्श्व दुन्दुभि उपदुन्दुभि लोकाख्य लोकप्रभ जयन्त अरेणु रेणु उपरेणु अंश उपांश चिह्न सुचिह्न दिनकर सुकर प्रभावन्त प्रभाकर लोककर विश्रुत सुश्रुत सुकान्त सुधान्त सुदान्त अदन्तान्त भवान्त सितकेतु जिह्मकेतु केतु उपकेतु तथ्य पद्महर पद्मसम्भव स्वयम्भु अद्भुत मनोज मनस महेन्दुकूटाख्य कुम्भसकलाख्य मकर उपकर शान्त शान्तमानस वर्म उपवर्म वैरोचन कुसुम सुलील श्रेयस वद्यहरान्तक दुःप्रसह कनक विमलकेतु सोम सुसोम सुषेण सुचीर्ण शुक्र क्रतु इष्ट उपेन्द्र वसुश्चेति | एतैश्चान्यैः प्रत्येकबुद्धकोटीनियुतशतसहस्राचिन्त्यातुल्या प्रणिहितधर्मधातुगगनस्वभावनिःप्रपंचसंस्कृतमध्ययानप्रविष्ट- निर्दिष्टप्रतिष्ठितैः सार्धं भगवान् शाक्यमुनिः प्रतिष्ठातुननयप्रतिघापगतैर्विहरति स्म | महाश्रावकसङ्घेन च सार्धमनेकश्रावकशतसहस्रकोटीपरिवारैः || तद्यथा - सहाकाश्यप नदीकाश्यप गयाकाश्यप दुरविक्षोकाश्यप भरद्वर ***(?) मौद्गल्यायन महामौल्यायन शारिपुत्र महासारिपुत्र सुभूति महासुभूति गवाम्यवि कात्यायन महाकात्यायन उपालि भद्रिस फिणनन्द आनन्द सुन्दरनन्द लोकभूत अनन्तभूत वर्णक उपवर्णक ***(?)न्दिक उपनन्दिक अविरुद्ध पूर्ण सुपूर्ण उपपूर्ण १४, प्. १४) तिष्य पुनर्वसु रूह रौद्र रौरव कुरु पञ्चिक उपपञ्चिक **** (?) देवल राहुल हरित उपहन्ति ध्यायि नन्दि ध्यायिक उपायि उपयायिक श्रेयसक द्रव्यो मल्लपुत्रः उपद्रव्यः उपेतः खण्डः तिष्य महातिष्य समन्ततिष्य आह्वयनयसोद यसिक धनिक धनवर्ण उपधनिक पिलिन्दवश पिप्पल किम्फल उपफल अनन्तफल सफल कुमार कुमारकाश्यप महोद षोडशवर्तिका नन्द उपनन्द जिह्व जिह्म जितपाश महेष्वास वात्सीक कुरुकुल्ल उपकुरुकुल्ल कोटीकर्ण श्रमण श्रोणीपरान्तक गाङ्गेयक गिरिकर्णिक कोटिकर्णिक वार्षिक जेतः सुजेत श्रीगुप्त लोकगुप्त गुरुगुप्त गुरुक द्योतीरसः सनक डिम्भक उपडिम्भि विसकोटिक अनाथद उपर्तन विवर्तन उन्मत्तक द्योत समन्त भद्दलि सुप्रबुद्ध स्वागत उपागत लोहागत दुःखान्त भद्रकल्पिक महाभद्रिक अर्थचर पितामह गतिक पुष्पमाल पुष्पकाशिख उपकाशिक महौषध महोजस्क महोज अनुराधमहौजस्क महोज अनुराध राधक रासिक सुब्रह्म सुशोभन सुलोक समागम मितश्चेति | एतैश्चान्यैश्च मनन्तधर्मधातुविमुक्तिरसरसज्ञैः त्रियानसमवसरणकरणीयसयानसमनुप्राप्तैः संसारपलायिभिः त्रिमोक्षध्यानध्यायिभिः चतुर्बाहुविहार ईर्ष्याषथसम्पन्नैः सुसमाहितैः सूपसम्पन्नैः अनयप्रविष्टनिर्वाणधातुसमवशरणसमतानिःप्रपंचभिः सार्धं तन्महापर्षन्मण्डलं तं च भगवन्तं शाक्यमुनिं त्रिरन्तस्थानवस्थित | दशभूम्यानन्तरं तेऽपि तत्र निषण्णभूवम् | अनेकैश्च महाश्राविकासमवशरणनिर्वाणधातुसमनुप्रविष्टाभिः असंस्कृतयावमानयानावलम्विभिः शुद्धाभिर्वीतरागाभिः समन्तद्योतिसमनुप्राप्ताभिः दक्षिणीयक्षेत्रगुणाधानविशोधिभिः सत्त्वसारमण्डभूताभिः लोकाग्राधिपतीभिः पूज्यदेवमनुष्यपुण्यक्षेत्रद्विपदचतुष्पदबहुपद अपद सर्वसत्त्वाधिपतीभिः तद्यथा - यशो**** (?) **(?)शोदा म*****(?) **(?)पती सुजाता नन्दा **(?)नन्दा **** (?) ध्यायिनी ***** (?) विशा**(?) मनोरथा ***(?)ती वीरा उपवीरा देवता ****(?) आश्रिता श्रिया ***(?) ***(?) प्रियंवरा रोहिणी धृ***(?) ****(?) सम्पदा वपुषा १५, प्. १५) शुद्धा सभा जटा उपजटा समन्तजटा भवान्तिका भाव्ती मनोजवा केशवा विष्णुला विष्णुवती सुषमा बहुशा श्रेयसी दुःखान्ता कर्मदा क वसुदा धर्मदा नर्मदा ताम्रा सुताम्रा कीर्तिवती मनोवती प्रहसिता त्रिभवान्ता त्रिभलान्ता दुःखशायिका निर्वीणा त्रिपर्णा पद्मवर्णा पद्मावती पद्मप्रभा पद्मा पद्मावती त्रिपर्णी सप्तवर्णी उत्पलवर्णा चेति | एताश्चान्याश्च महास्थविष्ठा महाश्राविका भगवतः पादमूलं वन्दनाय उपसङ्क्रान्ताः | एता एव महापर्षन्मण्डलं महाबोधिसत्त्वविकुर्वणं प्रभावयितुकामाः सन्निपतिताः सन्निषण्णा अभूवम् | धर्मश्रवणाय मन्त्रचर्यार्थनिर्हारमुद्योतयितुकामा भूवम् || अथ भगवान् शाक्यमुनिस्तं सर्वावन्तं पर्षन्मण्डलमवलोक्य शुद्धाध्यासयः अभावस्वभावगगनस्वभावत्रिपर्वसगतिक्रमणं सत्त्वधातुं विदित्वा मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | समन्वाहर त्वं मञ्जुश्रीः ! सत्त्वार्थचर्यं प्रति यथाशयाभिननन्दनेप्सितकर्मफलश्रद्धासमन्वागममन्त्रचर्यार्थ- सम्प्राषणं नामामधर्मपदकर्मपदं शान्तिपदं मोक्षपदं कल्पनिर्हारं निर्विकल्पसमताप्रापणं दशतथागतवलसमन्तवलसबलं मारवलाभिवर्द्धनं नाम बोधिसत्त्वसमाधिं भावयथ || अथ मञ्जुश्रीः कुमारभूतः समनन्तरभावितं भगवता समापद्यते स्म | समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य यथेयं त्रिसाहस्रमहासाहस्रो लोकधातुरनेकलोकधातुशतसहस्रपरमाणुरजःसमां त्रिसाहस्रमहासाहस्रां लोकधातुं सम्प्रकल्प्य महतावभासेनावभास्य च स्वकं शुद्धिवलाधानं दर्शयते स्म | स्वानि च मन्त्रपदानि भाषते स्म | नमः समन्तबुद्धानात् | अभावस्वभावसमुद्गतानाम् | नमः प्रत्येकबुद्धार्यश्रावकाणाम् | नमो बोधिसत्त्वानां दशभूमिप्रतिष्ठेश्वराणां बोधिसत्त्वानां ********(?)म् | ************ (?) खाहिखा********* (?) ******(?)मक ! अ*******(?)लपरशुपाशहर*****(?) *********(?)नतुर्मुख ! प*********(?) गच्छ महाविघ्नघा***(?) सर्वभूतभयङ्कर ! ******* (?) व्याघ्रचर्मनिवसन ! १६, प्. १६) कुरु कुरु सर्वकर्मा | छिन्द छिन्द सर्वप्रधान् | भिन्द भिन्द परमुद्राम् | आकर्षय आकर्षय सर्वमुद्राम् | निर्मथ निर्मथ सर्वदुष्टान् | प्रवेशय प्रवेशय मण्डलमध्ये | वैवस्वतान्तकर ! कुरु कुरु मम कार्यम् | दहदह पचपच मा विलम्ब मा विलम्ब समयमनुस्मर हूं हूं फट् फट् | स्फोटय स्फोटय सर्वाशापारिपूरक ! हे हे भगवन् ! किं चिरायसि मम सर्वार्थान् साधय स्वाहा || एष भगवतो मञ्जुश्रियस्य महाक्रोधराजा यमान्तको नाम यमराजामपि घातयति | आनयति | किं पुनरन्यसत्त्वम् | समनन्तरभाअपिते महाक्रोधराजे भगवतः समीपं सर्वसत्त्वा उपसङ्क्रमन्ते आर्ता भीतास्त्रस्ता उद्विग्नमनसो भिन्नहृदयाः | नान्यच्छरणम् | नान्यत् त्राणम् | नान्यत् परायणम् | वर्जयित्वा तु बुद्धं भगवन्तं मञ्जुश्रियं च कुमारभूतम् || अथ ये केचित् पृथिवीचरा जलेचराः खगचराः स्थावरजङ्गमाश्च जरायुजाण्डजसंस्वेदज उपपादुकसत्त्वसङ्ख्याताः तेऽपि तत्क्षणतन्मुहूर्तेनानन्तापर्यन्तेषु लोकधातुषु स्थिता इत्यूर्ध्वमधस्तिर्यक् दिक्षु विदिक्षु निलीनास्तत्क्षणं महाक्रोधराजेन स्वयमपोह्य नीताः | अयं च क्रोधराजा अवीतरागस्य पुरतो न जप्तव्यः | यत् कारणं सोऽपि म्रियते शुष्यते वा | समयमधिष्ठाय बुद्धप्रतिमायाग्रतः वा मञ्जुश्रियो वा कुमारभूतस्याग्रतो जप्तव्यः | अन्यकर्मनिमित्तं वा यत्र वा तत्र वा न पठितव्यः | कारणं महोत्पादमहोत्सन्न आत्मोषघातय भवतीति | परमकारुणिका हि बुद्धा भगवन्तो बोधिसत्त्वाश्च महासत्त्वाश्च केवलं नु सर्वज्ञज्ञान सम्प्रतिष्ठापन-अशेषसत्त्वधातुनिर्वाणाभिसम्प्रापणा अशासितशासनः त्रिमात्रसंयोजनः त्रिरत्नवंशानुपच्छेदमन्त्रचर्यादीपनः गद्दाकरुणाग्रभावनिष्यन्देन चेतसा मारवलाभिभवन महाविघ्ननाशन दुष्टराज्ञा निवारण आत्मवलाभिभवन पर******(?)रणस्तोभन ***(?) ***(?) शासन उच्छोषण ***(?) स्वमन्त्र*****(?)काशन आयुरारो**(?) *(?)भिव******(?) *****(?) **(?)धयतः महामैत्र्या महाकरुणा महोपेक्षा महातु *************** (?) हेतुं सर्वतर्कवितर्कापगतेन चेतसा भाषते स्म || १७, प्. १७) अथ ते नागा महानागा यक्षा महायक्षा राक्षसा महाराक्षसाः पिशाचा महापिशाचाः पूतना महापूतनाः कटपूतना महाकटपूतना मारुता महामारुताः कूष्माण्डा महाकूष्माण्डा व्याडा महाव्याडा वेताडा महावेताडा कम्बोजा महाकम्बोजा भगिन्यो महाभगिन्यो डाकिन्यो महाडाकिन्यः चूषका महाचूषका उत्सारका महोत्सारका डिम्फिका महाडिम्फिकाः किम्पका महाकिम्पका रोगा महारोगाः महारोगा अपस्मारा महा-अपस्माराः ग्रहा महाग्रहा आकाशमातरा महाकाशमातरः रूपिण्यो महारूपिण्यः क्रन्दना महाक्रन्दनाः छाया महाच्छाया प्रेषका महाप्रेषकाः किङ्करा महाकिङ्करा यक्षिण्यो महायक्षिण्यः पिशाच्यो महापिशाच्यो ज्वरा महाज्वराः चातुर्थका महाचातुर्थकाः नित्यज्वरा विषयज्वरा साततिका मौहूर्तिका वातिकाः पैत्तिकाः श्लेष्मिकाः सान्निपातिका विद्या महाविद्या सिद्धा महासिद्धा योगिनो महायोगिनः ऋषयो महाऋषयः किङ्करा महाकिङ्करा महोरमा महामहोरगा गन्धर्वा महागन्दह्र्वा देवा महादेवा मनुष्या महामनुष्या जनपदयो महाजनपदयः सागराः महासागराः नद्यो महानद्यः पर्वता महापर्वताः निधयो महानिधयः पृथिव्या महापृथिव्या वृक्षा महावृक्षाः पक्षिण्यो महापक्षिण्यो राज्ञा महाराज्ञा शक्रा महेन्द्रा वासवा क्रतयो भूता वियति ईशान यमः ब्रह्मा महाब्रह्मा वैवस्वत धनद धृतराष्ट्रः विरूपाक्षः कुवेरः पूर्णभद्रः पञ्चिकः जम्भल सम्भल कूष्मल हारीति हरिकेश हरिहारीति पिङ्गला प्रियङ्कर अर्थङ्कर जालेन्द्र लोकेन्द्र उपेन्द्र गुह्यक महागुह्यक चल चपल जलचर सातत गिरि हेमगिरि महागिरि कूटाक्ष त्रियसिरश्चेति | एतैश्चान्यैश्च महायक्षसेनापतिभिः अनेकयक्षकोटीनियुतशतसहस्रपरिवारितैस्तत्रैव महापर्षन्मण्डले शुद्धावासभवने बोधिसत्वाधिष्ठानेन ऋद्धिबलाधानेन च सन्निपतिता अभूवं सन्निपण्णाश्च धर्मश्रवणाय || येऽपि ते महाराक्षसरा***(?) अनेकराक्षस***************** (?) आनीता महाक्रोध***(?) | तद्यथा रावण प्रविण विद्रावण **(?)कुकर्ण कुम्भ कुम्भकर्ण हयन्तकर्ण यम घिभीषण १८, प्. १८) घोर सुघोर यक्ष यम घण्ट इन्द्रजित् लोकजिः योधनः सुयोधनः शूलः त्रिशूलः त्रिशिरः ***(?)शिरश्चेति सन्निपतिता भूवं धर्मश्रवणाय || येऽपि ते महापिशाचा अनेककोटीनियुतशतसहस्रपरिवाराः | तद्यथा - पीलु उपपीलु सुपीलु अनन्तपीलु मनोरथ अयनोरथ सुताय ग्रसन सुधाम घोर घोररूपीश्चेति सन्निपतिता अभूवं धर्मश्रवणाय || येऽपि ते महानागराजानः अनेकनागकोटीनियुतशतसहस्रपरिवारा आनीताः क्रोधराजेन बोधिसत्त्वऋद्धिवलाधानेन च | तद्यथा - नन्द उपनन्द कम्बल उपकम्बल वासुकि अनन्त तक्षक पद्म महापद्म सङ्खपाल सङ्ख सङ्खपाल कर्कोटक कुलिक अकुलिक माण कलशोद कुलिशिक चांपेय मणिनाग मानभञ्ज दुकुर उपदुकुर लकुट महालकुट श्वेत श्वेतभद्र नील नीलाम्बुद क्षीरोद अपलाल सागर उपसागरश्चेति | एतैश्चान्यैश्च महानागराजनैः अनेकशतसहस्रमहानागपरिवारितैस्तन्महाषर्षन्मण्डलं सन्निपतिताः सन्निषण्णा अभूवं धर्मश्रवणाय || येऽपि ते ऋषयो महाऋषयः | तद्यथा - आत्रेय वसिष्ठः गौतम भगीरथः जह्नु अङ्गिरसः अगस्ति पुलस्तिः व्यास कृष्ण कृष्ण गौतम अग्नि अङ्गिरस जामदग्नि आस्तीक मुनिः मुनिवर अश्वरः वैशम्पायन पराशरः परशुः योगेश्वरः पिपोअलः पिप्पलाद वाल्मीकः मार्कण्डश्चेति | एतैश्चान्यैर्महाऋषयै अनेकमहाऋषिशतसहस्रपरिवारास्तत्पर्षन्मण्डलमुपजग्मुः | भगवन्तं शाक्यमुनिं वन्दित्वा सन्निषण्णा भूवं मन्त्रचर्यार्थबोधिसत्त्वपिटकं श्रोतुमनुमोदितुं च || येऽपि ते महोरगराजानः तेऽपि तत् पर्षन्मण्डलं सम्प्रविष्टा अभूवं सन्निषण्णाः | तद्यथा - भेरुण्ड ***(?) ******** (?) दीप ******(?)श्चेति || येऽपि ते गरुड ****(?)स्तेऽपि तत् पर्षन्मण्डल *******(?) अनेकशतसहस्रपरिवाराः | ***** (?) - सुपर्ण श्वेतपर्ण पन्न*** (?) **** (?) सु*** (?) | १९, प्. १९) अजातपक्षः मनोजव पन्नगनाशन वैनतेय वैनतेय भरद्वाज शकुन महाशकुन पक्षिरान्नाश्रेति | तेऽपि तत् पर्षन्मण्डलं सन्निपतेयुः || येऽपि ते किन्नरराज्ञः अनेककिन्नरशतसहस्रपरिवाराः तेऽपि तं पर्षन्मण्डलं सन्निपतेयुः | तद्यथा - द्रुम उपद्रुम सुद्रुम अनन्तद्रुम लोकद्रुम लेद्रुम घनोरस्क यद्दोरस्क महोजस्क महोज महर्द्धिक विरुत सुस्वर मनोज्ञ चित्तोन्मादकर उन्नत उपेक्षक करुण अरुणश्चेति | एते चान्ये च महाकिन्नरराजानः अनेककिन्नरशतसहस्रपरिवाराः सन्निपतिता अभूवं धर्मश्रवणाय || एवं ब्रह्मा सहाम्पति महाब्रह्मा आभास्वरः प्रभास्वरः शुद्धाभः पुण्याभः अट्टह अतषाः अकनिष्ठा सुकनिष्ठा लोकनिष्ठा आकिञ्चन्या नैवकिञ्चन्या आकाशानन्त्या नैवाकाशानन्त्या सुदृशा सुदार्शना सुनिर्मिता परनिर्मिता शुद्धावासा तुषिता यामा तृदशा चातुर्महाराजिका सदामत्ता मालाधारा करोटपाणयः वीणातृतीयकाः पर्वतवासिनः कूटवासिनः शिखरवासिनः अलकवासिनः पुरवासिनः विमानवासिनः अन्तरिक्षचराः भूमिवासिनः वृक्षवासिनः गृहवासिनः | एवं दानवेन्द्राः - प्रह्लाद बलि राहु वेमचित्ति सुचित्ति क्षेमचित्ति देवचित्ति राहु वाहुप्रमुखाः अनेकदानवकोटीशतसहस्रपरिवाराः विचित्रगतयो विचित्रार्थाः सुरयोधिनोऽसुराः तेऽपि तत् पर्षन्मण्डलं सन्निपतेयुः | बुद्धाधिष्ठानेन बोधिसत्वविकुर्वणं द्रुष्टुवन्दितुं पर्युपासितुम् || येऽपि ते ग्रहा महाग्रहा लोकार्थकरा अन्तरिक्षचराः | तद्यथा - आदित्य सोम अङ्गारक बुध बृहस्पति शुक्र शनिश्चर राहु कम्पकेतु अशनि निघात तार ध्वज घोर धूम्र धूम वज्र ऋक्ष वष्टि उप**(?)नष्टार्क नि***(?)हशान्त माष्टि ***(?)मुष्टि लोकान्त क्ष**(?)विनिपात ****(?) तर्क मस्तकं युगान्त श्मशान ***(?) रौद्र श्वेत **** (?) अभिजत मैत्र****(?) त्रिशङ्कु लूश्च*****(?) क्रतुनाशन ****** (?) अरुण विहति********(?)न्द सनत् ****** (?) कुमारक्रीडन हसन प्रहसन नर्तपक नर्तकं ****(?) विरूपश्चेति | इत्येते महाग्रहाः तेऽपि तत् २०, प्. २०) पर्षन्मण्डलमनेकशतसास्रपरिव्रताः बुद्धाधिष्ठानेन **(?) शुद्धावासभवने सन्निपतिता अभूवं सन्निपण्णा || अथ ये नक्षत्राः खगानुचारिणः अनेकनक्षत्रशतसहस्रपरिवारिताः | तद्यथा - अश्विनी भरणी कृत्तिका रोहिणी मृगशिरा आर्द्र पुनर्वमू पुष्य आश्लेषा मघा उभे फल्गुनी हस्ता चित्रा स्वाति विशाखा अनुराधा ज्येष्ठा मूला उभौ आषाढौ श्रवणा धनिष्ठा शतभिषा उभौ भद्रपदौ रेवती देवती प्रभिजा पुनर्णवा ज्योती अङ्गिरसा नक्षत्रिका उभौ फल्गुफल्गुवती लोकप्रवरा प्रवराणिका श्रेयसी लोकमाता ईरा ऊहा वहा अर्थवती असार्था चेति | इत्येते नक्षत्रराज्ञः तस्मिं शुद्धावासभवने अनेकनक्षत्रशतसहस्रपरिवारिताः तास्तस्मिन् महाषर्पन्मण्डलसन्निपाते बुद्धाधिष्ठानेन सन्निपतिताः सन्निषण्णा अभूवम् || षट्तृंशद् राशयः तद्यथा - मेष वृषभ मिथुन कर्कटक सिंह कन्य तुल वृश्चिक धनु मकर कुम्भ मीन वानर उपकुम्भ भृञ्जार खड्ग कुञ्जर महिष देव मनुष्य शकुन गन्धर्व लोकसत्वजित उग्रतेज ज्योत्स्न छाय पृथिवी तम रज उपरज दुःख सुख मोक्ष बोधि प्रत्येक श्रावक नरक विद्याधर महोज महोजस्क तिर्यक्प्रेत असुरपिशित पिशाच यक्षराक्षस सर्वभूमित भूतिक निम्नग ऊर्ध्वग तिर्यग विकसित ध्यानग योगप्रतिष्ठ उत्तम मध्यम अधमश्चेति | इत्येते महाराश्यः अनेकराशिशतसहस्रराशिपरिवारिताः येन शुद्धावासभवनं येन च महापर्षत्सन्निपातमण्डलं तेनोपजग्मुः | उपेत्य भगवतश्चरणयोर्निपत्य स्वकस्वकेषु च स्थानेषु सन्निषण्णा भूवम् || येऽपि ते महायक्षिण्यः अने****(?)शतसहस्रपरिवृताः | तद्यथा सुलोचना सुभ्रू सुकेता *****(?) सुमती वसुमती चित्राक्षी पू*****(?) ******* (?) मेखला ****** (?) ** (?) अभया ** (?) वि******** (?) के*****(?) केशान्त***** (?) *हरा (?) मनो** (?) ************* (?) पिङ्गला ********(?)ती वीरा ***** (?) घोरा***** (?) *******दरी (?) सुरसा *******(?)टवासिनी अन्धार****(?) *****दरी प्रभावती ********** (?) २१, प्. २१) असिता **(?) काणा मेना नन्दिनी उपनन्दिनी लोकान्तरा चेति | इत्येते ***(?)क्षिण्यो अनेकयक्षिणीशतसहस्रपरिवाराः तन्महापर्षन्मण्डलं दुरत एव भगवन्तं शाक्यमुनिं नमस्यन्त्यः स्थिता भूवम् || येऽपि ते महापिशाच्यः अनेकपिशाचिनीशतसहस्रपरिवृताः तेऽपि तं भगवन्तं शाक्यमुनिं नमस्यन्त्यः सन्निपतेयुः | तद्यथा - मण्डितिका पांसुपिशाची उल्कापिशाची ज्वालापिशाची भस्मोद्गिरा पिशिताशिनी दुर्धरा भ्रामरी मोहनी तर्जनी रोहिणिका गोवाहिणिका लोकान्तिका भस्मान्तिका पीलुवती बहुलवती बहुल दुर्दान्ता धणा चिह्नितिका धूमान्तिका धूमा सुधूमा चेति | इत्येता महापिशाच्यः अनेकपिशाचीशतसहस्रपरिवारिताः तेऽपि तन्महापर्षत्सन्निपातमण्डलं सम्प्रविष्टा भूवम् || येऽपि ते मातरा महामातराः लोकमनुचरन्ति सत्वविहेठिका वलिमाल्योपहारिश्च | तद्यथा - ब्रह्माणी माहेश्वरी वैष्णवी कौमारी चामुण्डा वाराही ऐन्द्री याम्या आग्नेया वैवस्वती लोकान्तकरी वारुणी ऐशानी वायव्या परप्राणहरा सुखमण्डितिका शकुनी महाशकुनी पूतना कटपूतना स्कन्दा चेति | इत्येते महामातरा अनेकमातरशतसहस्रपरिवाराः तेऽपि तं महापर्षन्मण्डलं नमो बुद्धायेति वा चमुदीरयन्त्यः स्थिता अभूवम् || एवमनेकशतसहस्रमनुष्या मनुष्यसत्वासत्वयावदीदेवीचिर्महानरकं यावच्च भगवाग्रं अत्रान्तरे सर्वगानतलं स्फुटमभूत् | सत्वनिकाये न च कस्यचित् प्राणिनो विरोधोऽभूत् | बुद्धाधिष्ठानेन च बोधिकन्नरङ्घालङ्कारेण च सर्व एव सत्वा मूर्धापस्थितं बुद्धं भगवन्तं मञ्जुश्रियं कुमारभूतं सम्पश्यते स्म || अथ भगवान् शाक्य******** (?) लोकधातुं बुद्धच**(?) समवलये मञ्जुश्रियं कुमार************ (?) | भाप भाप त्वं शुद्धसत्य *****(?)र्यार्थविनिश्चयसग्र*********** (?) बोधिसत्वपिटकं यस्ये**********(?)यसे || २२, प्. २२) अथ मञ्जुश्रीः कुमारभूताः भवनता शाक्यमुनिना कृताभ्यनुज्ञातः गगनस्वभावव्यूहालङ्कारं वज्रसंहतकठिनसन्तानव्यूहालङ्कारं नाम समाधिं समापद्यते | समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य तं शुद्धावासभवनं अनेकयोजनशतसहशविस्तीर्णं वज्रमयमधितिष्ठते स्म | यत्र ते अनेकयक्षराक्षसगन्धर्वमरुतपिशाचः संक्षेपतः सर्वसत्वधातुबोधिसत्वाधिष्ठानेन तस्मिन् विमाने वज्रमणिरत्नप्रख्ये सम्प्रतिष्ठिताः सन्निषण्णा भूवं अन्योन्यमविहेठकाः | अथ मञ्जुश्रीः कुमारभूतस्तन्महापर्षत्सन्निपातं विदित्वा यमान्तकं क्रोधराजमामन्त्रयते स्म | भो भो महाक्रोधराज ! सर्वबुद्धबोधिसत्वनिर्घातः एवं महापर्षत्सन्निपातमण्डलं सर्वसत्वानां च रक्ष रक्ष वशमानय | दुष्टान् दम | सौम्यान् बोधय | अप्रसन्नां प्रसादय | यावदहं स्वमन्त्रचर्या**(?)नं बोधिसत्वपिटकं वैपुल्यमन्त्रचर्यामण्डलविधानं भाषिष्ये | तावदेतां बहिर्गत्वा रक्षय || एवमुक्तस्तु महाक्रोधराजा आज्ञां प्रतीक्ष्य महाविकृतरूपी निर्ययुः सर्वसत्वान् रक्षणाय शासनाय समन्तात् पर्षन्मण्डलं यमान्तकः क्रोधराजा अनेकक्रोधशतसहस्रपरिवारितो समन्तात्तं चतुर्दिक्षु इत्यूर्ध्वमधस्तिर्यग् घोरं च नादं प्रमुञ्चमानः स्थितोऽभूत् || अथ ते सर्वाः सुमन्स्काः संवृत्ताः आज्ञां नोल्लङ्घयन्ति | एवं च शब्दं शृण्वन्ति | यो ह्येतं समयमतिक्रमेत् | स तवास्य स्फुटो मूर्ध्ना अजकस्येव मञ्जरीति | बोधिसत्वाधिष्ठानं च तत् || अथ मञ्जुश्रीः कुमारभूतः स्वमन्त्रचर्यार्थधर्मपदं भाषते स्म | एकेन धर्मेण समन्वामनस्य बोधिसत्त्वस्य महासत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः | कतमेनेकेन यदुत सर्वधर्माणां निःप्रपञ्चो कारतः समनुपश्यता | द्वाभ्यां धर्माभ्यां एनिष्ठितस्य बोधिसत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः | एतमाभ्यां द्वाभ्यद बो************(?)त्यागिता सर्वसत्त्वसयता च | त्रया*** (?) धर्माभ्यां स्व******(?) | **********(?)रिपूरिं गच्छति | कतमाभ्यां **(?)यां सर्वसत्त्वापरित्या*******(?)शीलनं********(?) तया *********(?)गिता च | चतुर्भिः धर्मैः समन्वागतस्व प्रथम २३, प्. २३) चित्तोत्पादिकस्य बोधिसत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः | कतमैश्चबुद्धिं समन्त्रापरित्यागिता पश्यन्त्रानुपच्छेदनता सर्वसत्त्वमैत्र्योपसंहरणता वहाकरुणाभावितचेतनता च | इमैश्चतुर्भिः धर्मैः समन्वागतस्य प्रथमचित्तोत्पादकस्य बोधिसत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः | यंधर्मा बोधिसत्त्वस्य पिटकसमवशरणता मन्त्रचर्याभिनिर्हारं बोधिपूरिं गच्छेयुः | कतमे पञ्च | विविक्तदेशसेवनता परसत्त्वाद्वेषणता लौकिकमन्त्रानिरीक्षणता शीलश्रुतचारित्रस्थापनता च | इमे पञ्च धर्माः मन्त्रचर्यार्थपारिपूरिं गच्छेयुः | षट् धर्मा मन्त्रचर्यार्थपारिपूरिं गच्छेयुः | कतमे षट् | त्रिरत्नप्रसादानुपच्छेदनता बोधिसत्त्वप्रसादानुपच्छेदनता लौकिकलोकोत्तरमन्त्रानिन्दनता निःप्रपञ्चधर्मधातुदम्भ नता गम्भीरपदार्थमहायानसूत्रान्त अप्रतिक्षेपणता अखिन्नमानसता मन्त्रचर्यापर्येष्टिः कुशलपक्षे अपरिहानता | इमे षट् धर्मा विद्याचर्यामन्त्रसिद्धिं समवशरणतां गच्छन्ति | सप्त धर्मा विद्यासाधनकालौपयिकमन्त्रचर्यानुप्रवेशनतां गच्छन्ति | कतमे सप्त | गम्भीरनयः प्रज्ञापारमिता भावना पठनदेशनस्वाध्यायनलिखनबोधिसत्त्वञ्चर्याविमुक्तिः कालदेशनियमजपहोममौनतप-अविलम्बितगतिमतिस्मृतिप्रज्ञाधृति अधिवासवतः बोधिसत्त्वसम्भारमहायानधर्मनयसम्प्रवेशनतः स्वमन्त्रमन्त्राकर्षणरक्षणसाधनक्रियाकौशलतः महाकरुणा महामैत्री महोपेक्षा महामुदिता पारमिताभाववतः निःप्रपञ्चसत्त्वधातुधर्मधातुतथतासमवसरणतः द्वयाकारसर्वज्ञज्ञानपरिगवेषणतः सर्वसत्त्वापरित्यागः हीनयानास्पृहणतश्च | इमे सप्त धर्मा विद्याविद्यामन्त्रसिद्धिं पारिपूरतां गच्छन्ति | कतमे अदृष्टदृष्टादृष्टफलश्रद्धा कौतुकजिज्ञासत अपिचिकित्सा अष्टधर्मविद्यामन्त्रचर्यार्थसिद्धिं समवसरणतां गच्छन्ति | बोधिसत्त्वप्रसादसफलशुद्धिविकुर्वणतः अविपरीतमन्त्रग्रहणगुरुगौरवतः बुद्धबोधिसत्त्वमन्ततन्त्र आचार्योपदेशग्रहनं अविवंवादनसर्वस्वपरित्यागतः सिद्धक्षेत्रस्थानास्थानस्वप्नदर्शन*******(?) ******(?)नगतः विगतमात्सर्यमन्त्रणखिलस्त्यानमिद्धवीर्यारम्भ******* (?) *******(?)विसत्त्वात्माननिर्याततन्त्रः संक्षेपतः अतृप्तकुशलमूलमहास***** (?) सर्वविघ्नान् प्रहर्तुकामः २४, प्. २४) बोधिमण्डक्रमणमहाभोगप्रतिकांक्षणमद्देशाख्ययात्मभावतः महेशाख्यपुद्गलसमवधानातिरहितकल्याणमित्रमञ्जुश्रीकुषा भूतबोधिसत्त्वसमवधानतश्च | इमे अष्ट धर्मा मन्त्रचर्यार्थसिद्धिं समवशरणतां च गच्छन्ति | संक्षेपतः मार्षा अविरहितबोधिचित्तस्य रत्नत्रयाविमुक्तस्य परमदुःशीलस्यापि अखिन्नमानमानसः सतताभियुक्तस्य मदीयमन्त्रपटलविसर अनन्ताद्भुतबोधिसत्त्वचर्यानिष्यन्दितमान्सोद्गतं सिध्यतेति | नान्यथा च गन्तव्यम् | अविकल्पमानसो भूत्वा जिज्ञासनहेतोरपि साधनीयमिति || अथ सा सर्वावती पर्षत् सबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाधिष्ठिता एवं वाचमुदीरयन्तः साधु साधु भो जिनपुत्र ! विचित्र ***(?)चर्यार्थक्रियाधर्मनयप्रवेशानुवर्तिनी धर्मदेशनासुदेशिता सर्वसत्त्वा******(?)र्थाय अहो कुमारभूत ! मञ्जुश्रीः ! विचित्रदह्र्मदेशनानुवर्तिनी मन्त्रचर्यानुकूला सुभाषिता | यो हि कश्चित् महाराज्ञः इमं सन्निपातपरिवर्तं वाचयिष्यति धारयिष्यति मनसि करिष्यसि सङ्ग्रामे वाग्रतः हस्तिमारोप्य स्थापयिष्यति विविधैर्वा पुष्पधूपगन्धविलेपनैः पूजयिष्यति प्रत्यर्थिकानां प्रत्यमित्राणां वशमानयिष्यामः | परबलसेनाभङ्गं करिष्यामः | पुस्तकलिखितं वा कृत्वा स्वगृहे स्थापयिष्यति तस्य कुलपुत्रस्य वा कुलदुहितुर्वा महाराज्ञस्य वा महाराज्ञीयं वा भिक्षुर्वा भिक्षण्या वा उपासिकस्य वा उपासिकाया वा महारक्षां महाभोगतां दीर्घायुष्मतां आयुरारोग्यतां सततभोगाभिवर्धनतां करिष्यामीति || एवमुक्तस्तु सा सर्वावती पर्षत् तूष्णीमभूत् || महायानमन्त्रचर्यानिर्देश्यमहाकल्पात् मञ्जुश्रीकुमारभूतबोधिसत्त्वविकुर्वणपटलविसरात् मूलकल्पात् प्रथमः सन्निपातपरिवर्तः || २५, प्. २५) अथ द्वितीयः परिवर्तः | अथ खलु मञ्जुश्रीः कुमारभूतः सर्वावन्तं पर्षन्मण्डलमवलोक्य सर्वसत्त्वमयानुप्रवेशावलोकिनीं नाम समाधिं समापद्यते | स्म | समनन्तरसमापन्नस्य च मञ्जुश्रियः कुमारभूतस्य नाभिमण्डलप्रदेशाद् रश्मिर्निश्चरन्ति स्म | अनेकरश्मिकोटीनियुतशतसहस्रपरिवारिता समन्तात् सर्वसत्वधातुमवभास्य पुनरेव तं शुद्धावासभवनं अवभास्य स्थिताभूत् || अथ खलु वज्रपाणिर्बोधिसत्वो महासत्वः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | भाष भाष त्वं भो जिनपुत्र ! सर्वसत्वसमयानुप्रवेशनं नाम समनुप्रविश्य त्वदीयं मन्त्रगणं सर्वलौकिकलोकोत्तरं च मन्त्रसिद्धिं समनुप्राप्नुवन्ति | एवमुक्त आगुह्यकाधिपतिना यक्षेन्द्रेण मञ्जुश्रीः कुमारभूतः परमगुह्यमण्डलतन्त्रं भाषते स्म | सर्वविद्यसञ्चोदनं नाम स ** (?) विकुर्वणं विदन्तयति | दक्षिणं च पाणिमुद्यम्य अङ्गुल्याग्रेण पर्षन्मण्डलमाकारयति स्म | तस्मिन्नङ्गुल्यग्रे अनेकविद्याराजकोटीनयुतशतसहस्राणि निश्चेरुः | निश्चरित्वा च सर्वावन्तं शुद्धावासभवनं महतावभासेनावभास्य च स्थित्वा अभूवम् || अथ मञ्जुश्रीः कुमारभूतः यमान्तकस्य क्रोधराजस्य हृदयं सर्वकर्मिकं एकवीरं आवाहनविसर्जनशान्तिकपौष्टिक आभिचारुक अन्तर्धानाकाशगमनपातालप्रवेशपादप्रचारिकाकर्षणविद्वेषणवशीकरण- सर्वगन्धमाल्यविलेपनप्रदीपस्वमन्त्रतन्त्रेषुगदानः संक्षेपतः यथा यथा प्रपद्यते तथा तथा साध्यमानः अक्षरं नाम महावीर्यं सर्वार्थसाधनं महाक्रोधराजम् | कतमं च तत् | ओं | आः | ह्रूं | इदं तन्महाक्रोधस्य हृदयम् | सर्वकर्मिकं सर्वमण्डलेषु सर्वमन्त्रचर्यासु च निर्दिष्टं महासत्त्वेन ***(?)योषेण सर्वविघ्नविनाशनम् || ** (?) मञ्जुश्रीः कुमारभूतः दक्षिणं **** (?) म्य क्रोधस्य मूर्ध्नि स्थापयामि | एवमाह - नमस्ते ****** (?) समन्वाहरन्त बुद्धा भगवन्तः | २६, प्. २६) ये के***(?) दशदिग्लोकधातुव्यवस्थिता मनन्तापर्यान्ताथ बोधिसत्त्वा ****** (?) समयमधितिष्ठन्न | ***(?)भुक्त्वा तं क्रोधराजानं भ्रामयित्वा क्षिपान स्म | समनन्तरनितिशे महाक्रोधराजे सर्वावन्तं लोकधातुं सत्त्वा क्षणमात्रेण ये दुष्टाशयाः सत्त्वा महर्द्धिकाः तां निगृह्यानयति रूप | तं महापर्षन्मण्डलं शुद्धावासभवनं प्रवेशयति स्म | व्यवस्थायाञ्च स्थापयित्वा समन्तज्वालामालाकुलो भूत्वा दुष्टसत्त्वेषु च मूर्ध्नि तिष्ठते स्म || अथ मञ्जुश्रीः कुमारभूतः पुनरपि तं पर्षन्मण्डलमवलोक्य शृण्वन्तु भवन्तः सर्वसत्त्वाः यो ह्येनं मदीयं समयमतिक्रमेत् तस्यायं क्रोधराजा निग्रहमापादयिष्यति | यत् कारणमनतिक्रमणीया बुद्धानां भगवतां समयरहस्यमन्त्रार्थवचनपथाः बोधिसत्त्वानां च महर्द्धिकानां समासनिर्देशतः कथयिष्यामि | तं शृणुत साधु च सुष्टु च मनसि कुरुत भाषिष्येऽहम् | नमह् समन्तबुद्धानाम् | ओंर र स्मर अप्रतिहतशासनकुमाररूपधारिण हूं हूं फट् फट् स्वाहा | अयं सप्नार्याः ! मदीयमूलमन्त्रः | आर्यमञ्जुश्रियं नाम मुद्रा पञ्चशिखा महामुद्रेति विख्याता तं प्रयोजये अस्मिन् मूलमन्त्रे सर्वकर्मिकं भवति हृदयम् | बुद्धो सर्वकर्मकरं शिवम् | ओं धान्यद नमः | मुद्रा चात्र भवति त्रिशिखेति विख्याता सर्वभोगाभिवर्द्धनी | उपहृदयं चात्र भवति | वाह्ये हूं | मुद्रा चात्र भवति त्रिशिखेति विख्याता सर्वसत्त्वाकर्षणी | परमहृदयं चात्र भवति | मुं | मुद्रा भवति चात्र मयूरासनेति विख्याता सर्वसत्त्ववशङ्करी | सर्वबुद्धानां हृदयम् | अपरमपि महावीरं नाम अष्टाक्षरं परमश्रेयसं महापवित्रं त्रिभववर्त्मीयच्छेदं सर्वदुर्गविनिवारणं सर्वशान्तिकरं सर्वकर्मकरं क्षेत्रं निर्वाणप्रापणं बुद्धमिव संमुखदर्शनोपस्थितम् | स्वयमेव मञ्जुश्रीरवं बोधिसत्त्वः सर्वसत्त्वानाम***** (?) *********** (?) सर्वशापारि यत्र स्यरित************ (?) | कः पुनर्वादो भवेत् | कत***(?) ****************** (?) | एष सः मा** (?) एवमेवाहं अष्टाक्षरं ******************* (?) शिव प्रत्ययस्*****(?) | सर्वकार्येषु २७, प्. २७) संक्षेपतो प*** (?) * * * * * * * (?) | न्तनिष्ठादक्षमिति | मुद्रा वास भवति महावीरेति विख्याता सर्वाशापारिपूरकी | आह्वाननमन्त्रा चात्र भवति | ओं हे हे कुमाररूपिस्वरूपिणे सर्ववालभाषितप्रबोधने आयाहि भगवं आयाहि | कुमारक्रीडोत्पलधारिणे मण्डलमध्ये तिष्थ तिष्ठ | समयमनुस्मर | अप्रतिहतशासन हूं | मा विलम्ब | रु रु फट् स्वाहा | एष भगवं मञ्जुश्रियः आह्वाननमन्त्रा | सर्वसत्त्वानां सर्वबोधिसत्त्वानां सर्वप्रत्येकबुद्धार्यश्रावकदेवनागयक्षगन्धर्वगरुडकिन्नरमहारोग- पिशाचराक्षससर्वभूतानां चेति सप्ताभिमन्त्रितं चन्दनोदकं कृत्वा चतुर्दिशमित्यूर्ध्वमधस्तिर्यक्सर्वतः क्षिपेत् | सर्वबुद्धबोधिसत्वाः मञ्जुश्रियः स्वयं तस्य परिवारः सर्वलौकिकलोकोत्तराश्च मन्त्राः सर्वे च भूतगणाः सर्वसत्त्वाश्च आगता भवेयुः | नमः सर्वबुद्धानामप्रतिहतशासनानाम् | ओं धु धुर धुर धूपवासिनि धूपार्चिषि हूं तिष्ठ समयमनुस्मर स्वाहा | धूपमन्त्रः | चन्दनं कर्पूरं कुङ्कुमं चैकीकृत्य धूपं दापयेत्ततः | आगतानां तथागतानां सर्वबोधिसत्त्वानां च धूपाप्यायितमनसः आकृष्टा भवन्ति | भवति चात्र मुद्रा यस्य मालेति विख्याता सर्वसत्त्वाकर्षणी शिवा | आह्वाननमन्त्रायाश्च अयमेव मुद्रा पद्ममाला शुभा | आगतानां च सर्वबुद्धबोधिसत्त्वानां सर्वसत्त्वानां चागतानां अर्घ्यो देयः | कर्पूरचन्दनकुङ्कुमैरुदकमालोड्य जातीकुसुमनवमालिकवार्षिकपुन्नागनागवकुलपिण्डितगराभ्यां एतेषामन्यतमेन पुषेण यथार्त्तुकेन वा सुगन्धपुष्पेण मिश्रीकृत्य अनेन मन्त्रेण अर्घ्यो देयः | नमः सर्वबुद्धानामप्रविहनशासनानां तद्यथा - हे हे **(?)कारुणिक ! विश्वरूपधररिणि ! ** (?) प्रतीच्छ प्रती**(?)पय समयानुस्मर तिष्ठ तिष्ठ मण्डल******(?) **(?)विश सर्व*********(?) *(?)ह्ण हूं | अम्********* (?) | मुद्रा चा******(?)ति विख्यात सर्वबुद्धानुवर्तिनी | *********(?)मन्त्रा चात्र भ*******(?) सर्व********(?) नमः समन्तग*********(?)श्रियाय तथागताय | *********** (?) गन्धाढ्ये ग*************(?)च्छेयं गन्धं ************ (?)हा | भवति २८, प्. २८) चात्र मुद्रा पल्लवा नाम सर्वामापारिपूरिका | पुष्पमन्त्रा चात्र भवति | नमः सर्वबुद्धानामप्रतिहतशासनानाम् | नमः सङ्कुसुमितराजस्य तथागतस्य | तद्यथा - कुसुमे कुसुमे कुसुमाढ्ये कुसुमपुरवासिनि कुसुमावति स्वाहा | तेनैव धूपमन्त्रेण पूर्वोक्तेनैव धूपेन धूपयेत् | सर्वबुद्धां नमस्कृत्य अचिन्त्याद्भुतरूपिणाम् | बलिमन्त्रं प्रवक्ष्यामि सम्यक् सम्बुद्धभाषिताम् || नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानां तद्यथा - हे हे भगवं ! महासत्त्व ! बुद्धावलोकित ! मा विलम्ब | इदं बलिं गृह्णापय गृह्ण हूं हूं सर्वविश्व र र ट ट फट् स्वाहा | निवेद्यं चानेन दापयेत् | बलिं च सर्वभौतिकम् | भवति चात्र मुद्रा शक्तिः सर्वदुष्टनिवारिणी | नमः सर्वबुद्धानामप्रतिहतशासनानां सर्वतमोऽन्धकारविध्वंसिनां नमः समन्तज्योतिगन्धावभासश्रियाय तथागताय | तद्यथा - हे हे भगवं ! ज्योतिरश्मिशतसहस्रप्रतिमण्डितशरीर ! विकुर्व विकुर्व महाबोधिसत्त्वसमन्तज्वालोद्योतितमूर्ति खुर्द खुर्द अवलोकय अवलोकय सर्वसत्त्वानां स्वाहा || प्रदीपमन्त्रा | प्रदीपं चानेन दापयेत् | मुद्रा विकासिनी नाम सर्वसत्त्वावलोकिनी | नमः समन्तबुद्धानामप्रतिहतशासनानाम् | तद्यथा - ज्वल ज्वल ज्वालय ज्वालय | हुं | विवोधक हरिकृष्णपिङ्गल स्वाहा | अग्निकारिका मन्त्रा | भवति चात्र मुद्रा सम्पुटनाम लोकविश्रुता | सर्वसत्त्वप्रभोद्योतनी भाषिता मुनिवरैः पूर्वं बोधिसत्त्वस्य धीमतः || अथ खलु मञ्जुश्रीः कुमारभूतः वज्रपाणिं बोधिसत्त्वमामन्त्रयते स्म | इमानि गुह्यकाधिपते मन्त्रपदानि सरहस्यानि परमगुह्यकानि त्वदीयं कुलविख्यातः सुतं घोरं सदारुणं | स एव सर्वमन्त्राणां साध्यमानानां **(?)क्षणैः || पूर्धूटक इयं ख्यात * * * (?) जकुलयोरपि | **(?) निर्ना**(?)र्धाय विद्येयं सम्प्रवक्ष्यते || २९, प्. २९) नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम् | उं कर कर कुरु कुरु नम कार्यम् | भञ्ज भञ्ज सर्वविघ्नां | दह दह सर्ववज्रविनायकम् | मूर्धटकजीवितान्तकर महाविकृतरूपिणे पच पच सर्वदुष्टां | महागणपतिजीवितान्तकर बन्ध बन्ध सर्वग्रहां | षण्मुख ! षड्भुज ! षट्चरण ! रुद्रमानय | विष्णुमानय | ब्रह्माद्यां देवानानय | मा विलम्ब मा विलम्ब | झल् झल् मण्डलमध्ये प्रवेशय | समयमनुस्मर | हूं हूं हूं हूं हूं हूं फट् फट् स्वाहा | एष सः परमगुह्यकाधिपते परमगुह्यः महावीर्यः मञ्जुश्रीः षण्मुखो नाम महाक्रोधराजा सर्वविघ्नविनाशकः | अनेन पठितमात्रेण दशभूमिप्रतिष्ठापितबोधिसत्त्वा विद्रवन्ते | किं पुनर्दुष्टविघ्नाः | अनेन पठितमात्रेण महारक्षा कृता भवति | मुद्रा चात्र भवति महाशूलेति विख्याता सर्वविघ्नविनाशिका | अस्यैव क्रोधराजस्य हृदयम् | ओं हींः हीः विकृतानन हुम् | सर्वशत्रुं नाशय स्तम्भय फट् फट् स्वाहा | अनेन मन्त्रेण सर्वशत्रूं महाशूलरोगेण चतुर्थकेन वा गृह्णापयति | शततजपेन वा यावद् रोचते मैत्रतां वा न प्रतिपद्यते | अथ करुणाचित्तं लभते | जापान्ते मुक्तिर्न स्यात् | मृयत इति रत्नत्रयापकरिणां कर्तव्यं नाशेषं सौम्यचित्तानां मुद्रा महाशूलैव प्रयोजनीया | उपहृदयं चात्र भवति | ओं ह्रींः कालरूप हुं खं स्वाहा | मुद्रा महाशूलयैव प्रयोजनीया | सर्वदुष्टां यमिच्छति तं कारयति | परमहृदयम् | सर्वबुद्धाधिष्ठितं एकाक्षरं नाम | हूं | एष सर्वकर्मकरः | मुद्रा महाशूलयैव प्रयोजनीया | सर्वानर्थनिवारणम् | सर्वभूतवशङ्करः संक्षेपतः | एष क्रोधराज सर्वकर्मेषु प्रयोक्तव्यः मण्डलमध्ये जापः सिद्धिकाले च विशिष्यते | विसर्जनमन्त्रा भवन्ति | नमः सर्वबुद्धानामप्रतिहतशासनानाम् | तद्यथा - जयं जय सुजय महाकारुणिक विश्वरूपिणे गच्छ गच्छ स्वभवनं सर्वबुद्धांश्च विसर्जय | सपरिवारां स्वभवनं चानुप्रवेशय | समयमनुस्मर | सर्वार्धाश्च मे सिद्ध्यन्तु मन्त्रपदाः मनोरथं **** (?) परिपूरय स्वहा || अर्थ विवर्जनमन्त्रः सर्वकर्मेषु प्रसाकव्यः | मुद्रा पदपीठेति विख्याता | आसनं वानेन दापयेत् | मनसा सप्तज सेन विसर्जनं सर्वेभ्यः लौकिकलोकोत्तरेष्यो मण्डलेभ्यः मन्त्रेभ्यश्चैव मन्त्रसिद्धिः | ***(?)जपकालनियमेषु च ********(?)येति || ३०, प्. ३०) **** (?) मञ्जुश्रीः कुमारभूतः ***(?)पि तं शुद्धानासभवनमवलोक्य तं महापर्वन्मण्डलं स्वकं च विद्यागणमन्त्रपटलविसरं भाषते स्म | नमः सर्वबुद्धानाम् अप्रतिहतशासनानाम् | ओं रिटि स्वाहा || मञ्जुश्रियस्येदम् अनुचरी केशिनी नाम विद्या सर्वकर्मिका | महामुद्राया पञ्चशिखाया योज्यसर्वविषकर्मसु | नमः समन्तबुद्धानामप्रतिहतशासनानाम् | ओं निटि | उपकेशिनी नाम विद्येयं सर्वकर्मिका मुद्रया विकासिन्या च योजयेत् | सर्वग्रहकर्मेषु | नमः समन्तबुद्धानामप्रतिहतगतीनाम् | ओं निः | विद्येयं वलिनी नाम सवर्कमकरा शुभा | मुद्रया भद्रपीठया संयुक्ता यक्षिणी आनयेद् ध्रुवम् || नमः समन्तबुद्धानां अचिन्त्याद्भुतरूपिणाम् | मुद्रया शक्तिना युक्ता सर्वडाकिनीघातिनी || ओं ज्ञैः स्वाहा | विद्या कापतलिनी नाम मञ्जुघोषेण भाषिता | समन्तासर्वबुद्धैश्च प्रशस्ता दिव्यरूपिणी || नमः समन्तबुद्धानाम् अप्रतिहतगतिप्रचारिणाम् | तद्यथा - ओं वरदे स्वाहा | मुद्रा त्रिशिखेनैव प्रयोजयेत् | श्रेयसात्मकः | बहुरूपधरा देवी क्षिप्रभोगप्रसाधिका || नमः समन्तबुद्धानां अचिन्त्याद्भुतरूपिणाम् | ओं भूरि स्वाहा | मुद्रया शूलसंदुका सर्वज्वरावनाशिनी | नमः समन्तबुद्धानामचिन्त्यद्भूतरूपिणाम् || ओं तु रे स्वाहा | विद्या ता***(?) नाम *******(?) कर्मसु | मुद्रया श**************(?)घातिनी || नमः सम******************(?)म् | ३१, प्. ३१) तद्यथा ओं विलोकिनि स्वहा | विद्या लोकवती नाम * * * * * (?)शङ्करी | योजिता वज्रमुद्रेण सर्वसौख्यप्रदायिका || नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् | तद्यथा - ओं विश्वे विश्वसम्भवे विश्वरूपिणि कह कह आविशाविश | समयमनुस्मर | रुरु तिष्ठ स्वाहा | एषा विद्या महावीर्या दर्शिता लोकनायकैः | दंष्ट्रमुद्रासमेतास्त्रसर्वसत्त्वा *(?) वेशिनी || शुभा वरदा सर्वभूतानां विश्वेति सम्प्रकाशिता | नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् || तद्यथा - ओं श्वेतश्री वपुः स्वाहा | मयूरासनेन मुद्रेण विन्यस्ता सर्वकर्मिका | महाश्वेतेति विख्याता अचिन्त्याद्भुतरूपिणी || सौभाग्यकरणं लोके नरनारीवशङ्करी | नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् || तद्यथा - ओं | खिखिरिखिरि भङ्गुरि सर्वशत्रुं स्तम्भय जम्भय मोहय वशमानय स्वाहा | एषा विद्या महाविद्या योगिनीति प्रकथ्यते | योजिता वक्त्रमुद्रेण दुष्टसत्त्वप्रसादिनी || नमः समन्तबुद्धानामप्रतिहतगतिप्रचारिणाम् | तद्यथा - ओं श्रीः | एषा विद्या महालक्ष्मी लोकनाथैस्तु देशिता | मुद्रा सम्पुटया युक्ता महाराज्यप्रदायिका || नमः समन्तबुद्धा * * * (?) भयप्रदायिनाम् | ओं अजिते | * * * (?) * * * * * (?)ण ! एहि आगच्छ म || ३२, प्. ३२) अजितेति विख्याता कुमारी अमृतोद्भवा | मुद्रया पूर्णया युक्ता सर्वशत्रु***(?)णी || नमः समन्तबुद्धानाय* * * * * * (?)पिणाम् | तद्यथा - ओं जये स्वाहा | विजये स्वाहा | अजिते स्वाहा | अपराजिते स्वाहा | चतुर्भगिन्य इति विख्याता बोधिसत्त्वानुचारिका | पर्यटन्ति महीं कृत्स्नां सत्त्वानुग्रहकारिकाः || भ्राता स्तुम्बुरुविख्याता एतासामनुचारकः | नौयानसमारूढा अन्दुर्धेतुः निवासिनः || मुष्टिमुद्रेण विन्यस्ता सर्वाशापारिपूरिका | नमः समन्तबुद्धानां लोकाग्राधिपतीनाम् || तद्यथा - ओं | कुमार ! महाकुमार ! क्रीड क्रीड षण्मुखबोधिसत्त्वानुज्ञात ! मयूरासनसङ्घोद्यतपाणि रक्ताङ्ग ! रक्तगन्धानुलेपनप्रिय ! ख ख खाहि खाहि खाहि | हुं नृत्य नृत्य | रक्तापुष्पार्चितमूर्ति समयमनुस्मर | भ्रम भ्रम भ्रामय भ्रामय भ्रामय | लहु लहु माविलम्ब सर्वकार्याणि मे कुरु कुरु चित्ररूपधारिणे तिष्ठ तिष्ठ हुं हुं सर्वबुद्धानुज्ञात स्वाहा | भाषिता बोधिसत्त्वेन मञ्जुघोषेण नायिका | षड्विकारा मही कृत्स्ना प्रचचाल समन्ततः || हितार्थं सर्वसत्त्वानां दुष्टसत्त्वनिवारणम् | महेश्वरस्य सुतो घोरो वैनेयार्थमिहागतः || स्कन्दमङ्गारकस्यैव * * * * (?) सुचिहितः | मञ्जुभाषिणी ततो माषे करुणाविष्टेन चेतसा || ****(?)या बोधिसत्त्वो*****(?) *****रेणः | **** (?) यवः प्रोक्तो विक्षेण **** (?) || आवर्तया*****(?) किं पुनर्मानुषं फलम् | ३३, प्. ३३) कौमारभित्तमखिलं कल्पनस्य समासतः | कार्त्तिकेयमञ्जुश्रीः मन्त्रोऽयं समुदाहृतः || सत्त्वानुग्रहकाम्यर्थं बोधिसत्त्व इहागतः | त्र्यक्षरं नाम हृदयं मन्त्रस्यास्य उदाहृतम् || सर्वसत्त्वहितार्थाय भोगाकर्षणतत्परः | मुद्रया शक्तियष्ट्या तु विन्यस्तः सर्वकर्मिकः || ओं हूं जः | एष मन्त्रः समासेन कुर्यान्मानुषकं फलम् | नमः समन्तबुद्धानां समन्तोद्योतितमूर्तिनाम् || ओं विकृतग्रह हुं फट् स्वाहा || उपहृदयं चास्य संयुक्तो मुद्राशक्तिना तथा | आवर्तयति भूतानि सग्रहां मातरां तथा || सर्वमुद्रितमुद्रेषु विन्यस्ता सफला भवेत् | वित्रासयति भूतानां दुष्टाविष्टविमोचनी || एष मञ्जुश्रियस्य कुमारभूतस्य कार्त्तिकेयमञ्जुश्रीर्नाम कुमारः अनुचरः सर्वकर्मिकः जपमात्रेणैव सर्वकर्माणि करोति सर्वभूतानि त्रासयति आकर्षयति वशमानयति शोषयति घातयति यथेप्सितं वा विद्याधरस्य तत् सर्वं सम्पादयति | नमः समन्तबुद्धानामप्रतिहतशासनानाम् | तद्यथा - ओं ब्रह्म सुब्रह्म ब्रह्मवर्चसे शान्तिं कुरु स्वाहा || एष मन्त्रो महाब्रह्मा बोधिसत्त्वेन भाषितः | शान्तिं प्रजग्मुर्भूतानिं तत्क्षणादेव शीतला || मुद्रा पञ्चशिखा*(?)क्ता क्षिप्रं स्वस्त्ययनं भवेत् | आभिचारुकेषु सर्वेषु अथवो चेदपठ्यते || ******(?) क्तो कल्पमस्य समासतः | *********(?)नामप्रतिहतशा******* (?) || तद्यथा ओं ******** (?) ! चक्रपाणि ! ************** (?)स्मर | बोधिसत्त्वो ज्ञापयति स्वाहा || ३४, प्. ३४) आज्ञप्तो मञ्जुघोषेण क्षिप्रमर्थकरः शिवः | विद्रापयति भूतानि विष्णुरूपेण देहिनाम् || मुद्रा त्रिशिखे युक्तः क्षिप्रमर्थकरः स्थिरः | य एव वैष्णवे तन्त्रे कथिताः कल्पविस्तराः || उपायवैनेयसत्त्वानां मञ्जुघोषेण भाषिताः | नमः समन्तबुद्धानामप्रतिहतशासनानाम् || ** (?) - ओं महामहेश्वर ! भूताधिपतिवृषध्वज ! प्रलम्बजटामकुटधारिणे **(?)भस्मधूसरितमूर्ति हुं फट् फट् | बोधिसत्त्वो ज्ञापयति स्वाहा || एष मन्त्रो मया प्रोक्तः सत्त्वानां हितकाम्यया | शूलमुद्रासमायुक्ताः सर्वभूतविनाशकः || यन्मया कथितं पूर्वं कल्पमस्य पुरातनम् | सैवमिति वक्ष्यन्ते सत्त्वा भूतलवासिनः || विविधा गुणविस्ताराः शैवतन्त्रे मयोदिताः | नमः समानबुद्धानामप्रतिहतशासनानाम् || तद्यथा - ओं **(?)न महाशकुन पद्मविततपक्ष सर्वपन्नगनाशक ख ख खाहि खाहि समयमनुस्मर | हुं | तिष्ठ | बोधिसत्त्वो ज्ञापयति स्वाहा || एष मन्त्रो महावीर्यः वैनतेयेति विश्रुतः | दुर्दान्तदमको श्रेष्ठः भोगिनां विषनाशनम् || महामुद्रया समायुक्तः हन्त्यनर्थ सुदारुणाम् | विचिकित्सयति न सन्देहो विषं स्थावरजङ्गमम् || सत्त्वानुपायवैनेया बोधिसत्त्वसमानया | पिचेरुर्गरुडरूपेण पक्षिराट् स महाद्युतिः || सावन्तः गारुडे तन्त्रे कथिताः कल्पविस्तराः | ****** (?) सर्वे सत्त्**(?) हितकारणात् || *** ***(?)त्त्वस्तु वैनते *(?)मिहागतः | भोगिनां **** (?) *** (?) पक्षिरूपिणः || ३५, प्. ३५) यावन्तो लौकिका मन्त्राः तेऽस्मि कल्प उदाहृताः | वैनेयार्थं हि सत्त्वानां विचरामि तथा तथा || ये तु ताथागतीमन्त्राः कुलिशाङ्कुकुलयोरपि | तेऽस्मिन् कल्पविस्तरे भाषिता पूर्वमेव तु || यथा हि धात्री बहुधा बालानां लालति यत्नतः | तथा बालिशबुद्धीनां मन्त्ररूपी चराम्यहम् || दशबलै कथितं पूर्वे अधुना च मयोदितम् | सकलं मन्त्रतन्त्रार्थं कुमारोऽप्याह महाद्युतिः || जिनवरैश्च ये गीता गीता दशबलात्मजैः | मञ्जुस्वरेण ते गीता अचिन्त्याद्भुतरूपिणाम् || अथ खलु मञ्जुश्रीः कुमारभूतः सर्वावन्तं शुद्धावासभवनं तं च महापर्षन्मण्डलमवलोक्य सर्वसमयसञ्चोदनीं नाम समाधिं समापद्यते स्म | यत्र समाधेः प्रतिष्ठितस्य अशेषसत्त्वनिर्हारचर्यामनसः सर्वसत्त्वा प्रतिष्ठिताः भवेयुः समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य सर्वावन्तं शुद्धावासभवनं विचित्रमणिरत्नव्यूहालङ्कारमण्डलं अचिन्त्याद्भुतबोधिसत्त्वविकुर्वणं सर्वप्रत्येकबुद्धार्यश्रावकचर्याप्रविष्टैरपि वाधिसत्त्वैः दशभूमिप्रतिष्ठितेश्वरैरपि न शक्यते मण्डलं लिखितुं वा कः पुनर्वादो पृथग्जनभूतैः सत्त्वैः त दिव्यमार्यमण्डलसमयनिर्हारवस्थानावस्थितं मञ्जुश्रियं कुमारभूतं दृष्ट्वा सर्वे बुद्धा भगवन्तः सर्वप्रत्येकबुद्धाः सर्वे आर्यश्रावकाः सर्वे बोधिसत्त्वाः दशभूमिप्रतिष्ठिताः यौवराज्याभिषेकसमनुप्राप्ता आर्याः प्रतिपन्नाश्च सर्वे सत्त्वा साश्रवा अनाश्रवाश्च मञ्जुश्रियः कुमारभूतस्याधिष्ठानेनाचिन्त्यं बुद्धबोधिसत्वाचार्यानिष्यन्दितं समाधिविशेषसानसोद्भवं मण्डलं प्रविष्टमात्मानं सञ्जानन्ते स्म | न शक्यते तत् पृथग्जनैः सत्त्वैः यमनसाष्याटम्बयितुम् क**(?)नर्वादो लिखितुं लेखयितुं वा || अथ मञ्जुश्रीः कुमारभूत **(?) महापर्षन्मण्डलसमयानुप्रविष्टः सत्त्वानामन्त्रयते | शृण्वन्तु मा**(?) ! अनतिक्रमणीयमेतत् तथागतानां ३६, प्. ३६) बोधिसत्वानां च समयः कः पुनर्वादोऽन्येषां सत्वानाम् आर्यानार्याणाम् | अथ मञ्जुश्रीः कुमारभूतः वज्रपाणिं गुह्यकाधिपतिमामन्त्रयते स्म | निर्दिष्टं मो जिनपुत्रातिक्रान्तमानुष्यकं समयं मानसोद्भवं मानुष्यकं तु वक्ष्ये परिनिर्वृतानां च तथागतानाम् यत्र सत्वा समनुप्रविश्य सर्वमहालौकिकलोकोत्तरा सिद्धिं गच्छेयुः || अथ खलु वज्रपाणिर्गुह्याधिपतिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | भाष भाष त्वं भो जिनपुत्र ! यस्येदानीं कालं मन्यसे | परिनिर्वृते लोकनाथे शाक्यसिंहे अनुतरे | बुद्धत्व इव सत्वानां त्वदीयं मण्डलं भुवि || दृष्टमात्रो हि लोकेऽस्मिन् मन्त्रा सिद्धिं प्रजग्मिरे | अज्ञानविधिहीनं तु शयानविकृतेन वा || मन्त्रा सिद्धिं न गच्छेयुः ब्रह्मस्यापि महात्मनः | अनभियुक्ता तन्त्रेऽस्मिन् अदृष्टसमयोदिते || मन्त्रा सिद्धिं न गच्छन्ति यत्नेनाप्यनेकदा | समयप्रयोगहीनं शक्रस्यापि प्रयत्नतः || मन्त्राः सिद्धिं न गच्छन्ति किं पुनर्भुवि मानुषे | समयशास्त्रतत्त्वज्ञे चर्याकर्मसु साधने | पठितमात्रा हि सिध्यन्ते मात्रा आर्या च लौकिकाः || मण्डलं मञ्जुघोषस्य प्रविष्टः सर्वकर्मकृत् | मन्त्रसिद्धिर्ध्रुवं तस्य कुमारस्यैव शासने || अथ खलु वज्रपाणिर्गुह्यधिपतिः तं महासत्व मध्ये भाषते स्म | संक्षेपतः भो भो महाबोधिसत्व ! सत्वानायर्थाय मण्डलविधानं भापस्वेति || एवमुक्त*(?) गुह्यकाधिपतिना मञ्जुश्रीः कुमारभूतः सर्वसत्वासामर्थाय मण्*********(?) भाषते स्म | आदौ तावत् पतिहारकपक्षे चैत्रवैशाखे **********(?)पक्षे प्रशस्तदिवसे शुद्धग्रहनिरीक्षिते शुभनक्षत्रसंयुक्ते **************(?) वा अन्ये वा काले प्रावृण्मसविवर्जिते पूर्वाहे******************** (?) यत्र वा *****(?)न्मण्डलानार्थः ३७, प्. ३७) श्व समुद्रगामिनी वा नदीमाश्रित्य समुद्रतटसमीपं वा महानगरस्य पूर्वोत्तरे दिग्भागे नातिदूरे नात्यासन्ने मण्डलाचार्येण सत्त्वाना सप्ताहं पक्षमात्रं वा एकान्ते उडयं कृत्त्वा प्रतिवस्तव्यम् | यः तस्मिन् स्थाने सुचौक्षं पृथिवीप्रदेशं समाताच्चतुरश्रं षोडशहस्तं द्वादशहस्तं वा अपगतपाषाणकटण्णभस्माङ्गारतुषकपालास्थिवर्जितं सुचौक्षं सुपसुपरिकर्मितं पृथिवीप्रदेशं निध्रोत्मकेनोदकेन पञ्चगव्यसन्विश्रितेन चन्दनकर्पूरकुङ्कुमोदकेन वा यमान्तकेन क्रोधराजेनाष्टसहस्राभिमन्त्रितेन पञ्चशिखमहामुद्रासंयुक्तेन तं पृथिवीप्रदेशं अभ्युक्षयेच्चतुर्दिक्षु इत्यूर्ध्वमधस्तिर्यग् विदिक्षु च सर्वतः क्षिपेत् | ततो तं पृथिवीप्रदेशं समन्ताच्चतुरश्रं षोडशहस्तं द्वादशहस्तं वा अष्टहस्तं वा तत्र षोडशहस्तं ज्येष्ठं मध्यं द्वादशहस्तं कन्यसं अष्टहस्तम् | एतत् त्रिविधं प्रोक्तं मण्डलं सर्वदर्शिभिः राज्यकामाय ततो ज्येष्ठं मध्यमं सम्भोगवर्धनं कन्यसं समयमात्रं तु सर्वकर्मकरं शिवम् | ततोऽन्यतमं मनसेप्सितं मण्डलमालिखेत् | तत्र तं पृथिवीप्रदेशं द्विहस्तमात्रं खनेत् | तत्र पाषाणाङ्गारभस्मास्थिकेशादयो विविधा वा प्राणकजातयः यदि दृश्यन्ते अन्यं पृथिवीप्रदेशं खनेत् | निरुपहत्यं निरुपद्रवं भवेत् | न चेत् पर्वताग्रनदीपुलिनसमुद्रोत्सङ्गमहानदीपुलिनसिकतादिचयं महता प्रयत्नतः स प्रत्यवेक्षितं सुचौक्षं निःप्राणकं कृत्वा लिखेत् | तं पृथिवीप्रदेशं भूयो निःप्राणेनोदकेन पञ्चगव्यसन्मिश्रेण नदीकूलमृत्तिकया मेध्यया वल्मीकमृत्तिकया वा यत्र प्राणका न सन्ति तया मृत्तिकया पूरयितव्यम् | पूरयित्वा च स्वाकोटितं समतलं समन्तात् त्रिविधं मण्डलं यथेप्सितं काम्येत् | चतुर्दिक्षु चत्वारः खदिरकीलका निखनेत् | क्रोधराजेनैव सप्ताभिमन्त्रितं कृत्वा पञ्चरङ्गिकेण सूत्रेण सप्ताभिमन्त्रितेन क्रो***(?)येन कृत्वा समन्ता ****(?) चतुरश्राकारेण वेष्टयेत् | एवं मध्यमे स्थाने एवमभ्यन्तरे ********* (?) | मध्यस्थानस्थितेन मण्डलाचार्येण विद्या अष्ट*******(?) उच्चारयितव्या महामुद्रा पञ्चशिखां बध्वा मूलमन्त्रेण ससत्त्वारशा आत्मरक्षा च कार्या | जपतश्च निष्कसर्वहिमण्डलं प्रदक्षिणीकृत्य ******(?) कुशविण्डकोपविष्टः ३८, प्. ३८) सर्वबुद्धबोसत्वानां मनसि कुर्वाणः | समन्ताच्च तन्मण्डलं चतुरश्राकारेण वेष्टयेत् | वहिर्नाधः एकरात्रोषितां कृत्वा प्रवासयेत् || तत्र मण्डलाचार्येण कृतपुरश्चरणेन स्वतन्त्रमन्त्रकुशलेन उपायसत्त्वार्थमहायानाधिमुक्तेन एकरात्रोषितेन सुसखायसमेतेन विधिशास्त्रदृष्टेन कर्मणा पञ्चरङ्गिकेन चूर्णेन श्लक्ष्णोज्ज्वालेन सुपरिकर्मकृतेन षडक्षराभिमन्त्रिते हृदयेनाभिमन्त्यं तं चूर्णं मण्डलमध्ये स्थापयेत् | वहिश्चोच्छ्रितध्वजपताकतोरणे चतुष्पथालङ्कृतं कदलीस्तस्भरोपितफलभरितपिण्डीभिः प्रलम्बमानमाहतभेरीमृदङ्गशङ्खतन्त्रीनिर्घोषनिनादितं पृथिवीप्रदेशं कुर्यात् | प्रशस्तशब्दधर्मश्रवणचतुष्पर्षानुकूलमहायानसूत्रां चतुर्दिक्षु पुस्तकां वाचयन् || तद्यथा - भगवती प्रज्ञापारमिता दक्षिणां दिशि वाचयेत् | आर्यचन्द्रमदीपसमाधिः पश्चिमायां दिशि | आर्यगण्डव्यूह उत्तरायां दिशि | आर्यसुवर्णप्रभासोत्तमसूत्रं पूर्वायां दिशि | एवमधीतचतुःसूत्रान्तिकं पुद्गलां धर्मभाणकं पुस्तकाभावादद्ध्येषयेत् | धर्मश्रवणाय ततो मण्डलाचार्येणोत्थाय चन्दनकर्पूरकुङ्कुमव्यामिश्रकेण श्वेतसुगन्धपुष्पैः मूलमन्त्रं जपता सर्वतस्तं मण्डलमभिकिरेत् | अभिकीर्य च वहिर्निर्गच्छेत् | सप्ताहाद्धविष्याहारोषितां द्वौ त्रयो वा उत्पादितबोधिचित्तं | सप्ताहाद्धविष्याहारोषितां द्वौ त्रयो वा उत्पादितबोधिचित्तं उपोषध उपवासोचितां चित्रकरा निपुणतरां प्रवेशयेत् | मूलमन्त्रेणैव शिखाबन्धं कृत्वा ततः सुवर्णरूप्यविविधरत्नपञ्चविचित्रोज्ज्वलचारुसूक्ष्मचूर्णताम्व्रां प्रतिगृह्य महाभोगैः सत्त्वैः महाराजानैश्च धार्मिकैः लिखापनीयम् | बोधिपरायणीयं बोधिपरायणं नियतं || मण्डलं दर्शनादेव किं पुनर्मन्त्रसाधने | सत्वानामल्पपुण्यानां निर्वृते शाक्यपुङ्गवे || कुत**(?)विधा ******धिरेपा तु कल्प्यते | दरिद्रजनतां दृष्ट्वा *****(?)षो महाद्युतिः || उदीरयेत् कल्परा*****(?) तु समासतः | शालितण्डुलचूर्णैस्तु ***(?) पञ्चरङ्गोज्ज्वलैः || ३९, प्. ३९) शुक्लपीतरक्तकृष्णहरितवर्णाययेत् | पूर्वस्थापितकं चूर्णं मण्डलाचार्येण स्वयं गृह्य महामुद्रां पञ्चशिखां बद्ध्वा मूलमन्त्रं जपता तं चूर्णं मुद्रयेत् | अपरेण तु साधकाचार्येण मण्डलवहिर्दक्षिणपूर्वायां दिशि विधिदृष्टेन कर्मणा अग्निकुण्डं कारयेत् | द्विहस्तप्रमाणं हस्तमात्रनिम्नं समन्तात् पद्मपुष्कराकारं वहिः पद्मपुष्कराकारा पलाशकाष्ठसमिद्भिः अग्निं प्रज्वाल्य श्रीफलकाष्ठसमिधानां वितस्तिमात्रप्रमाणानां साद्रां दधिमधुघृताक्ता मूलमन्त्रं षडक्षरहृदयेन वा मुद्रामुष्टिं बध्वा आह्वयेत् | आहूय च पूर्वोक्तैनैव एकाक्षरमूलमन्त्रहृदयेन भूयो अष्टशतं जुहुयात् || ततो मण्डलाचार्येण बद्धोष्णीषकृतपरिकरः आत्मना चित्रकरांश्च निपुणतरानात्मना कारयेत् | ततो मण्डलाचार्येण बुद्धबोधिसत्त्वां मनसि कुर्वता पूर्वोक्तेनैव धूपमन्त्रेण धूपं दहता अञ्जलिं कृत्वा सर्वबुद्धबोधिसत्त्वां प्रणम्य मञ्जुश्रियं कुमारभूतं नमस्कृत्य चूर्णं गृहीत्वा आकारयेत् | रूपं चित्रकरैश्च पूरयितव्यम् | एतेन विधिना प्रथमत एव बुद्धं भगवन्तं शाक्यमुनिं सर्वाकारवरोपेतं रत्नसिंहासनोपविष्टं शुद्धावासवभनस्थं धर्मं देशयमानमालिखेत् | लिखितश्च मण्डलाचार्यस्यानुसाधकेन आत्मरक्षाविधानं मूलमन्त्रेण कृत्वा सर्वभूतिका वलिर्देया चतुर्दिक्षूर्ध्वमधः वहिर्मण्डलस्य क्षिपेत् || ततो स्नात्वा अग्निकुण्डसमीपं गत्वा शुचिवस्त्रप्रावृतेन शुचिना कृता रक्षाविधानेन घृताहुतीनां कुङ्कुममिश्राणामष्टसहस्रं जुहुयान्मूलमन्त्रेण | ततः कुशविण्डकोपविष्टेन जपं कुर्वतः तत्रैव स्थातव्यम् | श्वेतसर्षपाणामष्टाभिमन्त्रितं कृत्वा यमान्तकक्रोधराजेनाभिमन्त्र्य शरावसम्पुटे स्थापयेत् | अनेकाकारविकृतरूपघोरस्वरवातवर्षदुर्दिनयन्यतयान्यतमं वा विघ्नमागतं दृष्ट्वा हुतेन सर्षपाहुतयः सप्त होतव्याः | ततो विघ्नाः प्रणश्यन्ति | मनुष्यविघ्नैर्वा पञ्चाहुतयो होतव्या | स्तम्भिता ***(?) अशक्ति***(?) पुरुषा मृयन्ति वा | अमानुष्यैर्वा **(?)न्ते तत्क्षणा***(?) न सन्देहो***(?) कथञ्च***(?)क्रोऽपि म्रियते क्षि***(?) | किं पुन**(?)चेतसा मनु************ (?) विघ्ना यमान्त *(?)ध**(?) निर्नष्टा ***(?)त इतो तत इति || ४०, प्. ४०) ततो ***(?)धकेन तत्रैव कुशविण्डकोपविष्टेन दमान्तकक्रोधराजानं जपं कुर्वाण स्थातव्यम् | ततो मण्डला***(?) भगवतः शाक्यपुनेः प्रतिजाया दक्षिणे पार्श्वे प्रत्येकबुद्धा तथापनोपविष्टौ पर्यङ्केनोपविष्टौ कार्यौ तयोरधस्ताद् द्वौ महाश्रावकौ धर्मं शृण्वन्तः कार्यौ | तेषामपि दक्षिणतः भगवानार्थावलोकितेश्वरः सर्वालङ्कारविभूषितः शरत्काण्डगौरः पद्मासनोपविष्टः वामहस्तेन पद्मं गृहीत्वा दक्षिणहस्तेन वरदः | तस्यापि दक्षिणतः भगवती षण्डरवासिनी पद्महस्ता दक्षिणेन हस्तेन भगवन्तं शाक्यमुनिं वन्दमाना पद्मासनोपनिषण्णा जटामकुटधारिणी श्वेतपट्टवस्त्रनिवस्ता पट्टांशुकोत्तरासङ्गिनी कृष्णभस्मतृमुण्डीकृता | एवं तारा भ्रुकुटी स्वकस्वकासनेर्यायथे सुस्थिता कार्या | उपरिष्टाच्च भगवती तेषां प्रज्ञापारमिता तथागतलोचना उष्णीषराजा स्वकार्याः | एवं बोधिसत्त्वाः षोडश कार्याः | तद्यथा - समन्तभद्रः क्षितिगर्भः गगनयञ्जः सर्वनीवरणविष्कम्भी अपायजह मैत्रेयः चमरव्यग्रहस्तः बुद्धं भगवन्तं निरीक्षमाणः विमलगतिः विमलकेतुः सुधन चन्द्रप्रभ विमलकीर्ति सर्वव्याधिचिकित्सकः सर्वधर्मीश्वरराजः लोकगतिः महामतिः पतिधरश्चेति | एते षोडश महाबोधिसत्त्वाः प्रसन्नमूर्तयः सर्वालङ्कारभूषिता लेख्याः | प्रधानविद्याराजः विद्याराज्ञी अब्जकूले रूपकमुद्रा | स च यथास्मरतः आगमतश्च यथास्थानेषु वा शेषा लेख्याः | अन्ते च स्थाने चतुरश्राकारं स्थानं स्थापये पद्मपुष्पसंस्कृतम् | येन स्मरिता विद्या देवता तेऽस्मिन् स्थाने तिष्ठन्त्विति || एवं दक्षिणे पार्श्वे भगवतः शाक्यमुनेः द्वौ प्रत्येकबुद्धौ गन्धमादनः उपारिष्टश्चेति | एवं प्राङ्मुखं मण्डलं सर्वतः प्रवेशद्वारं कार्यम् | भगवतः शाक्यमुनेः पार्श्वे अपरौ द्वौ प्रत्येकबुद्धौ चन्दनसिद्धश्चेति **(?)ख्यौ | **(?)मधस्ताद् द्वौ *****(?)कौ महा********(?)कात्याय******(?)ख्यौ | ***(?) वामतः ***(?)वज्रपाणिकु*******(?)रामाभः ******************* (?) ******************************* (?) ४१, प्. ४१) यथाधेषचिह्नस्थानासनसर्वविद्याराज्ञाराज्ञीसपरिवारः रूपमुद्रादिषु यथास्मरणा लेख्याः | तेषामपि वामतः चतुरश्राकारमुभयवज्रमुद्रां लिखेत् | लिख्य*(?) ****(?) येऽत्र स्थाने न स्मरिता विद्यागणाः तेऽत्र स्थानेन स्मरिता विद्यागणाः तेऽत्र स्थाने तिष्टन्त्विति || तेषामुपरिष्टात् वेद्यारमिताः भगवती मामकी आलेख्याः सर्वालङ्कारविभूषिताश्च ताः प्रसन्नमूर्तयः || तेषामप्युपरिष्टा अष्टौ उष्णीषराजानः समन्तज्वालमालाकुलाः | मुद्रा च स्वकस्वकानि महाराजचक्रवर्तीरूपाणि आलेख्यानि | कनकवर्णसुप्रसन्नेन्द्रियाणि सर्वालङ्कारविभूषितानि | ईषत् तथागतः प्रतिमदृष्टिजातानि | तद्यथा - चक्रवर्ती उष्णीषः अभ्युद्गतोष्णीष सितातपत्र जयोष्णीष कमलोष्णीष तेजोराशि उन्नतोष्णीष इति || एते अतः उष्णीषराजानः प्रत्येकबुद्धानां वामतः आलेख्य द्वारे बुद्धो बोधिसत्त्वो कार्यप्रवेशतदक्षिणतो लोकातिक्रान्तगामी नाम जटामकुटधारी सौम्यमूर्तिः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वामहस्तेन कमण्डलुं द्वाराभिमुखः ईषद्भ्रुकुटीवदनः वामतः प्रवेशे महाबोधिसत्व अजितञ्जयो नाम आलेख्यः | प्रसन्नमूर्तिः जटामकुटधारी दण्डकमण्डलुवामकरावसक्तः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वरप्रदानकरः ईषद्भ्रुकुटीवदनः द्वाराभिमुख आलेख्यः || सिंहासनस्याधस्ताद् धर्मचक्रः समन्तज्वालमालाकुलः तस्याप्यधस्तात् रत्नविमानः तत्रस्थो भगवां महाबोधिसत्त्वः मञ्जुश्रीः कुमारभूतः कुङ्कुप्रमौराकारः प्रसन्नमूर्तिः चारुरूपी ईषित् प्रहसितवदनः वामहस्ते नीलोत्पलावसक्तः दक्षिणहस्तेन श्रीफलावसकृवरदः सर्ववा******(?)भूषित**(?)वचीरकोपशोभितः मुक्तावलीयज्ञो***(?) पट्टांशुको******(?) पट्टन***(?)स्तः समन्तप्रभः समन्तज्वाल*****(?)ल पद्मासनोप******(?) यमान्त**(?)धराजगतदृष्टिः मण्डलप्रवे****(?)भिमुखः चारुद*******(?)तः आलेख्यः || ४२, प्. ४२) तस्य दक्षिणे पार्श्वे ***(?)धस्ताद् यमान्तकः क्रोधराजा आलेख्यः महाविकृतरूपी समन्तज्वालमालाकुलः आज्ञां प्रतीच्छमानः महाबोधिसत्तगतदृष्टिः सर्वत आलेख्यः | वामपार्श्वे पद्मस्याधस्ताच्छुद्धावासकायिकाः देवपुत्ररूपिणः बोधिसत्त्वाः पञ्च आलेख्याः | तद्यथा - सुनिर्मलः सुदान्तः सुशान्तः संशुद्धः तमोद्घातनः समन्तावलोकश्चेति | सर्वे च ते शुद्धावासभवनोपनिषण्णः अनेकरत्नोज्वलशिलातलाकारः समन्तज्वालविचित्रपुष्पावकीर्णश्चारुरूपी आलेख्यः || बहिः समन्ताच्चतुरश्राकारं चतुस्तोरणाकारं चतुर्दिशं विचित्रपञ्चरङ्गोज्ज्वलं सुप्रगुणरेखावनद्धं अभ्यन्तरमण्डलं कार्यम् | पूर्वायां दिशि भगवतः शाक्यमुनेः उपरिष्टाद् रेखाभिः मध्ये सङ्कुसुमितराजेन्द्रः पद्मासनोपनिषण्णः तथागतविग्रहः स्वल्पमात्रः कार्यसमन्तज्वालमालाकुलः वरदप्रदानहस्तः पर्यङ्कोपनिषण्णः || तस्य दक्षिणतः उष्णीषचक्रवर्त्तिमुद्रा लेख्या | वामतस्तेजोराशिमुद्रा लेख्या | तथागतलोचनाया उपरिष्टात् प्रज्ञापारमितामुद्रा लेख्या | भगवतः आर्यावलोकितेश्वरस्योपरिष्टात् प्रज्ञापारमितामुद्राया दक्षिणतः भगवानमिताभः तथागतविग्रहः कार्यः वरप्रदानहस्तः पद्मासनोपनिषण्णः समन्तज्वालमालाकुलः || तस्यापि दक्षिणतः पात्रचीवरमुद्रे कार्यौ | एवमनुपूर्वतः प्रवेशस्थाने पद्ममुद्रा कार्याः | भगवतो सङ्कुसुमितराजस्य तथागतस्य वा मतो उष्णीषतेजोराशिमुद्रा लेख्या समन्तज्वालमालाकुलाः || तस्यापि वामतः रत्नकेतुस्तथागतः कार्यः रत्नपर्वतोपनिषण्णः धर्मं देशयमानः नीलवैडूर्यपरकतपद्मरागविचित्रज्वालार्चिषि निर्गतसमन्तात्समन्तप्रभ आलेख्यः || तस्यापि वामतः जयोष्णीषमुद्रा समन्तज्वालमालाकुला आलेख्या | अस्यापि जगतः धर्मचक्रमुद्रा आ***(?) समन्तज्वालावती | तस्यापि वामतः ***(?)कमण्डलुमक्षसूत्र****(?)मण्डलुं भद्रपीठमुद्रा आलेख्या | अनुपूर्वतः ******(?)ने वज्रसूच्****(?)यतः समन्तज्वाल आलेख्यः | ४३, प्. ४३) भगवतो मञ्जुश्रियस्याधस्तान्महामुद्रा पञ्चशिखा नाम उत्पलमुद्रा ना लेख्या | समन्तज्वालिनौ एतौ अन्योऽन्यासक्तं समन्तमण्डलाकारमालेख्यम् | द्वारतः पश्चान्मुखप्रवेशतः प्राङ्मुखश्च कार्यः | सर्वेष्वपि बहिर्मण्डलं भवति पञ्चवर्णरङ्गोज्ज्वलं विचित्रचारुदर्शनं चतुःकोणविभक्तं चतुस्तोरणाकारं चतुर्दिशं द्विहस्तमात्राभ्यन्तरमण्डलतो बहिरालेख्यम् | पूर्वस्यां दिशि महाब्रह्मा चतुर्मुखः शुक्लवस्त्रनिवस्तः श्वेतवस्त्रोत्तरासङ्गिनः श्वेतयज्ञोपवीतः कनकवर्णः जटामकुटधारी दण्डकमण्डलुं वामावसक्तपाणिः || तस्य दक्षिणतः आभास्वरो देवपुत्रः कार्यः कनकवर्णः ध्यानान्तरगतमूर्त्तिः पट्टवस्त्रनिवस्तः पट्टांशुकोत्तरीयः सुप्रसन्नवदनः जटामकुटधारी श्वेतयज्ञोपवीतः पर्यङ्कोपनिषण्णः दक्षिणहस्तेन वरदः || तस्य दक्षिणत अकनिष्ठो देवपुत्रः कार्यः सर्वालङ्कारभूषितः प्रसन्नमूर्तिः ध्यानगतचेतसः पट्टवस्त्रनिवसननिवस्तः पट्टांशुकोत्तरीयः | तस्य दक्षिणतः पर्यङ्कोपविष्टः दक्षिणहस्तेन वरदः श्वेतयज्ञोपवीतः || एवमनुपूर्वतः सन्तुषितः सुनिर्मितः परनिर्मितः सुयामशक्रप्रभृतयो देवपुत्रा आलेख्याः यथानुपूर्वतः यथावेषसंस्कृताः || शक्रस्याधस्ताच्चातुर्महाराजकायिकाः सदामत्ताः मालाधारिणो करोटपाणयः वीणाद्वितीयका लेख्याः | भौमाश्च देवपुत्रा यथानुपूर्वतः यथावेषेनालेख्याः || एवं दक्षिणायां दिशि अवृह अनय सुदृश सुदशन परीत्ताभ पुण्यप्रसवप्रभृतयो देवपुत्रा आलेख्या यथावेषस्थानाः || एवं पश्चिमायां दिशि चोत्तरायां दिशि तेषामधस्ताद् द्विपङ्क्ति आश्रिता आलेख्याः | द्वितीयमण्डलाद् बहिस्तृतीयमण्डलं भवति | चतुर्दिशं चत्वारो महाराजानः अनुपूर्वत आलेख्याः || उत्तरायां *(?)शि प्रविशतो दक्षि**(?) धनदः निधिसमीपस्थः ******(?)ङ्कारभूषितः ********(?) यक्षरूपी | तस्य दक्षिणतः मणिभद्र*****(?)क्षसेनापती आ****(?) || ४४, प्. ४४) एवमनुपूर्वतः हारीती व्यहायक्षिणी आलेख्या | प्रियङ्करः कुमार उत्सङ्गोपविष्टो मण्डलं निरीक्षमाणः आलेख्याः | पञ्चिकः पिङ्गलः भीषणश्च आलेख्यः || तेषां च समीपे यक्षाणां मुद्रा आलेख्याः | एवमनुपूर्वतः वरुणो पाशहस्त पश्चिमायां दिशि आलेख्यः | नागौ नन्दोपनन्दौ तक्षकवासुकिप्रभृतयोऽष्टौ महानागराजानः आलेख्याः || एवं द्विपङ्क्त्याश्रिताः अनुपूर्वतः यक्षराक्षसकिन्नरमहोरगऋषयः सिद्धप्रेतपिशाचगरुढकिन्नरमनुष्या मनुष्याद्या ओषधयश्च मणिरत्नविशेषाः पर्वताः सरितः द्वीपाश्च अनुपूर्वतः सर्वे प्रधाना लेख्याः || दक्षिणायां दिशि यम आलेख्यः सपरिवारः | मातराः सप्त पूर्वदक्षिणस्यां दिशि | अग्निः समन्तज्वालमालाकुलः दण्डकमण्डलुअक्षसूत्रव्यग्रपाणिः जटामकुटधारी श्वेतवस्त्रनिवस्तः पट्टांशुकोत्तरासङ्गिकः श्वेतयज्ञोपवीत कनकवर्णः भस्मत्रिपुण्डरीकृतः || एवं नानाकरणप्रहरणवेषसंस्थानवर्णतत्त्वद्विपङ्क्ती आश्रिता आलेख्याः | सर्वतः प्रविशतो बहिर्मण्डले उमापतिर्वृपवाहनस्त्रिशूलपाणिः उमा च देवी कनकवर्णा सर्वालङ्कारभूषिता कार्तिकेयश्च मयूरासनः शक्त्युद्यतहस्तः कुमाररूपी षण्मुखः रक्ताभासमूर्तिः पीतवस्त्रनिवस्तः | पीतवस्त्रोत्तरासङ्गः वामहस्तेन घण्टां गृहीत्वा रक्तपताकां च अनुपूर्वतः भृङ्गिरिटि अत्यन्तकृशाकारः महागणपतिनन्दिकेश्वरमहाकालौ मातराः सप्त यथाभरणप्रहरणवेषसंस्थानाभिलेख्याः | अष्टौ वसवः सप्त ऋषयः विष्णुश्चक्रपाणिश्चतुर्भुजो गदाशङ्खासिहस्तो गरुडासनः सर्वालङ्कारभूषितश्च | अष्टौ ग्रहाः सप्तविंशतिनक्षत्राः येषु चरन्ति भुवि मण्डले उपग्रहाश्चाष्टा देवा लेख्याः अनुपूर्वशः पञ्चदश तिथयः सितकृष्णा द्वादश राशयो षट् ऋतवो द्वादश मासाः संवत्सरश्च | चतुर्भगिन्*(?) नावाधिरूढाः भ्रातृपञ्चनी सलिलवासिनश्चेति संक्षेपतो मुद्रामु व्यवस्थाना हि देवता अनुभूते ******(?) श्रिताश्च कार्या संक्षेपतो मण्डल****(?) मण्डलाश्रयः | *******(?) चतुरश्रश्च | त्रिमण्डलेष्वपि व्यव******* (?) भवति | संक्षेपतः बुद्धो भगवान ४५, प्. ४५) सर्वसत्त्वानाना अवगामभिलेख्यः | अब्जकुले आर्यावलोकितेश्वरो दक्षिणतः ****(?)ययभिलेख्यः | वागन वज्रकुले वज्रपाणिरवश्यमभिलेख्यः | बोधिसत्त्वानामग्र आर्यसमन्तभद्रोऽवश्यमभिलेख्यः | मञ्जुश्रीः कुमारभूतोऽवश्यमभिलेख्यः | सैषा मुद्रासु यथाव्यवस्थायामभिलेख्याः | एतदभ्यन्तरमण्डलं मध्यमण्डलेऽपि ब्रह्मा सहाम्पतिः पूर्वायां दिश्यवश्यमभिलिखितव्यः | एवमाभास्वरो दक्षिणायां दिशि अकनिष्ठ अरूपिणश्च देवा मण्डलाकारा अव्यक्ताः नैव संज्ञानासंज्ञायतना देवाः उत्तरायां दिशि शक्रो देवराजा सयामः सन्तुपितः सुनिर्मितः परनिर्मितः परीत्ताभप्रभृतयो देवपुत्रा अवश्यमेकैकः देवराजोऽभिलिखितव्यः | सैषा मुद्रासु व्यवस्थाप्याः || एवं तृतीयमण्डलेऽपि उत्तरायां दिशि ईशानो भूताधिपतिः सहोमयावश्यमभिलिखितव्यः | द्वितीयद्वारसमीपे कार्त्तिकेयमञ्जुश्रीः मयूरासनः शक्तिपाणिः रक्तावभासमूर्त्तिः पीतवस्त्रनिवस्तोत्तरासङ्गिनः दक्षिणहस्ते घण्टापताकावसक्तः कुमाररूपी मण्डलं निरीक्षमाणः | पूर्वायां दिशि वैनतेयः पक्षिरूपी | ऋषिर्मार्कण्डः अवश्यमभिलिखितव्यः | सैषा मुद्रासु च व्यवस्थाप्याः || दक्षिणपूर्वतः चतुःकुमार्याः कुमारभ्रातृसहिता नौयानसंस्थिता महोदधेः परिभ्रमन्त्यः | अग्निश्च देवराट् अवश्यलिखितव्यः | एवं दक्षिणस्यां दिशि लङ्कापुरी विभीषणश्च राक्षसाधिपतिः तत्रस्थितः पिचुमन्दवृक्षाश्रितः जम्भलजलेन्द्रनामा यक्षरूपी बोधिसत्त्वोऽवश्यमभिलिखितव्यः || एवमनुपूर्वतो यमो राजो प्रेतमहर्द्धिकोऽवश्यमभिलिखितव्यः | एवं पिशाचराजा विकरालो नामावश्यमभिलिखितव्यः | सैषा मुद्रासु व्यवस्थाप्या || एवं दक्षिण*(?)श्रमायां दिशि स्पन्दोपनन्दौ नागमुख्यौ अवश्यमभिलि****(?) ******(?)ख्यश्रादित्य पश्चिमायां दिशि कपिलमुनिर्नाम ऋषिवरो ************ (?) निर्गन्धरूपी अनुपूर्वतः | सैषा मुद्रासु व्यवस्थाप्याः ********* (?) न दिशासु यक्षाह धनदः ४६, प्. ४६) गन्धर्वराट् पञ्चशिखः किन्नरराजा द्रुमः एतेऽवश्यमभिलिखितव्याः | सैषा मुद्रासु च अनुपूर्वतः यथास्थानं संस्थिता अभिलिखितव्याः इति || चतुर्थमण्डलं बहिः पञ्च रेखाः चितं मुद्रमालाभिश्चोपशोभितं चतुरश्रं चतुस्तोरणाकारं चतुर्महाराजविभूषितं यथानुपूर्वस्थिता | तद्यथा - मुद्रा भवन्ति पुरःप्रदेशे नीलोत्पलमभिलेख्यम् | दक्षिणतो वामतः पद्मं वज्रं परशुखड्गशूलत्रिशूलगदाचक्रस्वस्तिककलशमीनशङ्खकुण्डलध्वजपताकं पाशघण्टाकद्वारकधनुर्नाराचमुद्गर एतैर्विविधाकारप्रहरणमुद्रैः समन्ताच्चतुरश्रमालाकुलं कुर्यादित्यतः बहिश्चतुर्दिशं चत्वारो महासमुद्राः स्थापनीयाः || उत्तरायां दिशि चतुरश्राकारं मण्डलकं कृत्वा उभयवज्रं त्रिसूच्याकारं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा स्थापयेत् || दक्षिणायां दिशि धन्वाकारं मण्डलकं कृत्वा पात्रं समन्तज्वालं स्थापयेत् | पश्चिमायां दिशि समन्तप्रभाकारं मण्डलकं कृत्वा नीलोत्पलं सनालपत्रोपेतं समन्तज्वालं विदिक्षु मण्डलं कृत्वा समन्तज्वालं दक्षिणपश्चिमायां दिशि दीर्घाकारमण्डलकं कृत्वा दण्डं समन्तज्वालं दक्षिणपश्चिमायां दिशि परशुं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा पूर्वोत्तरायां दिशि खड्गं समन्तज्वालं स्थापयेत् || आलिख्य सर्वत इत्यूर्ध्वमधस्तिर्यक् त्रीणि मुद्राद्वारसमये बहिर्मण्डलस्यालेख्याः चूर्णैरेव | तद्यथा - वज्रव्यजनोपानहौ च समन्तज्वालिनस्त्वेते अभिलेख्या इति || एतन्मण्डलविधानं कथितं त्विह समासतः | सत्त्वानां हितकाम्यार्थ मञ्जुघोषेण धीमता || ततो मण्डल*****(?)ण शिष्याः पूर्वमेवा******(?)व्याः अविकले ****(?) सर्वाङ्गशोभनाः ब्राह्मणक्षत्रियविट्*(?) **(?)दितबोधिचित्ताः ******(?)यायिनः इतरयानास्पृहणशीला महास**(?) कल्याणध**************(?) अल्पभोगजुगुप्सनाः ******(?)भिरुचितवन्तः ४७, प्. ४७) भद्रा विनीताः शीलवन्तः भिक्षुभिक्षण्युपासकोपासिका नियमस्था उपो*****(?)ससंवरस्थाः महाबोधि सत्वाद्वेषिणो महायक्षःकुलीनाः प्रकृत्यैव धर्मचारिणः अहोरात्रोषिता शुचिवस्त्रप्रावृताः सुगन्धकेशाः त्रिःस्नायिनः मौनिनश्च | तदहो कर्पूरकुङ्कुमलवङ्गसुगन्धमुखगन्धिनः नित्यं चोपस्पृशितवन्तः कुशपिण्डकोपविष्टाः कृतरक्षाविधानाः ब्रह्मचारिणः सत्यवन्तः * * * * * * (?) न्मण्डल * * * * * (?) नात्यासन्ने स्थापनीयाः | शुचिनः सुचौक्षाः अष्टानां प्रभृति यावदेकं नान्येपाम् | ते च परस्परासंसक्तिनः क्षत्रिया मूर्द्धाभिषिक्ताश्च महाराजानः | तेषां च सुताः कुमारकुमारिकाश्च अविदितग्राम्यधर्माणः कारणं भगवान् कुमाररूपी महाबोधिसत्त्वो मञ्जुश्रीः बालजनप्रबोधकः कुमारक्रीडनपरश्च | अतः प्रथमतर एव कुमारः पर्वेशयितव्यः | महाराज्ञाभिवर्द्धन आयुरारोग्यैश्वर्यकामः भोगाभिवर्द्धनं च विशेषतः बालानां मन्त्रसिद्धिः ध्रुवं स्थिता इति || एतां पूर्वस्थापितां कृत्वा सुसखायोपेता अप्रमत्ताः ततो मण्डलाचार्येण कर्पूरधूपं दहता पृष्ठतो बहिर्निगन्तव्यम् | निर्गत्य च यथामुखर्त्तुकोदकेनाष्टशताभिमन्त्रितेन मूलमन्त्रेण महामुद्रा पञ्चशिखमुद्रितेनोदकेन स्नात्वा उपस्पृश्य च शुचिर्वस्त्रप्रावृतेन शुचिना अग्निकुण्डं गत्वा कुशविण्डकोपविष्टः उत्तरपूर्वाभिमुखः आहुतीनां कर्पूरकुङ्कुमचन्दनमिश्राणामष्टसहस्रं जुहुयात् || पूर्वोक्तेन विधिना आहूय विसृज्य च भूयो मण्डलं प्रवेष्टव्यम् | प्रविश्य चाष्टौ पूर्णकलशाः शुचिवस्त्रोपेताः सहकारपल्लवविभूपिताः सुवर्णरजतरत्नधान्यव्रीहिप्रक्षिप्तगर्भः एकं भगवतः शाक्यमुनेः प्रतिपादयेत् | द्वितीयः सर्वबुद्धानाम् | तृतीयः सर्वप्रत्येकबुद्धार्यश्रावक***(?) चतुर्थः सर्वमहाबोधिसत्त्वानाय | पञ्चमो महाबोधिसत्त्वस्य ******(?)श्रेयस्य | षष्ठः सर्वदेवा **(?) सप्तमाष्टमौ द्वितीयमण्डले ********(?)स्थापयितव्यौ *******(?) | एकः सर्वभूतानाम् | ****(?) पूर्वसत्त्वपरिणामितः *********(?) *****(?)स्थापयितव्येति || ततः पूर्वोक्तेनैव विधिना धूपं दहता महा*****(?) शिखां ४८, प्. ४८) बद्ध्वा भूययावाहनं कुर्यात् | सर्वबुद्धानां *****(?)शुद्धानां आर्यश्रावकमहाबोधिसत्त्वानां सर्वभूतानां सर्वसत्वांश्च मञ्जुश्रियं कुमारभूतं च पूर्वोक्तेन विधिना आह्वानयेत् || एवं पुष्पधूपगन्धप्रदीपैः निवेद्यांश्च पूर्वनिर्दिष्टेनैव कर्मणा निवेद्यः | सर्वेषां सर्वतः अनुपूर्वेणैव कुर्यात् | प्रदीपग्रहणेनैव घृतदीपं दद्यात् | सर्वेभ्यः आर्यानार्येभ्यः निवेद्यग्रहणेन शाल्योदनं दध्नोपेतं मधुपायसविशेषविशेष्योपरचितघृतपक्वपूषान् अशोकवर्त्तीखण्डखाद्यकाद्यां सर्वं तथागतेभ्यो निर्यातयेत् | हवि पूर्ण श्रीवेष्टमधुशिरषयोपक्वभक्षाद्यां सर्वप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्वानार्यदेवतानां च निर्यातयेत् | एवं लड्डुकागर्भोक्तारकविशेषान् पूषोपकारणान् सर्वदेवभूतगणान् सर्वसत्वांश्च मन्त्रोपेतान् विधिना निर्यातयेत् | एवं सुगन्धपुष्पान् जातीतगरनागपुष्पपुन्नागप्रभृतिं पूर्वनिर्दिष्टान् सर्वबुद्धप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्वेभ्य आर्यानार्येभ्यो निर्यातयेत् | विशेषतः तथागतकुले जातीकुसुमं पद्मं पद्मकुले तथा कुवलयं कुलिशषाणे अन्यमन्त्रेभ्यो इतरमिति कर्पूरधूपं तथागतकुले चन्दनं पद्मकुले तथा गुग्गुलुं गुह्यकेन्द्रस्य वज्रिणस्यैव शस्यते | अन्यमन्त्रेभ्यः सर्वेभ्यः धूपं दद्यात् इतरघृतप्रदीपानार्येभ्यः सर्वेभ्यश्चैव दापयेत् | अनार्येभ्य मन्त्रेभ्यः सुगन्धतैलन्तु दापयेत् | अनुपूर्वेण विधिना पूर्वदृष्टेन हेतुना | गन्ध * * (?) त्तथैवोक्तं सर्वमन्त्रेभ्यो नित्यश || अवलोकितेन यत् प्रोक्तं यत् प्रोक्तं कुलिशपाणिना | स्वकस्वकेषु तन्त्रेषु मन्त्रचर्यार्थसाधने || तेष्येह कल्पे द्रष्टव्याः अनुवर्त्त्याश्च सर्वदा | इति || ततो मण्डला *(?)र्येण पूर्वदृष्टेन विधिना आवाहनपूजनधूपनादिनिवेद्यप्रदाना*****(?)क्रियां कृत्वा ********* (?) कुशलेन त्वरमाणेन सार्वभौ*******(?) निरामिषां सर्वत**********(?)निनन्दीशब्दघोषनिनादिने ************(?)पालभिरचितः चतुर्दिक्षु विदिक्षु च ४९, प्. ४९) इत्यूर्ध्वमधस्तिर्यक् सर्वतो बहिर्मण्डलं प्रदक्षिणी * * * (?) र्व भौतिकां क्षि * * * * * (?) र्यो दधिमधुघृताक्तानां शालितन्दुलाहूतीनामष्टसहस्रं जुहुयात् | षडक्षरमूलमन्त्रहृदयेन जुह्वतः पूर्वस्थापितकां मण्डलानुप्रवेशमहासत्त्वां कृतरक्षाविधानानां मण्डलाचार्यशिष्यत्वाभ्युपगतानामुत्पादितबोधिचितानामुपोषधिकानां सर्वबुद्धबोधिसत्वात्मानिर्यातितमूर्त्तीनां सिद्ध्यर्थसत्वोषभोगसाधारणभूतानामनुत्तरबोधिमण्डाक्रमण- कुशलानां सर्वज्ञज्ञानबुद्धलिप्सकामानां मण्डलदर्शनादेव मुच्यते सर्वकिल्विषात् | आनन्तर्यहारिणोऽपि ये मुच्यन्ते तत्क्षणाज्जनाः इति || ततो मण्डलाचार्येण अनाहतेन वस्त्रेण तन्त्रोद्धृतेनापगतकेशेन मूलमन्त्रसप्ताभिमन्त्रितेन सुगन्धचन्दनकुङ्कुमाभ्यक्तेन पटेन मण्डलं प्रवेष्टुकानां मुखं वेष्टयित्वा प्रथमतः बालषोडशप्रभृति यावन्त्रीणि वर्षजन्मिकं पञ्चचीरकोपशोभितं एकचीरकोपशोभितं शिखोपशोभितं अशिरस्कं वा राजपुत्रं मूर्धाभिषिक्तं क्षत्रियपुत्रं वा अन्यं वा महोत्साहमहाराज्यकामं वा प्रवेशयेत् || द्वितीयमण्डलस्थितं मुखं वेष्टयित्वा उत्पलमुद्रां बद्ध्वा मञ्जुश्रियः कुमारभूतस्य मूलमन्त्रं सकृज्जप्त्वा कारापयित्वा सुगन्धपुष्पं दत्त्वा चन्दनकुङ्कुमाभ्यां मिश्रं सचौक्षाभ्यां हस्ताभ्यां पुष्पाणि क्षिपापयितव्याः | यत्रास्य पुष्पमधितिष्ठति तमस्य मन्त्रं दद्यात् | स्वमन्त्रेति कीर्त्यते | सैवास्यानुबद्धा जन्मपरम्परासु सैवास्य कल्याणमित्रो बोधिमण्डक्रमणमहाबोधिसत्त्वज्ञज्ञानपरिपूरणार्थमभिनिर्हरति | सैवास्य साधनीयम् | महाभोगमहाराज्यमहेशाख्यपुद्गलसमवधानता चास्यमभिनिर्हरति | इहैव जन्मनि अविचारतः साधनीयं सिध्यते सर्वकर्येषु च | एवमनुपूर्वतः एकं प्रति वावद् यावदष्टानां नान्येषा**(?) सिद्धिकामैः | अन्येषां यथेप्सतः पापक्षपणार्थं समयमात्रं स्यादिति अभिषेकं ददता मण्डलाचार्येण आदौ तावन्मण्डले वहिर्नातिदूरे नात्यासन्ने पूर्वोत्तरे दिग्भागे भूप्रदेशे अधिष्ठाय मन्त्रपूतं कृत्वा मूलमन्त्रेण ततः राज्याभिषे***(?)नमात्मानं एकान्तबुद्धधर्मसङ्घाभि***(?) श्राद्धं महोत्साहिनं अविरहितबोधिचित्तं महायानयायिनं ५०, प्. ५०) रत्नत्रयोपकारिणं अविकलेन्द्रियं अकुत्सितमिहैव जन्मनि मन्त्रां साधयितुकामः | भद्राशयं मन्त्रचर्योद्युक्तमानसं कौतुकजातीयं जिज्ञासनहेतोरपि अविकल्पितमन्त्रार्थतद्गतमानसं एकं प्रभृति यावत्यथे अभिषेच्या सेव्यावर्ज्या इति | प्राज्ञा अमूढचरिता इति | शेषतो अभिषेच्याः | नान्येषामपि | ततः सर्वराज्याभिषेकमिवोपकरणं सम्भृत्य आचार्यो वा येन तुष्येत | ततः विनतवितानोच्छ्रितध्वजपताकश्वेतच्छत्रमूर्धनि धार्यमाणः सितचामरे निवीज्यमानः महता सत्कारेण नन्दीशब्दनिर्घोषशङ्खभेरीमृदङ्गजयशब्दैः मङ्गलगाथाभिः प्रशस्तस्वस्तिकगाथाभिश्च जिनभाषितैरभिस्तूयमानः प्रदक्षिणीकृत्य च तन्मण्डलं सर्वबुद्धबोधिसत्त्वां प्रणम्य आचार्यं शिरसा प्रणम्य एवं च वक्तव्यम् उ * * (?) ष्याचार्यसर्वबुद्धबोधिसत्त्वमन्त्रचर्यानिर्हारं समनुप्रवेष्टुं सर्वलौकिकातिक्रान्तरहस्यविमोक्षमण्डलं समनुप्रवेष्टुं सर्वधर्मराज्यसमनुप्रवेशबुद्धत्वगधिगन्तुं संक्षेपतो वक्तव्यं बुद्धो भूयामिति || ततः कुशविण्डकोपविष्टः पूर्वाभिमुखः मं * * * * * * * * * * * (?) पञ्चशिखां बद्धापयितव्यः | ततो स्वेस्थितं मन्त्रं यो यस्य रोचते भूर्जपत्रे गोरोचनया लिखितव्यम् | लिखित्वा चन्दनकुङ्कुमाभ्यां हस्तौ म्रक्षयित्वा शरावसम्पुटं च ततस्तं भूर्जपत्रं शरावसम्पुटाभ्यन्तरस्थं * * * * (?) बोधिसत्वस्य पादमूले स्थापनीयम् || ततस्तत्रोपविष्टेन विद्यामूलमन्त्रा अष्टशतवारानुच्चारयितव्यः | पूर्वमेव तु ततः तं कुशविण्डकोपविष्टमभिषेचनीयम् | बहिर्मण्डले यः सर्वसत्त्वसाधारणभूतं पूर्णकलशं पूर्वस्थापितकं द्वारसमीपे तं गृहीत्वा आचार्येण मूलमन्त्रं पठता मूर्धनि अभिषेक्तव्यः | शेषाः यथेष्टमुदकेनेति || **(?)तस्तं श***(?)पुटं तस्यैव दात***(?) प्रदीपेन च ***(?)येतव्यः | यदि सा एव **(?) मन्त्रा क्रयात् सिध्यति यदातः ** (?) | अन्यो मन्त्रपठनादेव सिद्ध्यति | अथ मन्त्राक्षरहीनातिरिक्ता ** (?) ५१, प्. ५१) दत्ता भवति **(?)मसाधनं एव सिध्यतीत्यविकल्पताः | सा एष पूर्वलिखिता **(?)र्येण त्रिभिः साधनैः कुर्वं सिद्ध्यतीत्ययत्नतः || एवं प्रथमतः विद्याभिषेकं दद्यात् | द्वितीयमण्डलाभिषेकं द्वितीयमण्डले सर्वदेवानां यत् प्रतिपादितकं पूर्णकलशं तेनाभ्यषिञ्चेत् | मूर्धनि यथैव वा पूर्वकं तेनैव विधिना मुच्यते सर्वकिल्विषात् | अनुज्ञातश्च भवति सर्वबुद्धैः सर्वलौकिकलोकोत्तरसमयमण्डलं सर्वमन्त्रमुद्रासाधनेषु च अव्यष्टो भवति | सर्वबोधिसत्त्वैरिति आचार्याभिषेकं दद्यात् || तृतीयमण्डले सर्वश्रावकप्रत्येकबुद्धेभ्यः पूर्णकलशं निर्यातितकं तेनैव विधिना मूर्धन्यभिषेचयेत् | वक्तव्यं अनुज्ञातस्त्वं सर्वबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः सर्वलौकिकलोकोत्तराणां मन्त्राणां लिखनपठनमण्डलोपदेशमन्त्रतन्त्रमुद्राचर्यानिर्देश स्वयं चरितुं निर्देष्टुं वा | इहैव जन्मनि परम्परासु च यावत्पश्चिमकं नियतं बुद्धत्वं प्राप्तव्यमिति || एवं जयविजयाभिषेकेऽपि पूर्वनिर्दिष्टेन विधिना भगवतो बुद्धनिर्यातितकपूर्णकलशेन बोधिसत्त्वनिर्याति | तेन च पूर्णकलशेन तथैवाभ्यषिच्यत् | एवं च वक्तव्यमनुज्ञातस्त्वं सर्वबुद्धैर्भगवद्भिर्महाबोधिसत्त्वैश्च श्रावकैः अधृष्यः सर्वभूतानामजितः सर्वदेहिनाम् | विजयत्वं सर्वमन्त्राणां साधयस्त्वं यथेप्सतः || ततो मण्डलाचार्येण एकैकस्य यथेप्सतः | पञ्चाभिषेका दातव्या सर्वेभ्यो पञ्च एव तु | ततस्तामनुपूर्वेण मण्डलं प्रवेश्य सर्वबुद्धबोधिसत्त्वानां निर्यातयित्वा मण्डलं त्रिः प्रदक्षिणीकृत्य विसर्जयितव्यः | तदहो परेण अनुपूर्वेण शिक्षयितव्याः मन्त्रचर्यासु नियोक्तव्या | तत्क्षणादेव भगवतो **(?)श्रियस्य महाबोधिसत्त्वस्य *****(?)निर्यातितकं पूर्णकलशं गृहीत्वा तेषां मण्डलमविष्टानामुदकचुलुकत्रयं पूर्वाभिमुखं कृत्वा पाययेत् | ** (?) - इयं भो ! महाबोधिसत्त्वस्य मञ्जुश्रियः कुमारभूतस्य ५२, प्. ५२) समयरहस्यं मातिक्रमिष्यथेति मा बहु अपुण्यं प्रसविष्यथेति | सर्वमन्त्राश्च न प्रतिक्षेप्तव्याः | सर्वबुद्धबोधिसत्त्वाश्च न विसंवादनीयाः | गुरुराराधनीयश्चेति | अन्यथा समयातिक्रमः स्यात् | मन्त्राश्च सिद्धिं न गच्छेयुः | वह्वपुण्यं स्यादिति | एवं विसर्जयितव्याः || ततो मण्डलाचार्येण भूयो दधिमधुघृताभ्यक्ताः शालितण्डुलाहुतयोऽष्टाक्षरहृदयेन होतव्याः | ततोत्थाय मण्डलमध्यं प्रविश्य पूर्वनिर्दिष्टैः पुष्पैः पूर्वोक्तेन विधिना अर्घ्यं देयः सर्वेभ्यः मनसा चिन्तयेत् | पूर्वोक्तेनैव धूपेन सर्वबुद्धबोधिसत्त्वां प्रत्येकबुद्धार्यश्रावकां सर्वदेवनागयक्षगरुडगन्धर्वकिन्नरमहोरगयक्षराक्षसपिशाचभूतयोगिन- सिद्धऋषयः सर्वसत्त्वां सन्धूष्य पुष्पैरवकीर्य चन्दनकुङ्कुमोदकेनाभ्यपिञ्चेत् | पूर्वोक्तेनैव विधिना विसर्जयेत् | मनसा मोक्षः सर्वेभ्य इति || ततो मण्डलाचार्येण निवेद्यं बलिं चूर्णं सर्वे नद्यां प्लावयितव्याः | दुःखितेभ्यो वा प्राणिभ्यो दातव्यम् | सुपरामृष्टं सुकेलायितं सुशोभितं पृथिवीप्रदेशं कृत्वा गोमयेन लेप्तव्यः | उदकेन वा प्लावयितव्यम् | सुचौक्षमृत्तिकया वाभ्यलिम्प्य सिकताया वा अस्यैव कार्यं यथेष्टतो गन्तव्यम् | तैर्मण्डलप्रविष्टैरात्मनः क्षीरोदनाहारेण हविष्याहारेण वा भवितव्यमिति || बोधिसत्त्वपिटकावतंसकान्महाकल्पराजेन्द्रान्मञ्जुश्रीकुमारभूतविकुर्वणात् बोधिसत्त्वपटलविसराद् द्वितीयः मण्डलविधिनिर्देशपरिवर्तः समाप्त इति | ५३, प्. ५३) अथ तृतीयः परिवर्तः | अथ खलु मञ्जुश्रीः कुमारभूतः पुनरपि तं शुद्धावासभवनमवलोक्य तां महापर्षन्मण्डलसन्निपतितां सर्वबुद्धबोधिसत्त्वां प्रणम्य एकाक्षरं परमगुह्यं सर्वविषघातसर्वकर्मिकं च मन्त्रं स्वमण्डलसाधनीषयिकं सर्वक्षुद्रकर्मेषु चोपयोज्यं भाषते स्म | कतमं च तत् | नमः समन्तबुद्धानाम् | तद्यथा - जः | एष समार्षा सार्वभूतगणाश्च अस्यैव मन्त्रमेकाक्षरस्य द्वितीयं मण्डलविधानं संक्षेपतो योज्यम् | अष्टहस्तं चतुर्हस्तं वा भूप्रदेशं संशोध्य पञ्चरङ्गिकैरेव चूर्णैः स्वयं लिखितव्यम् | न परैः | यत्र वा तत्र वा न चात्र दोषः | समं चतुरश्रं त्रिमण्डलोपशोभितं पञ्चशिखां महामुद्रां प्रथमं च तावल्लिखेत् | भगवतो मञ्जुश्रियः उत्पलमुद्रां दंष्ट्रामुद्रां वक्त्रमुद्रां यष्टिमुद्रां च | एते मुद्रा अभ्यन्तरमण्डलपूर्वदिग्भागे आलिखितव्याः | ततः पद्मवज्र उत्पलध्वजपताकच्छत्रतोरणरथकुञ्जर अश्ववलीवर्दमहिपस्वस्तिकमयूर अजमेषपुरुषकुमाररूपी बहिर्द्वारमूले आलिखितव्यः | यथानुपूर्वतः पङ्क्ति आश्रिता आलेख्याः त्रिमण्डलाश्रिता एवं कार्याः स्युरिति || ततो एकाक्षरेणैव मन्त्रेण पूर्वदक्षिणे दिग्भागे अग्निकार्यं कार्यम् | अपामार्गसमिधानां दधिमधुधृताक्तानां अष्टशतं होतव्यम् | ततः पुष्पैरर्घ्यो देयः | एकाक्षरेणैव मन्त्रेण बलिनिवेद्यप्रदीप यथेप्सितं दातव्यम् | धूपं वा आह्वाननविसर्जनं कुर्यादिति || ततः प्रवेशयेद् राज्यकामं नगरमध्ये आलिखेत् | भोगकामं वटवृक्षसमीपे पुत्रकामं पुत्रञ्जीवकवृक्षसमीपे अनपत्नीकं हस्त्यश्वकामं कुञ्जरशालायां वाजिशालायां वा दष्टकं महाह्रदे नागायतने वा चातुर्थकनित्यज्वरसर्वज्वरेषु च एकलिङ्गे ग्रामदक्षिणदिशे वा राक्षसगृहीतं श्मशाने शून्यग्रहे वा पिशाचगृहीतं विभीतकवृक्षसमीपे एरण्डवृक्षसमीपे वा प्रातरसर्वगृहीतेषु चतुःपथेषु मृतकसूतकगृहसमीपे वा ब्रह्मराक्षसगृहीतं **(?)वृक्षे श्लेष्मातकवृक्षे वा गरदत्तकं एकाक्षरेणैव मन्त्रेणैव उदकं सप्ताभिमन्त्रितं कृत्वा तत्रैव मण्डलमध्ये पातयितव्यः मन्यते || ५४, प्. ५४) एवं स्त्रियाया पुरुषस्य वा यशोर्थिनं च चत्वरे ब्रह्मस्थले वा आलिखितव्यम् | मृतवत्सायाः सफले वृक्षे क्षीरवृक्षे वा शालिधान्यषककेदारमध्ये अनपत्याया लिखितव्यम् | विविधरोगस्त्रीकृतान्यदुष्टतः प्रतरादिषु महारोगस्पृष्टासु रक्षोघ्नं नदीपुलिने कूले वा पर्वताग्रे चाभिलेख्यम् | सर्वरोगेषु सर्वतः | डाकिनीकृतान्यपि ब्रह्मपालिकायां शून्यवेश्म एकान्तस्थान निम्नप्रदेशे वा | एवं सर्वकर्मेषु अर्धरात्रे मध्याह्ने वा सर्वकालमभिलिखितव्यम् | तेनैवैकाक्षरमन्त्रेण पुष्पैरर्घ्यं दत्त्वा विसर्ज्य च मण्डलं उदकेन प्लावयितव्यम् | सर्वग्लानानां महती रक्षा कृता भवति || मुच्यते सर्वरोगेभ्यो ईप्सितमर्थं च सम्पद्यन्ते | अपुत्रो लभते पुत्रं दुर्भगः सुभगो भवेत् || दरिद्रो लभते अर्थां दर्शनादेव मण्डलम् | स्त्रियस्य पुरुषस्यापि श्राद्धस्यापि कल्पतः || यथेष्टविविधाकारां प्राप्नुयात् सम्पदां सदा | इति बोधिसत्त्वपटलविसरा मञ्जुश्रीकुमारभूतमूलकल्पात् तृतीयो मण्डलविधानपरिवर्तः | ५५, प्. ५५) चतुर्थः पटलविसरः | नमो बुद्धाय सर्वबुद्धबोधिसत्त्वेभ्यः | अथ खलु मञ्जुश्रीः सर्वावन्तं शुद्धावासभवनमवलोक्य पुनरपि तन्महापर्षन्मण्डलसन्निपानमवलोक्य शाक्यमुनेश्चरणयोर्निपत्य प्रहसितवदनो भूत्वा भगवन्तमेतदवोअत् || तत् साधु भगवां सर्वसत्त्वानां हिताय मन्त्रचर्यासाधनविधाननिर्हारनिष्यन्दधर्ममेघप्रवर्षणयथेप्सितफल- निष्पादनपटलविसरः पटविधानं अनुत्तरपुण्यप्रसवः सम्यक् सम्बोधिबीजमभिनिर्वर्तकं सर्वज्ञ ज्ञानाशेष अभिनिर्वर्तकं संक्षेपतः सर्वाशापारिपूरकं सर्वमन्त्रफलसम्यक् सम्प्रयुक्तः सफलीकरण अबन्ध्यसाधितसाधकं सर्वबोधिसत्त्वचर्यापारिपूरकं महाबोधिसत्त्वसन्नाहसन्नद्धः सर्वमारवल अभिभवनपरापृष्ठीकरणं तद्वदतु भगवानस्माकमनुकम्पामुपादाय सर्वसत्त्वानां च || एवमुक्ते मञ्जुश्रिया कुमारभूतेन अथ भगवांश्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतमेतदवोचत् || साधु साधु मञ्जुश्रीः ! यस्त्वं बहुजनहिताय प्रतिपन्नो लोकानुकम्पायै यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे | तच्छृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येहं ते त्वदीयं पटविधानविसरसर्वसत्वचर्यासाधनमनुप्रवेशमनुपूर्वकः वक्ष्येऽहं पूर्वनिर्दिष्टं सर्वतथागतैः | अहमप्येदानीं भाषिष्ये || आदौ तावच्छुचौ पृथिवीप्रदेशे रजोविगते पिचुं गृह्य समयप्रविष्टैः सत्त्वैः पिचुं संशोधयितव्यम् | संशोध्य च अनेन मन्त्रेण मण्डलाचार्येणाभिमन्त्रितव्यम् अष्टशतवारां | नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतमतिगतिप्रतिचारिणाम् | नमः संशोधनदुःखप्रशमनराजेन्द्राराजाय तथागताणर्हते सम्यक्सम्बुद्धाय | तद्यथा - ओं *****(?)य सर्वविघ्न**(?) ! ****(?)णिक ! कुमाररूपधारिणे | विकुर्व विकुर्व | समयमनुस्म *** (?) तिष्ठ | हुम् हुम् फट् फट् स्वाहा | ५६, प्. ५६) ततः अवितथग्राम्यधर्मकुमारीब्राह्मणकुलक्षत्रियकुलप्रसूतं वैश्यकुले प्रसूतं नातिकृष्णवर्णयोनिवर्णयोनिवर्जितां अविकलं सर्वाङ्गशोभनां मातापितृअनुष्कृतां उपोषधपरिगृहीतां उत्पादितबोधिचित्तां कारुणिकां अवदातवर्णां अन्यवर्णविवर्जितां संक्षेपतः स्त्रीलक्षणसुप्रशस्तचिह्नां सशोभनेऽहनि शुक्लपक्षे शुक्लशुभग्रहनिरीक्षिते विगतधूपनिर्हारवदलापगते विगतवाते शुचौ प्रदेशे पूर्वनिर्दिष्टां कुमारीं स्नापयित्वा शुचिवस्त्रप्रावृतेन सुनिवस्तां कृत्वा अनेनैव मन्त्रेण महामुद्रोपेतरक्षां कृत्वा श्वेतचन्दनकुङ्कुमं निष्प्राणकेनोदकेनालोड्य तत् पिवन्तां च कन्यां तेनैव मन्त्रेण संशोधनेनाभ्युक्षयेत् | चतुर्दिशं च क्षिपेत् श्वेतचन्दनं कुङ्कुमोदकं इत्यूर्ध्वमधश्च विदिक्षु श्वेतचन्दनकुङ्कुमकर्पूरं चैकीकृत्य पूर्वं दापयेत् | स्वयं वा दद्यात् | साधकाचार्ये वा | तदेवं वाचा भाषितव्यं त्रीन् वारां - अधितिष्ठन्तु बुद्धा भगवन्तो इदं पटसूत्रं दशभूमिप्रतिष्ठिताश्च महाबोधिसत्त्वाः | ततस्ते बुद्धा भगवन्तो समन्वाहरन्ति | महाबोधिसत्त्वाश्च | धूपं दहता तस्मिं समये मयूरक्रौञ्चहंससारसचक्रवाकविविधा शुभशकुनया जलस्थलचारिणोऽन्तरिक्षी गच्छेयुः | शुभं वा कूजयेयुः | तत् साधकेन ज्ञातव्यम् | सफलं मे एतत् कर्म अधिष्ठितं मे बुद्धैर्भगवद्भिमहाबोधिसत्त्वैश्च मे | तत् पटसूत्रं सुजीवितं मेह जन्मनि अवन्ध्या मे मन्त्रसिद्धिः | पटहभेरीमृदङ्गशङ्खवीणवेणुपणवमुरवशब्दं वा भवेयुः | * * * * * * * * * (?) एवं वदेयुरकल्पस्मात् तस्मिं समये जयसिद्धि सिद्ध दत्त दिन्न गृह्ण श्रेयसः सफलकशक्रप्रभूत एवमादयो अन्ये वा शुभां शब्दां प्रव्याहरन्ति | घण्टानिःस्वनं वा भवेयुः नन्दीशब्दं वा | ततो विद्याधरेण ज्ञातव्यम् | बुद्धानां भगवतां महाबोधिसत्त्वानां चाधिष्ठानमेतत् | नान्यत्र अवन्ध्यसिद्धिरिति || अथ ते तस्मिं समये क्रूरं प्रव्याहरन्ते गृह्ण खाद खादापय नष्ट विनष्ट कष्ट दूर सुदूर नास्तीत्येवमादयः शब्दा निश्चरन्ति वानरमहिषक्रो**(?)गर्दभयार्जारकु***(?)र्यग्द्विपदचतुः****(?) ***(?) निश्चरेयुः | ततो साधकेन ज्ञातव्यं ****(?) मे सिद्धिरिति | इह **(?)मनि संहर्तव्यः | ५७, प्. ५७) भूयो वा पूर्वसेवां कृत्वा प्रारब्धव्यम् | एवं यावत् सप्तवारान् | पञ्चानन्तर्यकरिणस्यापि सप्तमे कर्मप्रयोगे सिध्यतीति || ततः साधकेन तां कुमारीं कृतरक्षां कृत्वा कुशविण्डकोपविष्टकां कारयेत् | पूर्वाभिमुखामुत्तराभिमुखां वा संस्थाप्य आत्मनश्च हविष्याहारः तां च कन्यां हविष्याहारं भोजयेत् | पूर्वमेव परिकल्पितं कुशविण्डकं तेनैव विधिना तं पिचुं कर्तापयेत् | तत् सूत्रं सुकर्तितं शुक्लं पूर्वशिक्षापितकन्यया संहृत्य अष्ट पञ्च त्रीणि एकं प्रभृती यावत् षोडशमात्रां पलां वा कर्षां वा सुप्रशस्तगणनमेतां कुर्यान्मध्यमे अष्टमां गाथा इतरे पञ्चैक वा क्षुद्रसाध्येषु कर्मसु यथाशक्तितः कुर्यात् सर्वकर्मिषु मन्त्रवित् || ततः प्रभृति यत् किञ्चित् पापं कर्म पुराकृतम् | नश्यते तत्क्षणादेव सूत्रार्थं च न चेतने || सङ्गृह्यमिदं सूत्रं शुचौ भाण्डे निवेशयेत् | न हि तंतुगतो कृत्वा धूपयेत् कर्पूरधूपनैः || आप्राण्याङ्गसमुत्थं वा कुङ्कुमचन्दनादिभिः | अर्चितं सुगन्धपुष्पैर्मल्लिकचम्पकादिभिः || शुचौ प्रदेशे संस्थाप्य कृतरक्षापिथानितम् | मन्त्रवित् सर्वकर्मज्ञो कृतजापः सुसमाहितः || तन्तुवायं ततो गत्वा मूल्यं दत्वा यथेप्सितम् | अव्यङ्गमकृशं चैव शुक्लधर्मसदारतम् || अव्याध्यर्तमवृद्धं च कासश्वासाविनिर्मुक्तम् | कासश्वासविनिर्मुक्तं अषण्डं योनिसत्यजम् || अनवद्यमकुब्जं चैवापङ्गुपतिवर्जितम् | समस्तलक्षणोपेतं प्रशस्तं चारुदर्शनम् || शुभबुद्धिसमाचारं लौकिकीं वृत्तिमाश्रितम् | सिद्धिकमोऽत्र तं याचेदुतमे पटवासने || ***(?) शुभवर्णे वा बुद्धि**(?) **(?)क्षितः | ***** (?) श्रेष्ठैः पटवायनश्रेयसैः || ५८, प्. ५८) उत्तमे उत्तमं कुर्यान्मध्यमे मध्यसाधनम् | इतरैः क्षुद्रकर्माणि निकृष्टान्येव सर्वतः || यथामूल्यं ततो दत्वा यथा वदति शिल्पिनः | प्रथमे वाक्समुत्थाने शिल्पिनस्य स मन्त्रवित् || दद्यात् पण्यं ततः क्षिप्रं वीरक्रयेति स उच्यते | प्रार्त्थनादेव चैतस्य पुण्यभावेन जापिने || क्षिप्रसिद्धिकरो ह्येष पटश्रेष्ठो निरुत्तरः | सर्वकर्मकरो पूज्यो दिव्यमानुष्यसौख्यदः || श्रेयसः सर्वभूतानां सम्यक् सम्बुद्धभाषितम् | इति || ततो विद्याधरेण तन्तुवायस्य पोषधं दत्त्वा सशुभे नक्षत्रे प्रातिहारकपक्षे शुक्लेऽहनि शुभग्रहनिरीक्षितेऽन्ये वा शुक्लपक्षे सुकुसुमितसहकारमञ्जरीवरतरुपुष्पाढ्यवसन्तसमये ऋतुवरे तस्मिन् काले तस्मिन् समये पूर्वाह्नोदिते सवितरि पूर्वनिर्दिष्टं तन्तुवायं हविष्याहारं शुचिवस्त्रप्रावृतबद्धोष्णीषशिरस्कसुस्नातं सुविलिप्तं श्वेतचन्दनकुङ्कुमाभ्यामन्यतरेणानुलिप्ताङ्गं कर्पूरवासितवदनं हृष्टमनसं क्षुत्पिपासापगतं कृत्वा सर्वत्र भाण्डं रज्ज्वाद्युपकरणानि च मृद्गोमयाभ्यां प्रक्षाल्य प्रत्यग्राणि च भूयो भूयो पञ्चगव्येन प्रक्षालयेत् | ततो निःप्राणकेनोदकेन प्रक्षाल्य श्वेतचन्दनकुङ्कुमाभ्यामभ्यषिञ्चेत् | शुचौ पृथिवीप्रदेशे अपगतकोलाहले विगतजनपदे विविक्तासने प्रसन्ने गुप्ते पुष्पार्चिते || ततः साधकेन संशोधनमन्त्रेणैवाष्टशताभिमन्त्रितं कृत्वा श्वेतसर्षपान् चतुर्दिक्षु इत्यूर्ध्वाधः विदिक्षु च क्षिपेत् | ततो तन्तुवायं **(?) सन्ताड्य ******(?) ****(?)शिखां बद्ध्वा शिखाबन्धं कुर्नीत | महारक्षा कृता ***************** (?) भवति चतुर्हस्तविस्तीर्णमष्टहस्तसुदीर्घं एतत्प्रमाणं हि तन्तुवायोचितं कुर्यात् | मध्यमं भवति द्विहस्तविस्तीर्णं पञ्चहस्तदीर्घत्वम् | **** (?) सुगतवितस्तिप्रमाण अङ्गुष्ठहस्तदीर्घत्वम् | ५९, प्. ५९) तत्र भगवतो बुद्धस्य वितस्तिमध्यदेशपुरुषप्रमाणहस्तमेकं एषा सुगतस्य वितस्तिरिति कीर्त्यते | अनेन प्रमाणेन प्रामाण्यमाख्यातम् | उत्तिष्ठ सिद्धिर्ज्येष्ठा तु कथिता लोकपुङ्गवैः | मध्यमे राजाकामानामन्तर्धाने परे मुनौ || महाभोगार्थिनां पुंसां त्रिदेवासुरभोगिनाम् | कन्यसे सिद्धिमाख्याता मध्यमे सिद्धिमध्यमा || क्षुद्रकर्माणि सिध्यन्ते कन्यसे तु पटे सदा | सर्वकार्याणि सिध्यन्ते सर्वद्रव्याणि वै सदा || पटत्रयेऽपि निर्दिष्टा सिद्धिः श्रेयोर्थिनां नृणाम् | विधिभ्रष्टा न सिध्येयुः शक्रस्यापि शचीपतेः || सिध्यन्ते क्षिप्रमेवं तु सर्वकर्मा न यत्नतः | विधिना च समायुक्ता इतस्यापि तृजन्मिनः || एष मार्गः समाख्यातो जिनैः जिनवरात्मजैः | श्रेयसः सर्वसत्त्वानां दरिद्रानायदुःखिनाम् || बोधिमार्गो ह्यशेषस्तु दर्शितस्तत्त्वदर्शिभिः | बोधिहेतुरयं वर्त्म मन्त्रमार्गेण दर्शितः || मन्त्राः सिध्यन्त्ययत्नेन सर्वलौकिकमण्डलाः | लोकोत्तराश्चापि सिध्यन्ते मण्डला ये उदाहृताः || बोधिहेतुमतिर्येषां तेषां सिद्धिः सदा भवेत् | नान्येषां कथ्यते सिद्धिः अहिता ये जगे सदा || बोधाय प्रस्थितां सत्त्वां सदा सिद्धिरुदाहृता | मञ्जुश्रियस्य महात्मानो कुमारस्येह विशेषतः || क्षिप्रकार्यानुसाध्यर्त्थं प्राप्नुयात् सकलादिह | अनुपूर्वं ततो शिल्पी पटं *** (?) **(?)नतः || दिवसैः ***(?)रष्टाभिः षोडशाद्विचतुष्कयोः | अहोरात्रे*******(?)प्रं समाप्तिः पट**(?)ने || ६०, प्. ६०) अहोरात्रेण वै श्रेयो उतया सिद्धिलिप्सुनाम् | शौचाचारसम्पन्नो शिल्पिनो नित्यधिष्ठिनः || दूरादावस्तथा गत्वा कुटिप्रस्रावमुत्सृजेत् | सचेलस्तु ततः स्नात्वा अन्यवासान्निवास्य च || शुक्लाम्बरधरः स्रग्मी उपस्पृश्य पुनः पुनः | श्वेतचन्दनलिप्ताङ्गो हस्तौ उद्धृष्य शिल्पिनः || भूयो वयेत यत्नेन श्लक्ष्णं सन्धोतं सदा | एवमाद्यै. प्रयोगैस्तु अन्यैर्वा जिनभाषितैः || विचारशीली यत्नेन पटस्याशेषवायना | समाप्ते तु पटे प्रोक्ते पूर्वकर्मसु निर्मिते || प्रमाणस्थे अहीने च कुर्याद् भद्रेऽहनिः समम् | अवतारयेत् ततो तन्त्रा शुक्लपक्षे सुशोभने || परिस्फुटं तु पटं कृत्वा दशा बद्धानुशोभनम् | वेणुयष्ट्यावनद्धं तु पटं गृह्य ततो व्रजेत् || शिल्पिनं स्वस्त्ययित्वा तु संविभागार्थविस्तरैः | गत्वा यथेष्टतो मन्त्री सुसमाचारसुव्रती || सुगन्धपुष्पैरभ्यर्च्य शुचौ देशे तु तं न्यसेत् | अनेनैव तु मन्त्रेण कृतरक्षापिथानितम् || येन तत् पिचुकं पूर्वं संशोध्या बहुधा पुनः | तेनैव कारयेद् रक्षामात्मनश्च पटस्य वै || मञ्जुश्रियो महावीरः मन्त्ररूपेण भाषितः | अतीतैर्बहुभिर्मन्त्रैर्मया***(?)हे पुनः पुनः || स एव सर्वमन्त्राणां **(?) मन्त्ररूपिणः | महावीर्यो महातेजः सर्वमन्त्रार्थसाधकः || करोति त्रिविधाकारां *** (?) **** (?) | जम्बुद्वीपगताः सत्त्वाः मूढन्वारचेतनाः || ६१, प्. ६१) अश्राद्धविपरीतस्तु मिथ्याचारसलोलुपाः | न साधयन्ति मन्त्राणि सर्वद्रव्याणि वै पुनः || अत एव भ्रमन्ते ते संसारान्धारचारके | यस्तु शुद्धमनसो नित्यं श्राद्धो कोतुकमङ्गले सदा || औत्सुको सर्वमन्त्रेषु नित्यं ग्रहणधारणे | सिद्धिकामा महात्मानो महोत्साहा महोजसाः || तेषां सिद्ध्यन्त्ययत्नेन मन्त्रा ये जिनभाषिताः | अश्राद्धानां तु जन्तूनां शुक्लो धर्मेण रोहते || बीजमूषरे क्षिप्तं अङ्कुरोऽफलो यथा | श्रद्धामूलं सदा धर्मे उक्तं सर्वार्थदर्शिभिः || मन्त्रसिद्धिः सदा प्रोक्ता तेषां धर्मार्थशीलिनाम् || इति || ततो साधने शिल्पिनः सुशिक्षितचित्रकरो वा आत्मनो वा कुशला लेख्याः | अश्लेशकैरङ्गैः रङ्गोपेतं वर्णकं गृह्य पूर्वेणैव विधिना यथा तन्तुवाययायनेनैव लक्षणसमन्वागतेन चित्रकरेण पेयालं विस्तरेण कर्तव्यं यथा पूर्वं तन्तुवायविधिः तेनैव तत्पटं चित्रापयितव्यम् स्वयं वा चित्रितव्यम् | कर्पूरकुङ्कुमचन्दनादिभिरङ्गं वासयितव्यम् | धूपं दहता तेनैव मन्त्रेणाष्टशतवारं परिजप्य नामकेसरपुन्नागवकुलचम्पकवापीकधानुष्कारिकमालतीकुसुमादिभिः तं पटमभ्यवकीर्य पूर्वाभिमुखः कुशविण्डकोपविष्टः स्वस्थबुद्धिः सर्वबुद्धबोधिसत्त्वगतचित्तः सूक्ष्मवर्तिप्रतिगृहीतपाणिरनायासचित्तः तं पटगालिखेत् || आदौ तावच्छाक्यमुनिं तथागतमालिखेत् | सर्वाकारवरोपेतं द्वात्रिंशन्महापुरुषलक्षणलक्षित अशीत्यानुव्यञ्जनोपशोभितशरीरं रत्नप******(?) समन्तज्वालं समन्तजपोपशोभितं मूर्तिं धर्मं देशययानं प्रसन्नमूर्त्तिं सर्वाकारवरोपेतं ***(?) वैदूर्यनालपद्मं अधश्च महासारं द्वौ नागराजानौ तं पद्मनालं धारययानौ तथागतदृष्टयो दक्षिणहस्तेन ६२, प्. ६२) नमस्यमानौ शुक्लौ सर्वालङ्कारभूषितौ मनुष्याकारार्द्धसर्पदेहनन्दोपनन्दौ लेखनीयौ | समन्ताच्च तत् पद्मशरं पद्मपत्रपुष्पकुड्मलविकसितजलजप्राणिभिश्च शकुनमीनादिभिर्व्याप्तं अशेषविन्यस्तसुचिरसुशोभनाकारमभिलेख्यम् | यद् भगवतो मूलपद्मदण्डं विटपं तत्रैव विनिसृतान्यनेकानि पद्मपुष्पाणि अनुपूर्वोन्नतानि वामपार्श्वेऽष्टौ पद्मपुष्पाणि | तेषु च पद्मेषु निषण्णानि अष्टौ महाबोधिसत्त्वविग्रहामभिलेख्याः | प्रथमं तावदार्यमञ्जुश्रीः इषत्पद्मकिञ्जल्कगौरः कुङ्कुमकनकवर्णो वा कुमाराकारावालदारकरूपी पञ्चचीरकशिरस्कः कुमारालङ्कारालङ्कृतः वामहस्तनीलोत्पलगृहीतः दक्षिणहस्तेन तथागतं नमस्यमानः चारुमूर्त्तिस्तथागतगतदृष्टिः सौम्याकारः ईषत्प्रहसितवदनः समन्तज्वालावबुद्धमण्डलपर्येषः | अपरस्मिं पद्मे आर्यचन्द्रप्रभः कुमारभूतः तथैवमभिलेख्यः | तृतीये सुधनः चतुर्थे सर्वनीवरणः पञ्चमे गगनगञ्जः षष्ठे क्षितिगर्भः सप्तमेऽनघः अष्टमे सुलोचनमिति || एते सर्वे कुमारदारकाकारा आभिलेख्याः | कुमारालङ्कारभूषिताः दक्षिणपार्श्वे भगवत अष्टौ महाबोधिसत्त्वाः सर्वालङ्कारभूषिताः वर्जयित्वा तु मैत्रेयं भगवतः समीपे आर्यमैत्रेयः ब्रह्मचारिवेषधारी जटामकुटावबद्धशिरस्कः कनकवर्णः रक्तकषायधारी रक्तपटांशुकोत्तरीयः तृपुण्ड्रककृतचिह्नः कायरूपी दण्डकमण्डलुवामविन्यस्तपाणिः कृष्णसारचर्म वामस्कन्धावक्षिप्तदक्षिणहस्तगृहीताक्षसूत्रः तथागतं नमस्यमानः तद्गतदृष्टिः ध्यानालम्बनगतचित्तचरितः || द्वितीयस्मिं पद्मे समन्तभद्रः प्रियङ्गुवर्णश्यामः सर्वालङ्कारशरीरः वामहस्ते चिन्तामणिरत्नविन्यस्तः दक्षिणहस्ते श्रीफलविन्यस्तहस्तवरदः चारुरूपी तथैवमभिलिखितव्यम् || तृतीये आर्यावलोकितेश्वरः शरत्काण्डगौरः सर्वालङ्कारभूषितः जटामकुटधारी श्वेतयज्ञोपवीतः सर्वज्ञशिरसीकृत आर्यामिताभ दशबलजटान्तोपलग्नोपविष्टं चारुरूपं चामरहस्तारविन्दविन्यस्तं दक्षिणहस्तेन वरदं ध्यानाल****(?)तचि**(?)रितं समन्तद्योतितशरीरम् || चतुर्थे आर्यवज्र******************* (?) कनकवर्णं सर्वा************(?) दक्षिणहस्तोपरुद्धसफलं वरदं च ***** (?) सौम्यदर्शनं ६३, प्. ६३) हारार्द्धहारोपगुण्ठितदेहं मुक्ताहारयज्ञोपवीतं रत्नोज्ज्वलविच्छुरितप्रकुटं पट्टचलननिवस्तं श्वेतपट्टांशुकोत्तरीयं तथैवार्यावलोकितेश्वरं समन्तभद्रं तीर्थनिवासनोत्तरासङ्गदेहं आकारनश्च यथापूर्वनिर्दिष्टम् || पञ्चमस्मिं तथा पद्मे आर्यमहामतिः षष्ठे शान्तमतिः सप्तमे वैरोचनगर्भः अष्टमे अपायजहश्चेति || इत्येते बोधिसत्त्वा अभिलेख्याः | फलपुस्तकविन्यस्तकपाणयः सर्वालङ्कारसुशोभनाः पट्टांशुकोत्तरीयाः सर्वालङ्कारभूषिताः पट्टचलनिकानिवस्ताः || तेषां चोपरिष्टा अष्टौ प्रत्येकबुद्धा अभिलेख्याः | भिक्षुवेषधारिणो महापुरुषलक्षणशरीराः रक्तकाषायवाससा पर्यङ्कोपविष्टा रत्नोपलनिषण्णाः शान्तवेषात्मकाः समन्तज्वालमालाकुलाः सुगन्धपुष्पाणि कीर्णाः | तद्यथा - मालतीवार्षिकाधानुष्कारिकापुन्नागनागकेसरादिभिः पुष्पैः समन्तात् पटमभ्यवकीर्यमाणं लिखितं भगवतः शाक्यमुनेः वामपार्श्वे आर्यमञ्जुश्रियस्योपरिष्टाः अनेकरत्नोपरचितं सुदीर्घाकारं विमानमण्डलं शैलराजोपशोभितं रत्नोपलसञ्छन्नपर्वताकारमभिलिखेत् || तत्रस्थां बुद्धां भगवतां अष्टौ लिखेत् | तद्यथा - रत्नशिखिवैदूर्यप्रभारत्नविच्छुरितसमन्तव्यामप्रभं पद्मरागेन्द्रनीलमरकतादिभिः वैदूर्याश्मगर्भादिभिः महामणिरत्नविशेषैः समन्ततो प्रज्वाल्यमाणं ईषदादित्योदयवर्णं तथागतविग्रहं पीतचीवरोत्तरासङ्गिनं पर्यङ्कोपविष्टं धर्मं देशयमानं पीतनिवासितोपरिवस्तं महापुरुषलक्षणकवचितदेहं अशीत्यानुव्यञ्जनोपशोभितमूर्त्तिं प्रशान्तदर्शनं सर्वाकारवरोपेतं रत्नशिखिं तथागतमभिलिखेत् || द्वितीयं सङ्कुसुमितराजेन्द्रं तथागतं कनकवर्णं अभिलिखेत् सुतरां नागकेसरवकुलादिपुष्पैरभ्यवकीरितमभिलिखे | आर्यमभिनिरीक्षमाणं ***(?)प्रभं रत्नप्रभा**(?)छुरितद्योतिपर्येषम् || तृतीयं शालेन्द्रराजं तथा**(?)भिलिखेत् | पद्मकिञ्जल्काभ धर्मं देशयमानम् || ६४, प्. ६४) चतुर्थं सुनेत्रं तथागतमभिलिखेत् | यथेमं दुःप्रसहम् | षष्ठं वैरोचनं जिनम् | सप्तमं भैषज्यवैदूर्यराजम् | अष्टमं सर्वदुःखप्रशमनं राजेन्द्रं तथागतमभिलिखेदिति || सर्व एव कनकवर्णाः तथागतविग्रहाः कार्याः अभयप्रदानकराः | उपरिष्टाच्च तथागतानां मेघान्तरालस्थाः पटकोणे उभयतः पुष्पवर्षमुत्सृजमानाः द्वौ शुद्धावासकायिकौ देवपुत्रौ मभिलेख्यौ | अन्तरीक्षस्थितौ सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकानां नमस्यमानौ अभिलेख्यौ || प्रत्येकबुद्धानां चोत्तरतः अष्टौ महाश्रावका अभिलेख्याः बोधिसत्त्वशिरःस्थानाववरजोपविष्टाः | तद्यथा - स्थविरशारिपुत्रः महामौद्गल्यायनः महाकाश्यपः सुभूतिः राहुलः नन्दः भद्रिकः कफिणश्चेति || प्रत्येकबुद्धापि तद्यथा - गन्धमान्दनः चन्दनः उपरिष्टश्वेतसितकेतुनेमिसुनेमिश्चेति | सर्व एव सुशोभनाः शान्तवेषं आत्मनो सुदान्ताकाराः | महाश्रावका अपि कृताञ्जलयो बुद्धं भगवन्तं शाक्यमुनिं निरीक्षमाणाः | उपरिष्टाच्च शुद्धावासादेव सन्निकृष्टौ अपरौ द्वौ देवपुत्रौ समन्तात्पट्टवितानदीर्घापायशसोभनागृहीतौ सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणामुपरिष्टाद्धारयमाणौ दिव्यमाल्याम्बरधरौ देवपुत्रौ अभिलेख्यौ | भगवतः शाक्यमुनेः उपरिष्टान्मूर्धनि मुक्ताहाररत्नपद्मरागेन्द्रनीलादिभिः ग्रथितं रत्नसूत्रकलापं तस्मिंश्च पट्टवितानसुविन्यस्तं समन्ताच्च मुक्ताहारप्रलम्बोपशोभितमभिलिखेत् | अधश्च बुद्धस्य भगवतः पद्मासनात् आर्यमञ्जुश्रियस्य पादमूलसमीपे नागराजोपनन्दपार्श्वे महारत्नं पर्वतं पद्मशरादभ्युन्नतं रत्नाङ्कुरगुहाकन्दरप्रवाललतापरिवेष्टितं रत्नतरुं महर्षयसिद्धसेवितं तस्य पर्वतस्योत्तुङ्गे यमान्तकं क्रोधराजानं महाघोररूपिणं पाशहस्तं वामहस्तगृहीतदण्डं भृकुटिवदनमाज्ञां प्रतीच्छमानः आर्यमञ्जुश्रियमनदृष्टिं वृकोदरं ऊर्ध्वकेशं भिन्नाञ्जनकृष्णमेधसङ्काशं कपिल****(?)दीर्घकरालं दीर्घनखं र**********(?) सर्पमण्डितकण्ठोद्देशं व्याघ्रचर्मनिवसनं सर्वविघ्नघातकः महादारुणवरं महाक्रोधराजानं समन्तज्वालं यमान्तकं क्रोधराजा अभिलिखेत् || ६५, प्. ६५) तस्य पर्वतस्याधस्ताच्छिलातलोपनिषण्णं पृथिव्यामवातजानुदेहं धूपकटच्छुकव्यग्रहस्तं यथावेषसंस्थानगृहीतलिङ्गं यथानुवृत्तचरितमार्यमञ्जुश्रियगतदृष्टिं साधकमभिलिखे | नन्दनागेन्द्रराजसमीपं भगवतः शाक्यमुनेरधस्तात् दक्षिणपार्श्वे | यमान्तकक्रोधराजरहितं दिव्यपुष्पावकीर्णमभिलिखेत् | आर्यावलोकितेश्वरः स्यात् तं पर्वतमभिलिखेत् | तदुच्चतुङ्गपर्वतपद्मरागोपलं तमेकाङ्कुरवैदूर्यमयशृङ्गाकारमभिलिखेत् | तत्रापाश्रितां देवीमार्यावलोकितेश्वरकरुणां आर्यतारां सर्वालङ्कारविभूषितां रत्नपट्टांशुकोत्तरीयां विचित्रपट्टनिवसनां स्त्र्यलङ्कारसर्वाङ्गविभूषितां वामहस्तनीलोत्पलविन्यस्तां कनकवर्णां कृशोदरीं नातिकृशां नातिवालां नातिवृद्धां ध्यानगतचेतनां आज्ञां प्रतीच्छयन्ती दक्षिणहस्तेन वरदादीपिदवनतकायां पर्यङ्कोपनिषण्णां आर्यावलोकितेश्वर ईषदपगतदृष्टिः समन्तज्वालामालपर्येषितां तत्रैव वैदूर्यरत्नशृङ्गे पुन्नागवृक्षपरिवेष्टितं सर्वतः शाखासु समन्तपुष्पोपरचितविकसितसुपुष्पितं भगवतीं तारामभिच्छादयमानां तेनैव चापगतशाखासुचित्रं प्रवालाङ्कुरावनद्धं विचित्ररूपरङ्गोज्ज्वलं तारादेवीमुखावलोकनमभिलेख्या || सर्वविघ्नघातकी देवी उत्तमा भयनाशिनी | साधकस्य तु रक्षार्थं लिखेद् वरदां शुभाम् || स्त्रीरूपधारिणी देवी करुणादशवलात्मजा | श्रेयसः सर्वभूतानां लिखेत वरदायिकाम् || कुमारस्येह माता देवी मञ्जुघोषस्य महाद्युतेः | सर्वविघ्नविनाशार्थं साधकस्य तु समन्ताद् || रक्षार्थं मनुजेशानां श्रेयसार्थं पटे न्यसेत् | योऽसौ **(?)धराजेन्द्रः पर्वताशे सप्तवस्थितः || सर्वविघ्ना***(?)य कथितं *****(?)जैः | महाघोरो महाबन्धो महाचण्डो **** (?) || ६६, प्. ६६) शासने द्विष्टसत्त्वानां नि*(?)हायैव प्रकल्पते | साधकस्य तु रक्षार्थं सर्वविघ्नविनाशकः || दारुणो रोपशीलन आकृष्टा मन्त्रदेवता | सुघोरो घोररूपी च निषेद्धा सर्वनिर्घृणाम् || अवशानां च वशमानेता पापरौद्रप्रचारिणाम् | खचरे भूचरे वापि पाताले चापि समन्ततः || नाशयति सर्वदुष्टानां विरुद्धा ये शासने मुने | चतुरश्रं समन्ताद्वै चतुःकोणं पटं लिखेत् || अधश्चैव पटान्ते तु विस्तीर्णसरितालयम् | कुर्यान्नागभोगाङ्कमैकैकं च समन्ततः || शुक्लेन शुभाङ्गेन मनुजाकारदेहजाः | उत्तराशिरां स्थाप्य कृताञलिपुटः सदाः || सप्तस्फुटो महावीर्यो महेशाख्यो अनन्तो नाम नामतः | तथागतं निरीक्षन्तो मणिरत्नोपशोभितः || सुशोभनो चारुरूपी च रत्नाभरणभूषितः | आलिखेज्ज्वालमालिनं महानागेन्द्रविश्रुतम् || सर्वलोकहितोद्युक्तं प्रवृत्तो शासने मुने | सर्वविघ्नविनाशाय आलिखेत् सरिताशृतम् || एतत् पटविधानं तु उत्तमं जिनभाषितम् | संक्षिप्तविस्तराख्यातं पूर्वमुक्तं तथागतैः || आलिखे यो हि विद्वां वै तस्य पुण्यमनन्तकम् | यत् कृतं कल्पकोटीभिः पापं कर्म सुदारुणम् || नश्यते तत्क्षणादेव पटं दृष्ट्वा तु भूतले | पञ्चानन्तर्यकारिणं सुशीलां मनुप्सितम् || * * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * * वारयेत् (?) || ६७, प्. ६७) दर्शनं सफलं तेषां पटं मौनीन्द्रभाषितम् | दृष्टमात्रं प्रमुच्यन्ते तस्मात् पापात्तु तत्क्षणात् || किं पुनः शुद्धवृत्तित्वात् सुशुद्धवृत्तोरूपिणः | मन्त्रसिद्धौ सदोद्युक्तोः सिद्धिं लप्सेयुर्मानवः || यत् पुण्यं सर्वसत्त्वानां पूजयित्वा कल्पकोटि ये | तत् पुण्यं प्राप्नुयान्मन्त्री पटमालिखनाद् भुवि || सिकता यानि गङ्गायाः प्रमाणे यानि कीर्त्तिता | तत्प्रमाणा भवेद् बुद्धाः प्रत्येकजिनवरात्मजाः || खड्गिनः साधका लोके जित्वा बहुधा पुनः | तत् फलं प्राप्नुयान्मर्त्ये पटलिखनदर्शना || वाचनादेव कायेस्य पूजना वाप्यनुमोदना | मन्त्रसिद्धिर्द्रुवा तस्य सर्वकर्मे प्रकल्पिताः || यावन्ति लौकिका मन्त्राः भाषिता ये जिनपुङ्गवैः | तच्छिष्यखड्गिभिर्दिव्यैः बोधिसत्त्वैर्महात्मभिः || सिद्ध्यन्ते सर्वमन्त्रा वै पटस्याग्र तु मग्रतमिति || बोधिसत्त्वपिटकावतंसकान्महायानसूत्रान्मञ्जुश्रीमूलकल्पाच्चतुर्थः | प्रथमपटविधानविसरः परिसमाप्तः || ६८, प्. ६८) पञ्चमः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः सर्वं तत्पर्षन्मण्डलमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयेत स्म | अस्ति मञ्जुश्रीः अपरमपि त्वदीयं मध्यमं पटविधानम् | तद् भाषिष्येऽहम् | शृणु साधु च सुष्ठु च मनसि कुरु || आदौ तावत् पूर्वनिर्दिष्टेनैव सूत्रकेण पूर्वोक्तेनैव विधिना पूर्वपरिकल्पितैः शिल्पिभिः पूर्वप्रमाणैव मध्यमपटः सुशोभनेन शुक्लेन सुव्रतेन सदशेन अश्लेषकैरङ्गैरपगतकेशसङ्कारादिभिर्यथैव प्रथमं तथैव तत् कुर्यात् वर्जयित्वा तु प्रमाणरूपकात् तत्पटं पश्चादभिलिखापयितव्यम् || आदौ तावत् शुद्धावासभवनं समन्तशोभनाकारं स्फुटितरत्नमयाकारं सितमुक्ताहारभूषितं तस्मिं मध्ये भगवांश्छाक्यमुनिः चित्रापयितव्यः रत्नसिंहासनोपनिषण्णः धर्मं देशयमानः सर्वाकारवरोपेतः दक्षिणपार्श्वे आर्यमञ्जुश्रीः पद्मकिञ्जल्काभः कुङ्कुमादित्यवर्णो वा वामस्कन्धप्रदेशे नीलोत्पलावसक्तः कृताञ्जलिपुटः भगवन्तं शाक्यमुनिं निरीक्षमाणः ईषत्प्रहसितवदनः कुमाररूपी पञ्चचीरकोपशोभितशिरस्कः बालदारकालङ्कारभूषितः दक्षिणजानुमण्डलावनतशिरः भगवतश्च शाक्यमुनेर्वामपार्श्वे आर्यावलोकितेश्वरः शरत्काण्डगौरो यथैव पूर्वं तथैवमभिलेख्यम् | किन्तु भगवतश्चामरमुद्धूयमानं तस्य पार्श्वे आर्यमैत्रेयं समन्तभद्रः वज्रपाणिर्महामतिः शान्तमति गगनगञ्जः सर्वनीवरणविष्कम्भिनश्चेति | एतेऽनुपूर्वतोऽभिलेख्याः | यथैव प्रथमं तथैव सर्वालङ्कारभूषिताः चित्रापयितव्याः || तेषां चोपरिष्टा अष्टौ बुद्धा भगवन्तश्चित्रापयित्र्याः स्थितका अभयप्रदानदक्षिणकराः पीतचीवरोत्तरासङ्गीकृतदेहाः वामहस्तेन चीवरकर्मकावसक्ता ईषद्रक्ताम****(?)नायसुनिवस्ताः समन्तप्रभाः सर्वाकारवरोपेताः | तद्यथा ****(?)ङ्कुसुमितराजेन्द्रस्तथागतः रत्न***(?) शिखिः विश्वभुक् क्रकुत्सन्द*(?)कग्रनिः काश्यपः सुनेत्रश्चेति | इत्येते शुद्धा भगवन्तश्चित्रापयितव्या || ६९, प्. ६९) दक्षिणे पार्श्वे भगवत आर्यमञ्जुश्रियस्य समीपे महापर्षन्मण्डलं चित्रापयितव्यम् | अष्टौ महाश्रावकाः अष्टौ प्रत्येकबुद्धाः यथैव पूर्वं तथैव ते चित्रापयितव्याः | किन्तु आर्यमहामौद्गल्यायनशारिपुत्रौ भगवतः शाक्यमुने चामरमुद्धूयमानौ स्थितकायमभिलेख्यौ | एवं शुद्धावासकायिका देवपुत्रा अभिलेख्याः | शक्रश्च देवानामिन्द्रः सयामश्च सन्तुषितश्च सुनिर्मितश्च शुद्धश्च विमलश्च सुदृशश्च अतपश्च आभास्वरश्च ब्रह्मा च सहाम्पतिः अकनिष्ठश्च एवमादयो देवपुत्रा रूपावचराः कामावचराश्चानुपूर्वतोऽभिलेख्याः आर्यमञ्जुश्रियसमीपस्थाः पर्षन्मण्डलोपरिचितविन्यस्ताः स्वरूपवेषधारिणो चित्रापयितव्याः | भगवतः सिंहासनस्याधस्तात्समन्तान्महापर्वतः महासमुद्राभ्युद्गतं यावत् पटान्ते चित्रापयितव्यः | एकस्मिन् पटान्तकोणे साधको यथावेषसंस्थानाकारः अवनतजानुकौर्परशिरः धूपकटच्छुकव्यग्रहस्तः चित्रापयितव्यः | तस्मिंश्च रत्नपर्वते आर्यमञ्जुश्रियस्याधस्तात् यमान्तकक्रोधराजा यथापूर्वनिर्दिष्टमभिलेख्यम् | वामपार्श्वे भगवतः सिंहासनस्याधस्ताद् आर्यावलोकितेश्वरपादमूलसमीपे तस्मिंश्च रत्नपर्वतोपनिषण्णा तारादेवी अभिलेख्याः | यथा पूर्वनिर्दिष्टा तथा चित्रापयितव्याः | समन्ताश्च तत्पटं मुक्तपुष्पावकीर्णं चम्पकनीलोत्पलसौगन्धिकमालतीवर्षिकधानुष्कारीकपुन्नागकेसरादिभिः पुष्पैरभ्यवकीर्णं समन्तात् पटम् | उपरिष्टाच्च पटान्तकोणे उभयान्ते द्वौ देवपुत्रौ महापुष्पौघमुत्सृजमानौ विचित्ररूपधारिणौ अन्तरीक्षस्थितौ वारिमेघान्तर्गतनिलीनौ उत्पतमानौ सितवर्णौ अभिलेख्याविति || एतन्मध्यमकं प्रोक्तं पटं श्रेयार्थमुद्भवम् | मध्यसिद्धिस्तदायत्ता मनुजानां तु भूतले || यत्किञ्चित् कृतं पापं संसारे संसरतो पुरा | नश्यते तत्क्षणादेव पटं दर्शनादिह || मूडसत्त्वा न जानन्ति भ्रमन्ता मतिपञ्चके | पटस्या दर्शना ये तु मञ्जुघोषस्य मध्यमे || ७०, प्. ७०) अपि किल्विषकारी स्यात् पञ्चानन्तर्यकारिणः | दुःशीलस्यापि सिध्येयुर्मन्त्रा विविधभाषिताः || अपि क्षिप्रतरं सिद्धि प्राप्नुयात् कृतजापिनः | रोगी मुच्यते रोगाद् दरिद्रो लभते धनम् || अपुत्रो लभते पुत्रं मध्यमे पटदर्शने | दृष्टमात्रं तदा पुण्यं प्राप्नुयाद् विपुलं महत् || नियतं देवमनुष्याणं सौख्यभागी भवेन्नरः | बुद्धत्वं नियतं तस्य जन्मान्ते च भविष्यति || लिखना वाचनाच्चैव पूजजलेखना तथा | दर्शना स्पर्शनाच्चैव मुच्यते सर्वकिल्विषात् || प्रार्थनाध्येषणा ह्येवं पटस्यास्य महाद्युतेः | लभते सफलं जन्मां क्षिप्रं चानुमोदना || न शक्यं वाचया वक्तुमपि कल्पाग्रकोटिभिः | यत् पुण्यं प्राप्नुया जन्तु सफलं पटदर्शनादिति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् पञ्चमः पटलविसरः | द्वितीयः पटविधानविसरः समाप्तः || ७१, प्. ७१) षष्ठः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः अपरमपि पटविधानरहस्यं तृतीयं कन्यसं नाम | यः सर्वसत्त्वानामयत्नेनैव सिद्धिं गच्छेयुः | पूर्वनिर्दिष्टेनैव विधिना शिल्पिभिः सुगतवितस्तिप्रमाणं तिर्यक् तथैव समं चतुरश्रं पूर्ववत् पटश्रित्रापयितव्यः पूर्वनिर्दिष्टैरङ्गैः || आदौ तावदार्यमञ्जुश्रीः सिंहासनोपनिषण्णः बालदारकरूपी पूर्ववत् धर्मं देशयमानः समन्तप्रभा अर्चिषो निर्गच्छमानश्चारुरूपी चित्रापयितव्यः || वामपार्श्वे आर्यसमन्तभद्रः रत्नोपलस्थितः चमरव्यग्रहस्तः चिन्तामणिवामविन्यस्तकरः प्रियङ्गुश्यामवर्णः पूर्ववच्चित्रापयितव्यः || दक्षिणपार्श्वे आर्यमञ्जुश्रियस्य रत्नोपलस्थितः आर्यावलोकितेश्वरः पूर्ववत् | चमरव्यग्रहस्तः वामहस्तारविन्दविन्यस्तः समन्तद्योतितमूर्तिरभिलेख्यः || अधश्च सिंहासनात् कनकवर्णः पर्वतो यावत् पटान्ते चित्रापयितव्यः | पटान्तकोणस्य आर्यमञ्जुश्रियस्य सिंहासनस्याधस्ताद् दक्षिणपार्श्वे यमान्तकः क्रोधराजा पूर्ववच्चित्रापयितव्यः | धूपकटच्छुकव्यग्रहस्तः यथापूर्वं तथैव साधकः | उपरिष्टादार्यमञ्जुश्रियस्य सङ्कुसुमितराजेन्द्रस्तथागतचित्रापयितव्यः षोडशाङ्गुलप्रमाणः रत्नपर्वतगुहालीनः | कूटागारसदृशाः प्राग्भारपर्वताः दश चित्रापयितव्याः | समन्ताच्च तत्पटं पर्वताकारवेष्टितं लिखेत् | उपरिष्टाच्च षटकोणावस्थितौ पर्वतप्राग्भारसंश्लिष्टौ उत्पतमानविमानपुष्पौघमुत्सृजमानौ शुद्धावासकायिकौ देवपुत्रौ शुद्धश्च नाम विशुद्धश्च नाम पूर्ववच्चित्रापयितव्यौ || नानापुष्पाभिकीर्णं च तत् पटमभिलिखापयितव्यमिति || एतत् कथितं सर्वं त्रिविधं पटलक्षणम् | ***(?)सं नामतोमेतत् पटः श्रेयो शूद्रकर्मसु || *(?)कृतं कारितं *(?)पि पापं **(?)म्लदारुणम् | **(?)कोटिसहस्रा*****(?)त् पटमुच्यते || ७२, प्. ७२) पटं तु दृष्टमात्रं वै तत्क्षणादेव मुच्यते | बुद्धकोटीसहस्राणि सत्कुर्याद् यो हि बुद्धिमां || कन्यसं तु पटं दृष्ट्वा कला नायाति षोडशीम् | यत् पुण्यं सर्वबुद्धानां पूजा कृत्वा तु तापिनाम् || तत् पुण्यं प्राप्नुयाद् विद्वां कन्यसे पटदर्शने | शोभनानि च कर्माणि भोगहेतोः इहाचरेत् || यावन्ति केचन मन्त्रा ब्रह्मेन्द्रऋषिभाषिताः | वैनतेयेन तु प्रोक्ताः वरुणादित्यकुबेरयोः || धनाद्यैः राक्षसैः सर्वैर्दानवेन्द्रैर्महोरगैः | सोमवायुयमाद्यैश्च भाषिता हरिहरादिभिः || सर्वे मन्त्रा इहानीताः सिध्यन्ते पटमग्रतः | शान्तिकानि सदा कुर्यात् पौष्टिकानि तथा इह || दारुणानि च वर्जीत गर्हिता जिनवरैस्त्विहेति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् मञ्जुश्रीमूलकल्पात् षष्ठः पटलविसरः | तृतीयः कन्यसपटविधानः परिसमाप्त इति || ७३, प्. ७३) सप्तमः पटलविसरः | अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य भगवतश्चरणयोर्निपत्य बह्गवन्तमेवमाह - साधु साधु भगवता यस्तथागतेनार्हता सम्यक् सम्बुद्धेन सुभाषितोऽयं धर्मपर्यायः सर्वविद्याव्रतचारिणामर्थाय हिताय सुखाय लोकानुकम्पायै बोधिसत्त्वानामुपायकौशल्यता दर्शिता निर्वाणोपरिगामिनी वर्त्मोपविशेषा नियतं बोधिपरायणा सन्ततिर्बोधिसत्त्वानां सर्वमन्त्रार्थचर्यासाधनीयमेतन्मन्त्ररहस्यसर्वजनविस्तारणकरी भविष्यत्यनागतेऽध्वनि निर्वृते लोकगुरौ अस्तमिते तथागतादित्यं वंशे रिञ्चिते सर्वबुद्धक्षेत्रे सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः अन्धकारीभूते लोकभाजने विच्छिन्ने आर्यमार्गे सर्वविद्यामन्त्रोपधिमणिरत्नोपगते साधुजनपरिहीणे निरालोके सत्त्वधातौ सत्त्वा भविष्यन्ति कुसीदा नष्टस्पृहतया अश्राद्धाः खण्डका अकल्याणमित्रपरिगृहीताः शठाः मायाविनो धूर्तचरिताः | ते इमं धर्मपर्यायं श्रुत्वा च सत्रासमापत्स्यन्ते | आलस्यकौसीद्याभिरता न श्रद्धास्यन्ति कामगवेषिणो न पतीष्यन्ति मिथ्यादृष्टिरताः | ते बहु अपुण्यं प्रसविष्यन्ति सद्धर्मप्रतिक्षेपकाः अवीचिपरायणाः घोराद् घोरतरं गताः | तेषां दुःखितानामर्थाय अवशानां वशमानेता वश्यानां भयप्रदाय उपायकौशल्यसङ्ग्रहया मन्त्रपटविधानं भाषतु भगवां | यस्येदानीं कालं मन्यसे || अथ भगवांच्छाक्यमुनिः मञ्जुश्रियं कुमारभूतं साधुकारमदात् | साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे | अस्ति मञ्जुश्रीः ! त्वदीयं परमं गुह्यतमं विद्याव्रतसाधनचर्यापटलपटविधानविसरं परमहृदयानामर्थं परमं गुह्यतमं महार्थं निधानभूतं सर्वमन्त्राणां षडेते षडाक्षरपरमहृदयाः अविकल्पतो तस्मिं काले सिद्धिं गच्छन्ति | तेषां सत्त्वानां दमनाय उपायकौशल्यसम्भाररामन्त्रप्रदेशनताय नियतं सम्बोधिप्रापणताया षट्**(?)तिबुद्धकोटिभिः पूर्वभाषितमहमप्येतर्हि इदानीं भाषिष्ये | अनाग*(?)जनतापेक्षाय तं शृणु साधु च सुष्ठु च मनसि कुरु | भाषिष्येऽहं ते | कतमं च तत् || ७४, प्. ७४) अथ खलु भगवां शाक्यमुनिर्मन्त्रं भाषते स्म | ओं वाक्यार्थे जय ओं वाक्यशेषे स्व | ओं वाक्येयनयः | ओं वाक्यनिष्ठेयः | ओं वाक्येयनमः | ओं वाक्येदनमः | इत्येते मञ्जुश्रीः ! त्वदीयषड्मन्त्राः षडक्षराः महाप्रभावाः तुल्यसमवीर्याः परमहृदयाः परमसिद्धाः बुद्धमिवोत्पन्नाः सर्वसत्त्वानामर्थाय सर्वबुद्धैः सम्प्रभाषिताः समयग्रस्ताः सम्प्रचलिताः सर्वकर्मिकाः बोधिमार्गानुदेशकाः तथागतकुले मन्त्रप्रवराः उत्तममध्यगेतरतृधासम्प्रयुक्ताः सुशोभनं कर्मफलविशकप्रदाः शासनान्तर्धानकालसमयसिद्धिं यास्यन्ति | समवशरणं राद्धर्मनेत्रारक्षणार्थं ये साधयिष्यन्ति तेषां मूल्यप्रयोगेणैव महाराज्यमहाभोगैश्वर्यार्थं ते साधयिष्यन्ति | तेषां क्षिप्रतरं तस्मिं काले तस्मिं समये सिद्धिं यास्यन्ति | अन्ततो जिज्ञासनहेतोरपि साधनीया ह्येते परमहृदयाः संक्षेपतः यथा यथा प्रयुज्यन्ते तथा तथा सिद्धिं यास्यन्ति समासतः | एषां पटविधानं भवति तस्मिं काले तस्मिं समये महाभैरवे पञ्चकषाये सत्त्वा अल्पपुण्या भविष्यन्ति | अल्पेशाख्याः अल्पजीविनः अल्पभोगाः मन्दवीर्या न शक्यन्ते अतिविस्तरतरं पटविधानादीनि कर्माणि प्रारभन्तुम् | तेषामर्थाय भाषिष्ये संक्षिप्ततरम् || आदौ तावद् विक्रयेण सूत्रकं क्रीत्वा पलमात्रमर्धपलमात्रं वा हस्तमात्रं दीर्घत्वेन अर्धहस्तमात्रं तिर्यक्कर्पटं सदशं तन्तुवायेन वाययितव्यम् | उपगतकेशमन्यं वा नवं कर्पटखण्डं प्रत्यग्रमत ऊर्ध्वं यथेप्सतः द्विहस्तचतुर्हस्तं वा षट् पञ्च दश चाष्टं वा सुशुक्लं गृह्य यथेप्सतः चित्रकरेण चित्रापयितव्यम् | अश्लेषकैरङ्गैः चन्दनकर्पूरकुङ्कुमसितैः पटं चन्दनकुङ्कुमकर्पूरं चैकीकृत्य निष्प्राणकेनोदके निःकलुषेनालोड्य नवे भाण्डे पटं प्लावयित्वा दिवसत्रयं सुषिधानं पथितं स्थापयेत् | कृतरक्षां शुचौ देशे आत्मनः शुचिर्भूत्वा शुक्लपक्षे पूर्णमास्यां षटभाण्डस्याग्रतः पूर्वा****(?) कुश*(?)ण्डिकोपविष्टः इमे मन्त्रपदाः अष्टशतवारमुच्चारयितव्याः | तद्यथा - ओं हे हे भगवं बहुरूपधरः दिव्यचक्षुषे अवलोकय अवलोकय *(?) समयमनुस्मर कुमाररूपधारिणे ७५, प्. ७५) महाबोधिसत्त्व ! किं चिरायसि | हूं हूं फट् फट् स्वाहा | अनेन मन्त्रेण कृतजापः तत्रैव स्वपेत् | स्वप्ने कथयति सिद्धिरसिद्धिं वा || ततोत्थाय अविलम्बितसिद्धिनिमित्तं स्वप्नं दृष्ट्वा तं पटं लिखापयेत् न चेदसिद्धिनिमित्तानि स्वप्नानि दृश्यन्ते | तत् पटं तस्माद् भाण्डादुद्धृत्य आतपे शोषयेत् | शोषयित्वा च भूयः अन्ये नवे भाण्डे न्यसेत् | सगुप्तं च कृतरक्षं च स्थापयेत् | ततो भूयो तेषां परमहृदयाना अन्यतमं मन्त्रं गृहीत्वा यथेष्टतः षडक्षराणां भूयो अक्षरलक्षं जपेत् | ततो आशु तत्पटं सिध्यतीति || आदौ तावत् तं पटं गृह्य प्रातिहारकपक्षे अन्ये वा शुक्लेऽहनि शुभनक्षत्रसंयुक्ते शुभायां तिथौ शुक्लपक्ष्दिवसे वा सुशोभनैः शकुनैः मङ्गलसम्मतायां रात्रौ अर्धरात्रकालसमये उपोषधिकेन चित्रकरेण तं पटं चित्रापयेत् शुचौ प्रदेशे कर्पूरधूपं दहता || आदौ तावदार्यमञ्जुश्रियं बालदारकाकारं पञ्चचीरकशिरस्कं बालालङ्कारभूषितं कनकवर्णं नीलपट्टचलनिकानिवसितं नीलपट्टांशुकोत्तरीयं धर्मं देशयमानं सिंहासने अर्धपर्यङ्कोपविष्टदक्षिणचरणं रत्नपादपीठस्थं स्थापितसिंहासनोपविष्टं सर्वालङ्कारोपेतं चारुदर्शनं ईषस्मितमुखं साधकगतदृष्टिं चित्रापयेत् || दक्षिणे पार्श्वे आर्यसमन्तभद्रं सितचामङ्गोद्धूयमानं प्रियङ्गुश्यामं वामहस्तचिन्तामणिविन्यस्तं सर्वाङ्गशोभनं सर्वालङ्कारभूषितं नीलपट्टचलनिकानिवस्तं मुक्ताहारयज्ञोपवीतं सिकतं श्वेतपद्मासनस्थं चित्रापयितव्यम् || आर्यमञ्जुश्रियस्य वामपार्श्वे आर्यावलोकितेश्वरः नीलपट्टचलनिकानिवस्तः सर्वाङ्गशोभनः सर्वालङ्कारविभूषितः मुक्ताहारयञोपवीतः वामहस्ते श्वेतपद्मविन्यस्तः दक्षिणहस्ते सितोद्धूयमानचमरः **(?) ****(?)तः सौम्याकारः ******(?)श्रियगतदृष्टिः तथैवार्यसमन्तभद्रः **(?)द्मासनस्थौ उभावष्येतौ अभिलेख्यौ || ७६, प्. ७६) एकपद्मविटपोत्थितौ त्रीणि पद्मानि | मध्यमे मूलपद्मकर्णिकायामार्यमञ्जुश्रियस्य सिंहासनं रत्नपीठं च | अपरस्मिं पद्मे आर्यसमन्तभद्रः तृतीये पद्मे आर्यावलोकितेश्वरः | शोभनम् च तत् पद्मदण्डं मरकतपद्माकारं अनेकपद्मपुष्पमुकुलितं पत्रोपेतं विकसितार्धविकसितपुष्पमहासरानवतप्तोत्थितं द्वौ नागराजावष्टब्धनाभं नन्दोपनन्दसन्धारितं तत् पद्मदण्डं सितवर्णा च तौ नागराजानौ सप्तस्फटावभूपितौ सर्वालङ्कारशोभितशरीरौ मनुष्यार्धकायौ अहिभोगाङ्कितमूर्तयः आर्यमञ्जुश्रियं निरीक्षमाणौ जलान्तार्धनिलीनौ मणिरत्नोपशोभितच्छदौ लिखापयितव्यौ || समन्ताच्च महासरं अधस्तात् साधकः दक्षिणपार्श्वे पटान्तकोणे आर्यमञ्जुश्रियस्य वक्त्रमण्डलं निरीक्षमाणो धूपकटच्छकव्यग्रहस्तः अवनतशिरकोर्परजानुकायः यथा वेषवर्णतः तथामभिलेख्यम् || उपरिष्टादार्यमञ्जुश्रियस्य उभौ पटान्तकोणाभ्यां द्वौ देवपुत्रौ मालाधारिणौ पुष्पमालागृहीतौ उत्पतमानौ मेघान्तर्निलीनौ महापुष्पौधमुत्सृजमानौ सुशोभनौ अभिलेख्यौ || समन्ताच्च तत्पटं नागकेसरादिभिः पुष्पैः प्रकिरितमभिलिखेत् | यथेष्टतश्च त्रिरूपकाधिष्ठितं वा अभिलिखेत् | आर्यमञ्जुश्रीः धर्मं देशयमानः आर्यसमन्तभद्रः आर्यावलोकितेश्वरश्चमरविन्यस्तपाणयो लिखापयितव्याः | यथाभिरुचितकं वा साधकस्य त्रीणि रूपकाणि अवश्यं लिखापयितव्यानि | यथेष्टाकारा वा यथासंस्थानसंस्थिता वा साधकस्य यथा यथा रोचते तथा तथा लिखितव्यानि || मध्ये च आर्यमञ्जुश्रीः उभयान्ते च आर्यावलोकितेश्वरः समन्तभद्रश्च यथेप्सितः अन्य अवश्यं लिखापयितव्यानि | यथालब्धे वा कर्पटखण्डे वितस्तिहस्तमात्रे वा आत्मना वा परेण वा चित्र**(?)ण पोषधिकेन वा अपोषधिकेन वा श्राद्धेन वा अश्राद्धेन वा शुद्धिना वा अशुचिना वा शीलवतेन वा दु**(?)लेन वा चित्रकरेण छितापयितव्यः || ७७, प्. ७७) आत्मना साधकेन अवश्यं कृतपुरश्चरणेन श्राद्धेन उत्पादितवोधिचित्तेन अवश्यं भवितव्यमिति || एवं सिध्यन्ति मन्त्रा वै नान्येषां पापकारिणाम् | श्राद्धेन तथा भूत्वा साधनीया मन्त्रदेवताः || सिध्यन्ते मन्त्रराट् तस्य श्राद्धस्यैवेह नान्यथा | श्रद्धा हि परमं यानं येन यान्ति विनायकाः || अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहते | बीजानामग्निदग्धानामङ्कुरो हरितो यथा || श्राद्धे स्थितस्य मर्त्यस्य बोद्धारं हि कर्मणा | सिध्यन्ते देवतास्तस्य अश्राद्धस्य न सिध्यति || * * * * * * * * (?) सर्वमन्त्रा विशेषतः | लौकिका देवता येऽपि येऽपि लोकोत्तरा तथा || सर्वे वै श्रद्दधानस्य सिध्यते विगतकल्मषः | आशु सिद्धिर्ध्रुवा तेषां बोधिस्तद्गतमानसाम् || नान्येषां कथ्यते सिद्धिः शासनेऽस्मिन् निवारिताः | पटः स्वल्पो विशेषो वा मध्यमो परिकीर्तितः || अधुना तु प्रवक्ष्यामि सर्वकर्मसु साधनमिति || बोधिसत्त्वपिटकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् सप्तमः पटलविसरात् चतुर्थः पटविधानपटलविसरः परिसमाप्त इति || ७८, प्. ७८) अष्टमः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | ये ते मञ्जुश्रीः ! त्वया निर्दिष्टा सत्त्वा तेषामर्थाय इदं पटविधानं विसरमाख्यातम् | ते स्वल्पेनैवोपायेन साधयिष्यन्ते | तेषामर्थाय साधनोपयिकं गुणविस्तारप्रभेदविभागशो कर्मविभागं समनुभापिष्यामि | तं शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये | सर्वसत्त्वानामर्थाय || अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् | साधु साधु भगवं ! सुभाषिता तेऽस्मद्विभावनोद्योतनकरीं मन्त्रचर्यागुणनिष्पत्तिप्रभावनकरीं वाणीम् | तद्वदतु तं भगवां | यस्येदानीं कालं मन्यसे | अस्माकमनुकम्पार्थम् || अथ भगवांश्छाक्यमुनिः सर्वावन्तं पर्षन्मण्डलमवलोक्य स्मितमकार्पीत् | अथ भगवतः शाक्यमुनेर्मुखाद्वारात् नीलपीतस्फटिकवर्णादयो रश्मयो निश्चरन्ति स्म | समनन्तरनिश्चरिता च रश्मयो सर्वावन्तं पर्षन्मण्डलं अवभास्य त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वमारभवनं जिह्मीकृत्य सर्वनक्षत्रद्योतिशैलगणप्रभां यत्रेमौ चन्द्रसूर्यौ महर्धिकौ महानुभावौ तया प्रभया तेऽपि जिह्मीकृतौ नावभास्यन्ते निष्प्रभाणि च भवन्ति | न विरोचन्ते जिह्मीकृतानि च सन्दृश्यन्ते सर्वमणिमन्त्रौषधिरत्नप्रभां निःप्रभीकृत्य पुनरेव भगवतः शाक्यमुनेः मुखद्वारान्तर्धीयते स्म || अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः तत्रैव पर्षन्मण्डले सन्निपतितोऽभूत् | सन्निषण्णः स उत्थायासनात् सत्त्वरमाणरूपो भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत् | नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति को भगवं हेतुः कः प्रत्ययो स्मितस्य प्राविष्करणाय || एवमुक्ते भगवां वज्रपाणिं बोधिस**(?)मन्त्रयते स्म | एव मेतद् वज्रपाणे ! एवमेतत् | यथा वदसि तत् तया | नाहेत्वप्रत्ययं तथागतानां विद्यते स्मितम् | अस्ति हेतुः अस्ति प्रत्ययः | यो इदं ७९, प्. ७९) सूत्रेन्द्रराजं मञ्जुश्रीमूलकल्पा विद्याचर्यानुष्ठानकर्मसाधनोपयिकसमवशरणधर्ममेघनिःश्रितं समनुप्रवेशानुवर्तकं करिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति श्रद्धास्यन्ति पुस्तकलिखितं कृत्वाः पूजयिष्यन्ति चन्दनचूर्णानुलेपनधूपमाल्यैः छत्रध्वजपताकैः विविधैर्वा प्रकारैर्वाद्यविशेषैर्वा नानातूर्यताडावचरैः | अन्तशः अनुमोदनासहगतं वा चित्तसन्ततिर्वा प्रतिलप्स्यन्ते रोमहर्षण. सञ्जनं वा करिष्यन्ति विद्याप्रभावशक्तिं वा श्रुत्वा संहृष्यन्ते अनुमोदिष्यन्ते चर्यां वा प्रतिपत्स्यन्ते | व्याकृतास्ते मया अनुत्तरायां सम्यक् सम्बोधो सर्वे ते भविष्यन्ति | बुद्धा भगवन्तः | अत एव जिनाः स्मितं कुर्वन्ति नान्यथा इति || आदौ तावद् दृष्टसमयः कृतपुरश्चरनः लब्धाभिषेकः अस्मिन् कल्पराजमूलमन्त्रहृदयं उपहृदयं वा अन्यतरं वा मन्त्रं गृहीत्वा एकाक्षरं वा अन्यं वायथेप्सितं महारण्यं गत्वा त्रिंशल्लक्षाणि जपे फलोदकाहारः मूलपर्णभक्षो वा कृतपुरश्चरणो भवति || ततो पर्वतायमभिरुह्य ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य आत्मना पूर्वाभिमुखो कुशविण्डकोपविष्टः श्वेतपद्मानां श्वेतकुङ्कुमाभ्यक्तानां लक्षमेकं भगवतः शाक्यमुनेः सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पटस्याधस्तान्निवेदयेत् | कर्पूरधूपं च यथाविभवतः दहेत् | देवपुत्रनागानां च पूजां कुर्यात् | यथालब्धैः पुष्पैः || ततोऽर्धरात्रकालसमये शुक्लपूर्णमास्यां प्रातिहारकप्रतिपूर्णायां पटस्याग्रतः अग्निकुण्डं कृत्वा पद्माकारं श्वेतचन्दनकाष्ठैरग्निं प्रज्वाल्य कुङ्कुमकर्पूरं चैकीकृत्य अष्टसहस्राहुतिं जुहुयात् | यथाविभवतः कृतरक्षह् || ततः भगवतः शाक्यमुनेः रश्मयो निश्चरन्ति समन्ताच्च पटः एकज्वालीभूतो भवति | ततः साधकेन सत्त्वरमाणरूपेण पटं त्रिः प्रदक्षिणीकृत्य सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां प्रणम्य पटं ग्रहेतव्यम् || अतीतेन पूर्वलिखितसाधक**(?)देशे ततो गृहीतमात्रोत्पतति | अच्छटामात्रा ब्रह्मलोकमतिक्रामति | कुसुमावतीं लोकधातुं सम्प्रतिष्ठति | यत्रास्तै भगवां सङ्कुसुमितराजेन्द्रस्तथागतः तिष्ठति ध्रियते ८०, प्. ८०) यापयति धर्मं च देशयति आर्यमञ्जुश्रियं च साक्षात् पश्यति धर्मं शृणोति अनेकान्यनि बोधिसत्त्वशतसहस्रा पश्यति तांश्च पर्युषास्ते महाकल्पसहस्रं अजरामरलीली भवति | पटस्तत्रैव तिष्ठति सर्वबुद्धबोधिसत्त्वाधिष्ठितो भवति तेषां चाधिष्ठानं सञ्जानीते क्षेत्रशतसहस्रं चाक्रामति कायशतसहस्रं वा दर्शयति अनेकऋद्धिप्रभावसमुद्गतो भवति आर्यमञ्जुश्रियश्च कल्याणमित्रो भवति नियतं बोधिपरायणो भवतीति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् अष्टम उत्तमसाधनौपयिककर्मपटलविसरात् प्रथमः समाप्त इति || ८१, प्. ८१) अथ नवमः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः सर्वावती पर्षन्मण्डलोपनिषण्णां देवसङ्घानामन्त्रयते स्म | शृण्वन्तु भवन्तो मार्षा मञ्जुश्रियस्य कुमारभूतस्य चर्यामण्डलमन्त्रसाधकमोपयिकं रक्षार्थं साधकस्य परमगुह्यतमं परमगुह्यहृदयं सर्वतथागतभाषितं महाविद्याराजम् | येन जप्तेन सर्वमन्त्रा जप्ता भवन्ति | अनतिक्रमणीयोऽयं भो देवसङ्घमः ! अयं विद्याराजा | मञ्जुश्रियोऽपि कुमारभूतोऽनेन विद्याराज्ञा आकृष्टो वशमानीतो सम्मतीभूतः | कः पुनर्वादः तदन्ये बोधिसत्त्वाः लौकिकलोकोत्तराश्च मन्त्राः | सर्वविघ्नांश्च नाशयत्येष महावीर्यः प्रभावः एकवीर्यः एक एव सर्वमन्त्राणाम् अग्रमाख्यायते | एक एव एकाक्षराणामक्षरमाख्यायते | कतमं च तत् | एकाक्षरं सर्वार्थसाधकं सर्वकार्यकरणं सर्वमन्त्रच्छेदनं दुष्टकर्मिणां सर्वपापप्रनाशनं सर्वमन्त्रप्रतिपूरणं शुभकारिणं सर्वलौकिकलोकोत्तरमन्त्राणामुपर्युपरिवर्तते अप्रतिहतसर्वतथागतहृदयसर्वाशापारिपूरक कतमं च तत् | तद्यथा - क्ल्ल्हीं | एष स मार्षा परमगुह्यतमं सर्वकर्मिकं एकाक्षरं नाम विद्याराजा अनतिक्रमणीयः सर्वसत्त्वानाम् | अधृष्यः सर्वभूतानां मङ्गलं सर्वबुद्धानां साधकः सर्वमन्त्राणां प्रभुः सर्वलोकानाम् ईश्वरो सर्ववित्तेशानां मैत्रात्मको सर्वविद्विष्टानां कारुणिको सर्वजन्तूनां नाशकः सर्वविघ्नानां संक्षेपतः यथा यथा प्रयुज्यते तथा तथा करोति असाधितोऽपि कर्माणि करोति | मन्त्रजपता यं स्पृशति स वश्यो भवति वस्त्राण्यभिमन्त्र्य प्रावरेत् सुभगो भवति | दन्तकाष्ठमभिमन्त्र्य भक्षये दन्तशूलमपनयति | श्वेतकरवीरदन्तकाष्ठमभिमन्त्र्य भक्षयेत् अप्रार्थितमन्नमुत्पद्यते | अक्षिशूले सैन्धवं चूर्णयित्वा सप्तवारानभिमन्त्र्य अक्षि पूरयेत् अक्षिशूलमपजयति | कर्णशूले गजविष्टोत्थितांगर्जानसम्भवां छत्रिकां केधुकपत्रावनद्धां प्रदग्निना पचेत् | सुकेलायितां सुखोष्णं सैन्धवचूर्णपूतां कृत्वा सप्ताभि**(?) तेन कर्णां पूरयेत् तत्क्षणादुपशमयति | प्रसवनकाले स्त्रिया*******(?)र्भायाः शूलशिखायाः आटरुपकमूलं निष्प्राणकेनोदकेन ******** (?) नाभिदेशं लेपयेत् तेनैव प्रसवति नष्टशयो वा पुरुषः ८२, प्. ८२) पुराणघृतं अष्टशतवारानभिमन्त्र्य पाययेल्लेपयेद् वा तत्प्रदेशं तत्क्षणादेव निःशल्यो भवति | अजीर्णविशूचिकायातिसारे मूलेषु सौवर्चलं सैन्धवं वा अन्यं वा लवणं सप्तवारानभिमन्त्र्य भक्षये तस्माद्व्याधेर्मुच्यते तदह एव स्वस्थो भवति | उभयातिसारे सद्यातिसारे वा मातुलुङ्गफलं पीपयित्वा निष्प्राणकेनोदकेन तस्मादावाधान्मुच्यते | सकृज्जप्तेन तु जप्तेन वा वन्ध्यायाः स्त्रिया वा अप्रसवधर्मिण्याः प्रसवमाकांक्षता अश्वगन्धमूलं गव्यघृतेन सह पाचयित्वा गव्यक्षीरेण सह पीषयित्वा गव्यक्षीरेणैवाद्वाल्य पञ्चविंशत्परिजप्तं ऋतुकाले पायये स्नानान्ते च परदारवर्जी गृही कममिथ्याचारवर्जितः स्वदारमभिगच्छे | स्वपतिं वा जनयते सुतं त्रिपञ्चवर्षप्रसवनकालातिरेकं वा अनेकवर्षविष्टब्धो वा परमन्त्रतन्त्रोषधपरमुद्रितपरदुष्टकृतं वा गर्भदारणविधृतं वा व्याधिसमुत्थितं वा अन्यं वा यत्किञ्चि व्याधिं परविधृतस्थावरजङ्गमकृत्रिमाकृत्रिमगरादिप्रदत्तं वा सर्वमूलमन्त्रौषधिमित्रामित्रप्रयोगकृतं वा सप्तविंशतिवारां पुराणघृतमयूरचन्द्रकं चेकीकृत्य पीषयेत् | ततः सुपिष्टं कृत्वा शर्करेण सह योज्य हरीतकीमात्रं भक्षयेत् | सप्तदिवसानि च शर्करोपेतं शृतं क्षीरं पाययेद् अभिमन्त्र्य पुनः पुनः | मस्तकशूले काकपक्षेण सप्ताभिमन्त्रितेन उमार्जायेत् स्वस्थो भवति | स्त्रीप्रदरादिषु रोगेषु आलम्बुषमूलं क्षीरेण सह पीषयित्वा नीलिकामूलसंयुक्तमष्टशताभिमन्त्रितं क्षीरेणालोड्य पाययेत् | एवं चातुर्थकएकाहिकद्व्याहिकत्र्याहिकसाततिकं नित्यज्वरविषमज्वरादिषु पायसं घृतसंयुक्तं अष्टशताभिमन्त्रितं भक्षापयेत् | स्वस्थो भवति || एवं डाकिनीग्रहगृहीतेषु आत्मनो मुखमष्टशतवारानभिमन्त्र्य निरीक्षयेत् | स्वस्थो भवति | एवं मातरवालपूतनवेतालकुमारग्रहादिषु सर्वामानुषदुष्टदारुणगृहीतेषु आत्मनो हस्तमष्टशताभिमन्त्रितं कृत्वा गृहीतकं मस्तके स्पृशेत् | स्वस्थो भवति || एकजप्तेनात्मरक्षा *******(?)रक्षा तृजप्तेन ***(?) चतुर्थेन ग्रामरक्षा पञ्चजप्तेन या*(?)चरगतरक्षा भवति | एवं ८३, प्. ८३) यावत्सहस्रजप्तेन कटकचकरक्षा कृता भवति | एतानि चापराणि अन्यानि च क्षुद्रकर्माणि सर्वाणि करोति असाधितेऽपि | अथ साधयितुमिच्छति क्षुद्रकर्माणि कार्याणि | एकान्तं गत्वा विविक्तदेशे समुद्रगामिनीं सरित्समुद्भवे समुद्रकूले गङ्गानदीकूले वा अथवा महानदीकूलमाश्रित्य शुचौ प्रदेशे उडयं कृत्वा त्रिस्नायी त्रिचैलपरिवर्ती मौनी भिक्षभैक्षाहारसाधकयावकषयो फलाहारो वा त्रिंशल्लक्षाणि जपेत् सिद्धिनिमित्तं ततो दृष्ट्वा ततो साधनमारभेत् | ज्येष्ठं पटं तत्रैव देशे तस्मिं स्थाने पटस्य महतीं पूजां कृत्वा सुवर्णरूप्यमयी ताम्रमृत्तिकमयैर्वा प्रदीपकैः तुरुष्कतैलपूर्णैः गव्यघृतपूर्णैर्वा प्रदीपकैः प्रत्यग्रवस्त्रखण्डाभिः खण्डाभिः कृतवर्तिभिः लक्षमेकं पटस्य प्रदीपानि निवेदयेत् | सर्वाणि समं समन्तात् समनन्तरप्रदीपितैः प्रदीपमालाभिः पटस्य रश्मयो निश्चरन्ति | समनन्तरनिश्चरितै रश्मिभिः पटः समन्तज्वालमालाकुलो भवति | उपरिष्टाच्चान्तरिक्षे दुन्दुभयो नदन्ति | साधुकारश्च श्रूयते || ततो विद्याधरेण सत्त्वरमाणरूपेण साधकपटान्तकोणं पूर्वलिखितपटः निःसृतं अर्घं दत्त्वा प्रदक्षिणीकृत्य सर्वबुद्धां प्रणम्य ग्रहेतव्यम् | ततो गृहीतमात्रेण सर्वप्रदीपगृहीतैः सत्त्वैः सार्धं समुत्पतति एकाधिकविमानलक्षणं वा गच्छन्ति | दिव्यतूर्यप्रतिसंयुक्ते मधुरध्वनिगीतवादितनृत्योपेतैः विद्याधरीभिः समन्तादाकीर्णं तं साधकं विद्याधरचक्रवर्तिराज्ये अभिषेचयन्ति | सह तैः प्रदीपधारिभिः अजरामरलीली भवति | महाकल्पस्थायी भवति | उदितादित्यसङ्काशः दिव्याङ्गशोभी विचित्राम्बरभूषितः | त एवास्य भवन्ति किङ्कराः | तैः सार्धं विचरति | सर्वविद्याधरराजास्य दासत्वेनोपतिष्ठन्ते | विद्याधरचक्रवर्ती भवति | चिरञ्जीवी अधृष्यो भवति | सर्वसिद्धानां परमसुभगो भवति | विद्याधरकन्यानां दशेना भवति | सर्वद्रव्यानां बुद्धबोधिसत्त्वांश्च पूजयति | ततो भवति क्षणमात्रेण ब्रह्मलोकमपि गच्छति | स्यापि न गणपति किं पुन****(?)न्यविद्याधराणाम् | अन्ते चास्य **(?)न्वं भवति | आर्यमञ्जुश्रियः * * * * * * * * (?) ******(?)वति | उत्तप्ततरम् | तत एकान्ते ८४, प्. ८४) गत्वा विवेके विगतजने निःसङ्गसङ्गरहिते महारण्यमनुप्रविश्य यत्र स्थाने पद्मसरं सरितोपेतं एकवर्षताश्रितं पर्वता***(?) एकाक्षरं विद्याराजं मञ्जुश्रीकल्पभाषितं वा तमागतान्यबोधिसत्त्वभाषितं वा अन्यतरं मन्त्रं गृह्य तेषां यथेप्सतः पद्ममूलफलाहारो पयोपयोगाहारो वा विद्या षट्त्रिंशल्लक्षाणि जपेत् | जपान्ते च तेनैव विधिना पूर्वनिर्दिष्टेन ज्येष्ठं पटं प्रतिष्ठाप्य पद्मपुष्पाणां श्वेतचन्दनकुङ्कुमाभ्यक्तानां खदिरकाष्ठैरग्निं प्रज्वाल्य पूर्वपरिकल्पितां पद्मां षट्त्रिंशत् सहस्राणि जुहुयात् || ततो होमावसाने भगवतः शाक्यमुनेः पटस्य रश्मयो निश्चरन्ति | ततो साधकमवभास्य मूर्धान्तर्धीयन्ते | समनन्तरस्पृष्टश्च साधकः पञ्चाभिज्ञो भवति | बोधिसत्त्वलब्धभूमिः दिव्यरूपी यथेष्टं विचरते | षट्त्रिंशत्कल्पां जीवति | षट्त्रिंशद्बुद्धक्षेत्रानतिक्रामति | तेषां च प्रभावं समनुपश्यति | षट्त्रिंशद्बुद्धानां प्रवचनं धारयति | तेषां च पूजोपस्थानाभिरतो भवति | अन्ते च बोधिपरायणो भवति | आर्यमञ्जुश्रीकल्याणमित्रपरिगृहीतो भवति | यावद् बोधिनिष्ठं निर्वाणपर्यवसानम् इति || बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पान्नवमः पटलविसराद् द्वितीयः उत्तमसाधनोपयिककर्मपटलविसरः परिसमाप्त इति || ८५, प्. ८५) अथ दशमः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः पुनरपि कर्मसाधनोत्तमं भाषते स्म | इह कल्पयते अन्यतमं मन्त्रं गृही*(?) ***(?)महानदीमवर्तीर्य नौयानसंस्थितः गङ्गायाः मध्ये क्षीरोद****(?)शल्लक्षाणि जपेत् यथेष्टदिवसैः || ततो जपान्ते सर्वान् नागां पश्यति | ततः साधनमारभेतत्रैव नौमध्ये अग्निकुण्डं कारयेत् पद्माकारम् | ततो नागकेसरपुष्पैः पटस्य महतीं पूजां कृत्वा ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखं कुशविण्डकोपविष्टः नागकेसरपुष्पं एकैकं सप्ताभिमन्त्रितं कृत्वा खदिरकाष्ठेन्धनाग्निप्रज्वालिते जुहुयात् | यावत् त्रिंशसहस्राणि श्वेतचन्दनकुङ्कुक्मपूतानां नागकेसरपुष्पां नान्येषां नागानां दर्शनमवेक्ष्यं सिद्धद्रव्यैश्च प्रलोभयन्ति | न ग्रहीतव्यानि || ततो होमान्ते नौयानेन सार्द्धमुत्पतति | विद्याधरचक्रवर्त्ती भवति | सर्वनागेन्द्रराजाश्चास्यानुचरा भवन्ति | भृत्या इव तिष्ठन्ते | त्रिंशत्यन्तरकल्पां जीवति | स्वच्छन्दचारी चास्य भवति | अप्रतिहतगतिः आर्यमञ्जुश्रियं साक्षात् पश्यति | स मूर्ध्नि स्पृशति स्पृष्टमात्रश्च पञ्चाभिज्ञो भवति | नियत. बुद्धत्वमधिगच्छति | अपरमपि उत्तमकर्मोपयिकसाधनं भवति | गङ्गामहानदीमवतीर्य एककाष्ठेनैव बिल्ववृक्षमयेन नौयानं कृत्वा सुदृष्टं सुकृतं तत्र समाभिरुह्य बिल्वकाष्ठकमयं वाहनं तेनैव तां तौ अनुसाधकेनैव व्यक्तेन निपुणतरेण वाहये गङ्गामहानदीमपरित्यज्य वाहयेत् समन्तात् | तिर्यग् दीर्घं वा | अतोऽन्यतरं मन्त्रं गृहीत्वा मूलमन्त्रषडक्षर **(?) अष्टाक्षर एकाक्षरं वा क्रोधदूतीदूत अपरा वा अन्यतरं वा मन्त्र गृहीत्वा ज्येष्ठं पटं तत्रैव पश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वामुखं ***(?)तः पश्चाद् यथेष्टं भवति वीरयावकफलाहारो वा उदक*****(?)फलाहारो वा मौनी त्रिः *********(?)परिवर्ती *******(?)चारी सुशुक्लबुद्धिः | प्रथमं तावत् *******(?)पदिष्टपूर्व*********(?) षष्टिलक्षाणि जपेत् | ततो जपान्ते *********** (?) || ८६, प्. ८६) ततो साधकेनोपकरणानि सङ्गुहा पूर्वस्थापितकानि कुर्यात् तत्रैव नौयाने | ततो महासमुद्रं गच्छता न भेतव्यम् | नामि निवारयितव्या | न च शक्यन्ते निवर्त्तापयितुं वर्जयित्वा साधकवशात् || ततो मुहूर्तमात्रेणैव महासमुद्रं प्रविशति योजनसहस्रस्थितापि किं पुनः स्वल्पमध्वानम् | तत्र प्रविष्टः सरितालये साधनकर्ममारभेत् | खदिरकाष्ठैरग्निं प्रज्वाल्य पूर्वकारिताग्निकुण्डे कुम्भकारकारिते वा मृद्भाण्डे नागकेसरकिञ्जल्काहुतीनां श्वेतचन्दनकर्पूरव्यामिश्राणां स्वल्पतराणां प्रभूततरप्रमाणानां वा षष्टिलक्षाणि जुहुयात् || जुह्वतश्च लङ्कापुरिवासिनो राक्षसा बहुरूपधारिणः हाहाकारं कुर्वन्ताः नागपुरिभोगवतीवासिनाश्च नागराजानः उत्तिष्ठन्ते विविधरूपधारिणो क्रूरतराः सौम्यतराश्च | ते नागराक्षसाश्च एवमाहुः - उत्तिष्ठतु भगवानुत्तिष्ठतु भगवानिति | अस्माकं स्वामी भवत् | एवं असुराः यक्षाः देवाः महोरगाः सिद्धाः सर्वमानुपाश्च प्रलोभयन्ति | नोत्थातव्यं न भेतव्यं च || ततो विद्याधरेण मन्त्रं जप्ता वामहस्ते तर्जन्या तर्जयितव्या | ततो विद्रवन्ति इतश्चामुतश्च प्रपलायन्ते नश्यन्ति च | ततो होमावसाने सा नौतं साधकं गृहीत्वा क्षणेनाकनिष्ठभवनं गच्छन्ति | अपराण्यपि लोकधातुं गच्छत्यागच्छति च बोधिसत्त्वचित्तविदो भवति पञ्चाभिज्ञः महर्द्धिको भवति महानुभावः | आर्यमञ्जुश्रियं चास्य सततं पश्यति | सर्वनागाः सर्वराक्षसाः सर्वदेवाः सर्वासुराः सर्वसत्त्वा चास्य वश्या भवन्ति | आज्ञाकराः स्थापयित्वा सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकानामिह मन्त्रसिद्धानां च | ते चास्य मैत्रात्मका भवन्ति अनुमन्तारः यावत्सर्वसत्त्वानामधृष्यो भवति || अपरमपि कर्मोपयिकोत्तमसाधनं भवति | बिल्वकाष्ठैर्महता नौयानं काराषये | एककाष्ठदारुसङ्घातैर्वा महतावस्थानं च कुर्यात् | गङ्गामध्यस्थे द्वीपकं तत्रस्थं नौयानं कुर्या | तस्मिंश्च नौयाने विंशोत्तरशतं पुष्पाणां प्रदीपव्यग्रहस्तानां नौयानमभि***(?) **(?)म्बरवसनानां कृतरक्षाणां ********(?)धिसंस्थापितकस्या ***(?)स्थापयेत् | ८७, प्. ८७) ततो ************* (?) कृत्वा नागकेसरचूर्णानां कुङ्कुमश्वेत************* (?) खदिरानले **(?)तीसहस्राणि षट्त्रिंश जुहुयात् || ततो होमावसाने सा नौ क्षणमात्रेण ब्रह्मलोकं गच्छति | आगच्छति च | यथेष्टं विचरते | आर्यमञ्जुश्रियं साक्षात् पश्यति | दृष्टमात्रश्च भूमिप्राप्तो भवति पञ्चाभिज्ञः चिरकालजीवी महाकल्पस्थायी महाविद्याधरचक्रवर्तिराजा भवति | ते चास्य प्रदीपधरा सिद्धविद्याधरा भवन्ति | सहायका तैः सार्द्धं यथेष्टं विचरते स्वच्छन्दगामी भवति | बुद्धानां भगवतां पूजाभिरतो भवति | अन्ते च बुद्धत्वं नियतं भवति | अपरमपि कर्मोपयिकसाधनोत्तमो भवति || नदीकूले समुद्रकूले वा हिमवन्तगिरौ तथा | पर्वते विन्ध्यराजेऽस्मिं साधयेत् कर्ममुत्तमम् || सह्ये मलये चैव अर्बुदे गन्धमादने | तृकूटे पर्वतराजेऽस्मिं साधयेत् कर्ममुत्तमम् || महासमुद्रे तथा शैले वृक्षाढ्ये पुष्पसम्भवे | एते देशेषु सिध्यन्ते मन्त्रा वै जिनभाषिता | विविक्तदेशे शुचौ प्रान्ते ग्राम्यधर्मविवर्जिते || सिध्यन्ते मन्त्रराट् सर्वे तथैव गिरिगह्वरे | प्रान्तशययासने रम्ये तथैव जिनवर्णिते || दुष्टसत्त्वविनिर्मुक्ते सिध्यन्ते सर्वमन्त्रराट् | धार्मिके जपे देशे शौचाचाररते जने || मातापितृभक्ते च द्विजवर्णाविवर्जिते | देवता सिद्धि**(?)यन्ति तस्मिं स्थाने तु नान्यथा || गंभीरथीतटे रम्ये यमुने चैव सुशोभने | ****(?)र्मदवक्षे च चन्द्रभागे **(?) तटे || ८८, प्. ८८) कावेरी प्रदरवती चैव सिता देवमहानदी | सिद्धिक्षेत्राण्येतानि उक्ता दशवलात्मजैः || दशबलैः कथिताः क्षेत्राः उत्तरापथपर्वताः | कश्मीरे चीनदेशे च नेपाले काविशे तथा || महाचीने तु वै सिद्धि सिद्धिक्षेत्राण्यशेषतः | उत्तरां दिशिमाश्रित्य पर्वताः सरिताश्च ये || पुण्यदेशाश्च ये प्रोक्ता यवगोधूमभोजिनः | सत्त्वा दयालवो यत्र सिद्धिस्तेषु ध्रुवा भवेत् || श्रीपर्वते महाशैले दक्षिणापथसंज्ञिके | श्रीधान्यकटके चैत्ये जिनधातुधरे भुवि || सिद्ध्यन्ते तत्र मन्त्रा वै क्षिप्रः सर्वार्थकर्मसु | वज्रासने महाचैत्ये धर्मचक्रे तु शोभने || शान्तिं गतः मुनिः श्रेष्ठो तत्रापिः सिद्धि दृश्यते | देवावतारे महाचैत्ये सङ्कश्ये महाप्रातिहारिके || कपिलाह्वये महानगरे वरे वने लुम्बिनि पुङ्गवे | सिद्ध्यन्ते मन्त्रराट् तत्र प्रशस्तजिनवर्णिते || गृध्रकूटे तथा शैले सदा सीतवने भुवि | कुसुमाह्वये पुरवरे रम्ये तथा काशीपुरी सदा || मधुरे कन्यकुब्जे तु उज्जयनी च पुरी भुवि | वैशाल्यां तथा चैत्ये मिथिलायां च सदा भुवि || पुरीनगरमुख्यास्तु ये वान्ये जनसम्भवा | प्रशस्तपुण्यदेशे तु सिद्धिस्तेषु विधीयते || एते चान्ये च देशा वै ग्रामजनपदकर्वटा | पत्तना पुरवरा श्रेष्ठा पुण्या सा सरिताश्रिता || तत्र भिक्षानुवर्ती * * * * * * * (?) भवेत् | लपने चाभ्यवकाशे * * * * * * (?) सदा || ८९, प्. ८९) पूर्वसेवां तु कुर्वीत मन्त्राणां सर्वकर्मसु | मध्यदेशे सदा मन्त्री जपेन्मन्त्रं समन्ततः || जापप्रवृत्तो सदायुक्तः त्यागाभ्यासात् मन्त्रवित् | शीलाचारसुसत्यश्च सर्वभूतहिते रतः || श्राद्धो मन्त्रचर्यायां पूर्वमेव जपे व्रती | शुचौ देशे सुक्षेत्रे म्लेच्छतस्करवर्जिते || सरीसृपादिषु सर्वेषु वर्जितं च विरिष्यते | फलपुष्पसमोपेते प्रशस्ते निर्मलोदके || सर्वे मन्त्रविन्मन्त्रं नान्यदेशेषु कीर्त्यते | देवालये श्मशाने वा एकस्थावरलक्षिते || एकलिङ्गे तथा प्रान्ते सर्वे मन्त्रं तु मन्त्रवित् | आत्मरक्षां सखायां तु कृत्वा वै स पुरश्चरी || मन्त्रयुक्तो सदा मन्त्री सेवेन्मन्त्रमुत्तमम् | महारण्ये महावृक्षे कुसुमाढ्ये फलोद्भवे || * * * * * * * * (?) पर्वताग्रे तु निम्नगे | उदकस्थाने शुचौक्षे च महासरित्तटे वरे || सेवेत मन्त्रं मन्त्रज्ञो स्थानेष्वेह * * * * (?) | प्राग्देशे च लौहित्ये महानद्ये नदीशुभे || कामरूपे तथा देशे वर्धमाने पुरोत्तमे | यत्रासौ निम्नगा श्लिष्टातिपुण्याग्रसरिद्वरा || तस्मिं स्थाने सदाजापी भजेत सुविगां शचिः | पूर्वसेवं तु तस्माद्वै कुर्यात्सर्वकर्मसु || गङ्गाद्वारे तथा नित्यं गङ्गासागरसङ्गमे | शुचिर्जपेत मन्त्रं वै प्रयागे चै**(?)सव्रतः || महाश्मशानान्येतानि जापी * * (?) सदा जपेत् | विमलोदकानि सरितानि कृ * * (?) र्गितानि च || ९०, प्. ९०) अतएव जपी तत्र जपेन्मन्त्रं समाहितः | न पुण्यं तत्र वै किञ्चित् दृश्यते लोकचेष्टितम् || किन्तु मन्त्रापदेशेन किञ्चित्कालं वसेत वै | अन्यत्र वा ततो गच्छे समये सोमग्रहे त्रवत् || समयप्राप्तो वसत्तत्र किञ्चित्कालं तु नान्यथा | अन्यत्र वा ततो क्षिप्रं गच्छे शक्ता तु मन्त्रवित् || सुगतध्युपितचैत्येषु भूतलेषु सदा वसेत् | लोकतीर्थानि सर्वाणि कुदृष्टिपतितानि च || अन्यानि तीर्थस्थानानि मन्त्रविद् वर्जये सदा | न वसेत् तत्र मन्त्रज्ञो कुहेतुगतिमुद्भवाम् || आक्रान्तं जिनवरैर्यस्तु भूतलं प्रत्येकखड्गिभिः | बोधिसत्त्वैर्महासत्त्वैः श्रावकैर्जिनवरात्मजैः || तानि सर्वाणि देशानि सेवेन्मन्त्रविन्मन्त्रजापी | पूर्वमेवं प्रयत्नेन तस्मिं स्थाने सदाचरे || विधिदृष्टेन मन्त्रज्ञो जपेन्मन्त्रं पुनः पुनः | पापं ह्येशेषं नाशयति जपहोमैश्च देहिनाम् || तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं सुसमाहितमिति || एतानि स्थानान्युक्तानि सर्वकर्मेषु च उत्तमकर्मोपयिकसाधनेषु | एषामलाभेन यत्र वा तत्र वा स्थाने शुचौ पूर्वसेवाः कार्या श्रद्धाविमुक्तेन साधनोपयिकोत्तमकर्म समाचरेत् || आदौ तावज्ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखं प्रतिष्ठाप्य वल्मीकाग्रमृत्तिकां वा गङ्गानदीकूलमृत्तिकां वा गृह्य उशीरश्वेतचन्दनकुङ्कुमं वा कर्पूरादिभिर्व्यतिमिश्रयित्वा मयूराकारं कुर्यात् | तं पटस्या**(?) स्थापयित्वा अच्छि**(?) कुशैः शुचिदेशसमुद्भवैः ***(?)कारं **************(?)ग्रहीत्वा वामहस्तेन मयूरं *****(?)र्णमास्यां *******(?) महतीं **(?) कर्पूरधूपं दहता ताव***(?) यावत्प्रभात इति || ९१, प्. ९१) ततः सूर्योदयकालसमये तन्मृन्मयं मयूरः महामयूरराजा भवति | चक्रश्चादीप्तः | आत्मनश्च दिव्यदेही दिव्यमाल्याम्बराभरणविभूषितः उदितादित्यसङ्काशः कामरूपी | सर्वबुद्धबोधिसत्त्वानां प्रणम्य पटं प्रदक्षिणीकृत्य पटं गृहीत्वा तस्मिं मयूरासने निषण्णः मुहूर्तेन ब्रह्मलोकमतिक्रामति | अनेकविद्याधरकोटीनयुतशतसहस्रपरिवारितः विद्याधरचक्रवर्ती भवति | अप्रतिहतगतिः दिव्यसम्पत्तिसमन्वागतो भवति | आर्यमञ्जुश्रियं साक्षात् पश्यति साक्षात् पश्यति | स एवास्य कल्याणमित्रो भवति | अन्ते च बुद्धत्वं प्राप्नोतीति || एवं दण्डकमण्डलुयज्ञोपवीतमनशिलारोचनखड्गनाराचभिण्डिपालपरशुनानावि धांश्च प्रहरणविशेषां मृन्मयां द्विपदचतुष्पदां पक्षिवाहनविशेषां सिंहव्याघ्रवर्क्ष्वादींश्च आसनवाहनशयनवाहनसितातपत्रमकुटाभरणविशेषां सर्वांश्च रत्नविशेषां सर्वांश्च प्रव्रजितोपकरणविशेषां अक्षसूत्रोपानहकाष्ठपादुकपात्रचीवरखखरकशूचीशस्त्रप्रभृतयो पुष्पलोहमयानि अन्ये वा यत्किञ्चित् सर्वोपकरणभाण्डप्रभृतयो पुष्पलोहमयां वाल्मीकमृत्तिकनदकिलमृत्तिकमयां वा तां सर्वां पञ्चगव्येन प्रक्षालयित्वा अभ्युक्षयित्वा वा अष्टशतेनाभिमन्त्रितं कृत्वा संशोधनमन्त्रेणैव एकाक्षरेण मन्त्रेण वा अन्यतरेण वा मन्त्रेणेहकल्पराजोक्तेन वर्जयित्वानुसाधनोपयिकेन मन्त्रेण यथेष्टतः यथाभिरुचितं आत्मनो कृतरक्षः सहायकांश्च कृतपरित्राणः सगुप्तमन्त्रतन्त्रज्ञः पूर्वनिर्दिष्टेषु स्थानेषु पश्चान्मुखं प्रतिष्ठाप्य आत्मनो पूर्ववत् पटस्य महतीं पूजां कृत्वा ज्येष्ठस्य कर्पूरधूपं दहता तेषां पूर्वनिर्दिष्टानां प्रहरणोपकरणवर्वविशेषां पूर्वनिर्दिष्टकृत्रिमां शुक्लपूर्णमास्यां रात्रौ अन्यतरं सङ्**(?) **(?) **(?) **(?)ज्जपेत् यावत्सूर्योद*(?)कालसमयम् || अत्रान्तरे महाप्रभामाली **(?) ***(?)यते | यदि वाहनविशेषं साध**(?) गृहीतो भवति तदाभिरुह्य यथेष्टं गच्छति | यदाभरणविशेषे प्रहरणविद्येषो वा तं गृहीत्वा वन्द्यो वा विशधरचक्रवर्ता भवति | ९२, प्. ९२) यथेष्टं गच्छति दिव्यरूपी उदितादित्यसङ्काशः महाप्रभामाली विद्युद्योतितमूर्त्तिः सर्वविद्याधरप्रभुः दीर्घजीवी महाकल्पस्थः अनेकविद्याधरकोटीनयुतशतसहस्रपरिवारः दिव्यमहामणिरत्नचारी येन वा वाहनेन पूर्वपरिकल्पितेन दृष्ट येन सिद्धो स एवास्य महाप्रभावो भवति | तमेवास्य वाहनं स एवास्य सहायकः परमन्त्राणुसिद्धिः निवारयित्वा आत्ममन्त्रसिद्धिं सम्प्रयोजितमैत्रात्मको हितकामः सततानुबद्धः य एवास्य प्रहरणाभरणरत्नविशेषाः आसनशयनयानसत्त्वप्रभृतयो त एवास्य महारक्षावरणगुप्तये नित्यानुबद्धा भवन्ति | महाप्रभावो महावीर्यो महाकायश्च महाकायश्च भवति | आर्यमञ्जुश्रियं साक्षात् पश्यति | साधुकारं च ददाति | मूर्ध्निरपरामृष्टेन कल्याणमित्रतां च प्रतिलभते | यावद् बोधिमण्डलमनुप्राप्त इति दशबलतां नियतमवाप्नोति | पूज्यश्च भवति | सर्वसत्वानामनभिभवनीयः अधृष्यो भवति सर्वभूतानां भूतकोटीवंशानुच्छेदकः भूमिप्राप्तश्च भवति | दशबलानां बोधिसत्त्वनियामतां च समनुगच्छतीति संक्षेपतो उत्तमकर्माणि सर्वाणि उत्तमस्थानस्थिते उत्तमपटस्याग्रतः उत्तमपूजाभिरतः उत्तमान्येव कर्माणि कुर्यात् | विद्याधरत्वमाकाशगमनं बोधिसत्त्वमनुप्रवेशं पञ्चाभिज्ञतां भूमिमनुप्रापणतां अनेनैव देहेन लोकधातुसङ्क्रमणतां दशवलवंशपरिपूरितायै आर्यमञ्जुश्रियं साक्षाद्दर्शनतायै अवन्ध्यदर्शनधर्मदेशनश्रवणतायै बुद्धवंशानुपच्छेदनतायै सर्वज्ञज्ञानानुक्रमणसमनुप्रापणतायै धर्ममेघविसृतसमनुप्रवेशनतायै क्लेशानुच्छोषण अमृतवृष्टिधारिभिः प्रशमनतायै लोकानुग्रहप्रवृत्तिरनुष्ठानतायै तथागाधर्मनेत्रारक्षणतायै तथागतवचनावन्ध्यकरणतायै मन्त्रचर्यासाधनोपयिकविधिप्रभावनतायै सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकमाहात्म्यधर्ममुद्भावनतायै साधनीयमिमं कल्पराजविसरं मन्त्रप्रतिभाषयुक्तज्येष्ठपटाग्रसमीपस्थसर्वलौकिकलोकोत्तरमन्त्रकल्प- सर्वतन्त्रेषु विधिमार्गेण संक्षेपतो इहान्यकल्पभाषितैरपि कर्मभिः साधनीयोऽयं पटराजा | आशुस्तेषां मन्त्राणां सिद्धिर्भवतीति यन्मया कथितं तदवश्यं सिध्यतीति || बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद् दशमः उत्तमपटविधानपटलविसरः परिसमाप्तः || ९३, प्. ९३) अथैकादशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीयं मध्यमं पटविधानं मध्यमकर्मोपयिकसाधनविधिः समासतो तां भाषिष्ये | तं शृणु | साधु च सुष्ठु च मनसि कुरु | भाषिष्ये || अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेवमाहुः - तद् वदतु भगवां लोकानुकम्पको शास्ता सर्वसत्त्वहिते रतः | यस्येदानीं कालं मन्यसे | अस्माकमनुकम्पार्थमनागतानां च जनतामवेक्ष्य || एवमुक्ते भगवां मञ्जुश्रिया कुमारभूतेन भगवानेतदवोचत् | शृणु मञ्जुश्रीः ! आदौ तावत् शीलव्रतशौचाचारनियमजपहोमध्यानविधिं यत्र प्रतिष्ठिता सर्वमन्त्रचर्यासाधनकर्माण्यवन्ध्यानि भवन्ति सफलानि | आशु च सर्वमन्त्रचर्यासाधनकर्मान्यवन्ध्यानि भवन्ति सफलानि | आशु च सर्वमन्त्रप्रयोगानि सिद्धिं गच्छन्ति | कतमं च तत् | भाषिष्येऽहं शृणु कुमार ! || आदौ तावद् विद्याव्रतशीलचर्यासमादानं प्रथमत एव समाददेत् | प्रथमं तावन्मण्डलाचार्योपदेशनसमयमनुप्रविशेत् | त्वदीयं कल्पराजोक्तं व्यक्तं मेधाविनं लब्ध्वाचार्याभिषेकत्वं शासनाभिज्ञं कुशलं व्यक्तं धार्मिकं सत्यवादिनं महोत्साहं कृतज्ञं दृढसौहृदं नातिवृद्धं नातिवालं निस्पृहं सर्वलाभसत्कारेषु ब्रह्मचारिणं कारुणिकं न लोभमात्रेण भोगहेतोर्वा अनुनयहेतोर्वा न मृषां वदते कः पुनर्वादो स्वल्पमात्रैणैव लोभमोहप्रकारैः दृढप्रतिज्ञा समता सर्वभूतेषु दयावां दानशीलः कृतपुरश्चरणः त्वदीयगुह्यमन्त्रानुजापी पूर्वसेवकृतविद्यः त्वदीयमण्डलसमनुपूर्वप्रविष्टः लोकज्ञः विधिज्ञः समनुग्राहकः कार्यावां विचक्षणः श्रेयसप्रवृत्तः अभीरु अच्छम्भिनगमङ्कुभूतः दृढवीर्यः अव्याधितः येन व्याधिना अकर्मशीली प्रहोच्चकुलप्रसूतश्चेति | एभिर्गुणैर्युक्तो मण्डलाचार्यो भवति || साधकश्च तत्समः न्यूनो वा किञ्चिदङ्गैः तादृशं मण्डलाचार्यमभ्यर्थ्य प्रार्थयेत् | इच्छाम्याचार्येण महाबो****(?) कुमारभूतस्यार्यमञ्जुश्रियस्य समयमनुप्रविष्टुम् | तद् वदत्वाचार्योऽस्माकमनुकम्पार्थं हितचित्तो दयावां | ९४, प्. ९४) ततस्तेन मण्डलाचार्येण पूर्वनिर्दिष्टेन विधिना शिष्यां यथापूर्वं परीक्ष्य प्रवेशयेत् | पूर्ववदभिषेकं दत्त्वा मन्त्रं दद्यात् | यथावत् क्रमशो समयं दर्शयेत् | रहस्यतन्त्रमुद्रामनुकर्माणि च प्रभूतकालेनैव सुपरीक्ष्य आशयं ज्ञात्वा दर्शयेत् | सर्वतन्त्रमन्त्रादिषु कर्माणि नान्येषामिति विधिरेषा प्रकीर्त्तिता || ततः शिष्येण मण्डलाचार्यस्य यथाशक्तितः आचार्यो वा येन तुष्येत आत्मानं भोगांश्च प्रतिपादयेत् || ततस्तेन मण्डलाचार्येण पुत्रसंज्ञा उपस्थापयितव्या | पुत्रवत् प्रतिपत्तव्यम् | मातुश्च भोगा उपसंहर्तव्या इति || ततस्तेन साधकेन अन्यतमं मन्त्रं गृहीत्वा एकान्तं गत्वा पूर्वनिर्दिष्टे स्थाने पेयालं तैरेव मन्त्रैः आह्वाननविसर्जनप्रदीपगन्धधूपबलिनिवेद्यं मण्डलोक्तेन विधिना विस्तरेण कर्त्तव्यम् | आहूय अर्घमासनं दत्त्वा त्रिसन्ध्या त्रिस्नायी त्रिचैलपरिवर्ती जापं कुर्यात् प्रत्यहं तत्र सन्ध्याकालं नाम रात्र्यन्तात् प्रभृति यावद् युगमात्रादित्योदयम् | अत्रान्तरे प्रथमं सन्ध्यमुच्यते | मध्यन्दिने च आदित्ये उभयान्ते युगमात्रं प्रमाणं व्योम्नि सन्निश्रितं रविमण्डलं मध्यं सन्ध्यमुच्यते | अस्तमनकाले च युगमात्रशेषं त्रितीयं सन्ध्यमुच्यत इति || शीलव्रतसमायुक्तमाचार्यं दक्षपण्डितम् | महाकुलोच्चप्रसूतं च दृढवीर्यं तु सर्वतः || मन्त्र तन्त्रभियुक्तं च सर्वकार्येषु दक्षधीः | सूक्ष्मो निपुणमन्त्रज्ञः धर्मधातुधरो सदा || वहोत्साही च तेजस्वी लोकधर्मानुपेक्षिणः | श्राद्धो मुनिवरधर्मोऽपि लौकिकानां तु वर्जिताः || कृतजापी विवेकज्ञो पूर्वसेवागुरोविनः | मन्त्रज्ञो मञ्जुघोषस्य दृष्टप्रत्ययतत्परः || ९५, प्. ९५) लौकिकानां प्रयोगज्ञो मन्त्राणां बुद्धभाषिताम् | कृतरक्षो दृढस्यामो शौचाचाररतः सदा || बुद्धोपदेशितं मार्गमनुवर्त्ती च सर्वतः | उद्युक्तो मन्त्रजापेऽस्मिं प्रशस्ते जिनवर्णिते || दृष्टकर्मफले नित्यं परलोके तथैव च | भीरुः स्यात् सर्वपापानामणुमात्रं तथैव च || शुचिर्दक्षोन्यनलसः मेधावी प्रियदर्शनः | दशबलैः कथिता मन्त्रास्तथैव जिनसूनुभिः || लौकिका ये च मन्त्रा वै वज्रान्तकुलयोरपि | तेषां कुतश्रमो नित्यं ग्रन्थशास्त्रार्थधारकाः || अव्याधितो नशक्तिष्ठो जरावाल्योविवर्जितः | सिद्धमन्त्रो तथारक्षो आशुकारी तु सर्वतः || अदीर्घसूत्री तथा मानी इङ्गितज्ञो विशेषतः | ब्रह्मचारि महाप्राज्ञो एकाकीचरसङ्गकृत् || लब्धाभिषेको शूरश्च तन्त्रेऽस्मिन् मञ्जुभाषिते | कृतजापान्तकृद्युक्तो कृतविद्यो तथैव च || महानुभावो लोकज्ञो गतितत्त्वानुचिन्तकः | श्रेयसायैव प्रयुक्तश्च दाता भूतहिते रतः || तथा विशिष्टो आचार्यो प्रार्थनीयो सदा तु वै | लिखितं तेन मन्त्राणां मण्डलं सिद्धिमर्छति || अभिषेकं तु तेनैवं दत्तं भवति महत् फलम् | सिद्धिकामस्तु शिष्यैर्वा पूज्योऽसौ मुनिवत् सदा || अलङ्घ्यं तस्य वचनं शिष्यैः कर्तव्य यत्नतः | भोगास्तस्य दातव्याः यथा*****(?)भवाः || स्वल्पमात्रा प्रभूता वा येन * * * * (?) गच्छति | कायजीवितहेत्वर्त्थं चित्तं देहं यथा पितुः || ९६, प्. ९६) तथैव शिष्यो धर्मज्ञो आचार्याय ददे धनम् | प्राप्नुयाद् यशः सिद्धिं आयुरारोग्यमेव तु || पुष्कलं गतिमाप्नोति शिष्यो पूज्यस्तु तं गुरुम् | मन्त्रास्तस्य च सिध्यन्ति विधिमार्गोपदर्शनात् || सेवनाद् भजनाद् तेषां मानना पूजनादपि | तुष्यन्ते सर्वबुद्धास्तु तथैव जिनवरात्मजाः || सर्वे देवास्तु तुष्यन्ते सत्क्रिया तु गुरौ सदा | एतत् कथितं सर्वं गुरूणां मन्त्रदर्शिनाम् || समयानुप्रवेशिनां पूर्वं प्रथमं वा साधकेन तु | जनो वा तत्समो वापि उत्कृष्टो वा भवेद् यदि || नावमन्यो गुरुर्नित्यं मेकाद्वा अधिकोऽपि वा | तेनापि तस्य तन्त्रेऽस्मिं उपदेशः सदा तु वै || कर्तव्यो मन्त्रेसिद्धस्मै यथासत्त्वानुदर्शिते | न मत्सरो भवेत् तत्र शिष्येऽस्मिं पूर्वनिर्मिते || स्नेहानुवर्तिनी चक्षुः सुप्रतिष्ठितदेहिनाम् | तमेव कुर्याच्छिष्यत्वं आचार्या शिष्यहेतवः || अन्योन्यानुवर्तिनी यत्र स्नेहसन्ततिमानिनी | स्निग्धसन्तानानुधरा नु मन्त्रं दद्यात्तु तत्र वै || आचार्यो शिष्यमेवं तु शिष्यो वा गुरुदर्शने | उत्सुकौ भवतः नित्या साध्वसयोगतः उभौ || तेषां नित्यं तु मार्गं वै मन्त्रचर्यानुदर्शने | सफलानुवर्तनौ मन्त्रज्ञौ उभयो पितृपुतृणौ || धृतिं तुष्टिं च **(?) तौ तथा शिष्य गुरुः सदा | **(?)णीयो ****(?) पुत्रो धर्मवत्सलः सदा || * * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || ९७, प्. ९७) दरिद्रेभ्यश्च सत्त्वेभ्यो क्लीवेभ्यो विशेषतः | सर्वेभ्योऽपि सत्त्वेभ्यो मन्त्रचर्या विशिष्यते || सर्वकाले व कुर्वीत अधमोत्तममध्यमे | सदा सर्वस्मिं धर्मेषु कुर्यानुग्रहहेतुतः || ईप्सितेभ्योऽपि प्रदातव्यं गतियोनिर्विचेष्टिते | शिष्येणैव तु तस्मै तु मन्त्रं गृह्य यथातमम् || तेनैवोपदिष्टेन मार्गेणैव नान्यथा | सिद्धिकामो यतेत् तस्मिन्नितरेषां परायिके || पितृवत् प्रणम्य शिरसा वैनतो गच्छे यथेष्टतः | एकान्तं ततो गत्वा जपेन्मन्त्रं समासतः || भिक्षभैक्षाशवृत्ती तु मौनी त्रिःकालजापिनः | पूर्वनिर्दिष्टमेवं स्याद् यथामार्गं प्रवर्तकः || तदानुवृत्ती सेवी च स्थानमायतनानि च | महारण्यं पर्वताग्रं तु नदीकूले शुचौ तथा || गोष्ठे महापुरे चापि विविक्ते जनवर्जिते | शून्यदेवकुले वृक्षे एकलिङ्गे शिलोच्चये || महोदकतटे रम्ये पुलिने वापि दीपके | विविधैः पूर्वनिर्दिष्टैः देशैश्चापि मनोरमैः || एतैश्चान्यैः प्रदेशैस्तु जपेन्मन्त्रं समाहितः | सखायैर्लक्षणोपेतैः मन्त्रार्थं नीतितार्किकैः || इङ्गिताकारतत्त्वज्ञैः आत्मसमसादृशैः | शूरैर्विजितसङ्ग्रामैः सात्त्विकैश्च सहिष्णुभिः || ***(?)र्मन्त्रचर्यायां शासने** **** (?) | ** (?)तैर्लक्षणोपेतैः क्ष********* (?) || ** (?)ध्यन्ते सर्वकर्माणि * * * * * * * (?) | प्रातरुत्थाय शयनात् स्नात्वा * * * * * * (?) || ९८, प्. ९८) निःप्राणके जले चैव सरिन्महासरोद्भवे | उद्घृष्य मात्रं मन्त्रज्ञो मृद्गोभयचूर्णितैः || मन्त्रपूतं ततो कृत्वा जलं चौक्षं सनिर्मलम् | स्नायीत जपी युक्तात्मा नातिकालं विलङ्घये || ततोत्थाय तटे स्थित्वा हस्तौ प्रक्षाल्य मृत्तिकैः | सप्त सप्त पुनः सप्त वारान्येकविंशति || उपविश्य ततस्तत्र दन्तकाष्ठं समाचरेत् | निसर्जयित्वा दन्तधावनं ततो वन्देत तापिनम् || वन्दित्वा लोकनाथं तु पूजां कुर्यान्मनोरमाम् | विविधैः स्तोत्रोपहारैस्तु संस्तुत्य पुनः पुनः || सुगन्धपुष्पैस्तथा शास्तु अर्घं दत्त्वा तु जापिनः | प्रणम्य शिरसा बुद्धानां तदा तु शिष्यसम्भवां || तेषां लोकनाथानां अग्रतो यापदेशना | निवेद्य चाशनो तत्र पटस्याग्रत मध्यमे || कुशविण्डकृतः तत्स्थः निषण्णोपसमाहितः | जपं कुर्यात् प्रयत्नेन अक्षसूत्रेण तेन तु || यथालब्धं तु मन्त्रं वै नान्यमन्त्रं तदा जपेत् | अतिहीनं च वर्जीत अतिउत्कृष्ट एव वा || मध्यमं मध्यकर्मेषु जपेन्मन्त्रं सदा व्रती | अत्युच्चं वर्जयेद् यत्नाद् वचनं चापि चेतरम् || मध्यमं मध्यकर्मेषु प्रशस्तो जिनवर्णितः | नात्युच्चं नातिहीनं च मध्यमं तु सदा जपेत् || वचनं श्रेयसाद्युक्तो सर्वबुद्धैस्तु पूर्वकैः | न जपे परसासीष्ये षट्कर्मपथे सदा || गुप्ते चात्मविदे देशे जपेन्मन्त्रं तु मध्यमम् | तथा जपे तु प्रयुक्तं स्यात् कशिन्मन्त्रार्थसुश्रुतः | भूयो जपेत तन्मन्त्रं मध्यमां सिद्धिमिच्छतः || ९९, प्. ९९) तस्मा जन्तुविगते मन्त्रतत्त्वार्त्थसुश्रुते | विवेके विगतसम्पाते जपेन्मन्त्रं तु जापिनः || चतुर्थे रात्रिभागे तु तदर्ध अर्ध एव तु | ताम्रारुणे युगमात्रे च उदिते रविमण्डले || प्रथमं सन्ध्यमेवं तु कथितं मुनिपुङ्गवैः | युगमात्रं चतुर्हस्तो मध्यमो परिकीर्तितः || अतो व्योम्ने दिते भानोः मन्त्रजापं तदा त्यजेत् | मन्त्रजापं तदा त्यक्त्वा विसर्ज्यार्घं ददौ व्रती || शेषकालं तदाद्युक्तो कुशलेऽस्मिन् शासने मुनौ | सद्धर्मवाचनादीनि प्रज्ञापारमितादयः || पुस्तका दशभूमाख्याः पूज्या वाच्यास्तु वै सदा | कालमागम्य तस्मा वै प्रणम्य जिनपुङ्गवां || स्वमन्त्रं मन्त्रनाथं च ततो गच्छेन्न जीविकम् | कालचारी तथा युक्तो कालभोजी जितेन्द्रियः || धार्मिको साधकोद्युक्तो प्रसन्ने बुद्धशासने | प्रविशेद् ग्रामान्तरं मौनी शौचाचाररतो सदा || गृहे तु धार्मिके सत्त्वे प्रविशेद् भिक्षां जपी सदा | निष्प्राणोदकसंसिद्धे वाके शुचिसम्मते || सम्यग् दृष्टिसपत्नीके प्रसन्ने बुद्धशासने | तथाविधे कुले नित्यं भिक्षार्त्थी भिक्षमाददेत् || यथा योधः सुसन्नद्धो प्रविशेद् रणसङ्कटम् | अरीन् मर्दयते नित्यं रिपुभिर्न च इन्यते || एवं मन्त्री सदा ग्रामं प्रविशेद् भिक्षानुजीविनः | रञ्जनीने ****** (?) रूपं शब्दांस्तुनै शुभाम् || रागप्रश**** (?) इत्येदशुभा ***(?) | दृष्ट्वा कलेवरं स्त्रीषु यौवनाचारभूषितम् || १००, प्. १००) भावयेदशुचिदुर्गन्धं पूतिमूत्रादिकुत्सितम् | क्रिमिभिः क्लिन्नः श्मशानस्थं अनिलं दुःखं कलेवरम् || वालिशा यत्र मूढा वै भ्रमन्ति गतिपञ्चके | ग्रथिता कर्मसूत्रैस्तु चिरकालाभिशोभिनः || अज्ञानावृतमूढास्तु जात्यन्धा दुःखहेतुकाः | विपरीतधियो यत्र सक्ताः सीदन्ति जन्तवः || विविधैः कर्मनेपत्थैः अनेकाकाररञ्जिताः | दीर्घदोलाभिरूढास्तु गमनागमनेषु चेक्षिताः || नृत्यतायैव युक्तस्तु चरणाकारचेष्टिता | सीदन्ति चिरमध्वानं यत्र सत्त्वा शुचे रताः || अरघट्टघटाकारं भवार्णवमलोद्भवाः | न क्षयं जन्म तेषां वै दुःखवारिसंमप्लुताम् || दुःखमूलं तथा ह्युक्तो स्त्रिया बुद्धैस्तु केवलः | श्रावकैर्बोधिसत्त्वैस्तु प्रत्येकमुनिभिस्तथा || एतन्महार्णवं दुःशोषं अक्षोभ्यं भवसागरम् | यत्र सत्त्वानि मज्जन्ते स्त्रीषु चेतनवञ्चिताः || नरकं तिर्यलोकं च प्रेतलोकं च साअसुरम् | मानुष्यं लोकं वै दिव्यं दिव्यं चैव गतिः सदा || पर्यटन्ति समन्ताद्वै अशक्ताः स्त्रीषु वञ्चिताः | निमज्जन्ते महापङ्कात् संसारार्णवचारकात् || स्त्रीषु सक्ता नरा मूढा कुणमेणैव क्रोष्टुकाः | यत्र सत्त्वा रता नित्यं तीव्रां दुःखां सहन्ति वै || निर्नष्टशुक्लधर्माणां प्रतिष्टां बुद्धशासने | निवारयन्ति सर्वाणि दुःखा नैव भवार्णवे || मन*****द्युक्ताः महे*****(?)स्विनः | तेजरि****तमित्राः तेषां दुःखे न विद्यते || १०१, प्. १०१) संयता ब्रह्मसत्यज्ञा गुरुदेवतपूजकाः | मातृपितृभक्तानां स्त्रीषु दुःखं न विद्यते || अनित्यं दुःखतो शून्यं परमार्त्थानुसेविनाम् | मण्डशल्यं तथाभूतं जापिनां स्त्रीकलेवरम् || रागी वालिशदुर्बुद्धिः संसारादपलायितः | स्त्रीप्रसक्तो भवेन्नित्यं तस्य सिद्धिर्न विद्यते || न तस्य गतिरुत्कृष्टा न चापि गतिमध्यमा | कन्यसा नापि सिद्धिश्च दुःशीलस्येह जापिने || दुःशीलस्य मुनीन्द्रेण मन्त्रसिद्धिर्न चोदिता | न चापि मार्गं दिदेशं वै निर्वाणपुरगामिनम् || कुतः सिध्यन्ति मन्त्रा वै वालिशस्येह कुत्सिते | न चापि सुगतिस्तस्य दुःशीलस्येह जन्तुनः || न चापि नाकपृष्ठं वै न च सौख्यपरायणः | कः पुनः सिद्धिमेवं स्यान्मन्त्राणो जिनभाषिताम् || छिन्नो वा तालवृक्षस्तु मस्तके तु यदा पुनः | अभव्ये हरितत्त्वाय अङ्कुराय पुनः कार्या || एवं मन्त्रसिद्धिस्तु मूढस्येह प्रकीर्तिता | दुःशीलो पापकर्मस्तु स्त्रीषु सङ्गी पुनः सदा | अकल्याणमित्रसम्पर्की कुतः सिध्यन्ति मन्त्रराट् || तस्मा दान्तो सदा जापी स्त्रीदोषमविचारकः | सङ्गं तेषु वर्जीत सिद्धिस्तेषु विधीयते || नान्येषां कथिता सिद्धिः वालिशां स्त्रीषु मूर्छिताम् | अव्यग्ररतो धीमां शुचिर्दक्षमसङ्गकृत् || कुलीनो दृढशूरश्च सौहृदो प्रियदर्शनः | धर्माधर्मविचारज्ञो सिद्धिस्तेषां न दुर्लभा || एवं प्रवृत्तो मन्त्रज्ञो * * * * (?) सार्त्थमाविशे | यथाभिरुचितं गत्वात्र स्थानं पूर्वकल्पितम् || १०२, प्. १०२) भुञ्जीत गत्वा देशे तु कल्पिकं * * * * * (?) | शुचौ देशे तु संस्थाप्य भिक्षाभागनशुद्धधीः || पादौ प्रक्षाल्य बहिर्गत्वा तस्मादावसयात् पुनः | निःप्राणके तदा अम्भे प्रथमं जङ्घमेव तु || द्वितीय वामहस्तेन जङ्घं चाश्लिष्य चाघृषे | अपसव्यं पुनः कृत्वा हस्तं प्रक्षाल्य मृत्तिकैः || पूर्वसंस्थापितैः शुद्धैः शुचिभिः सप्त एव तु | मन्त्रपूतं ततो चौक्षं शुचिनिर्मलभाजने || गृह्य गोमयसुद्यं तु कपिलागौपरिश्रुते | निष्प्राणकाम्भसंयुक्ते कुर्या शास्तुर्मण्डमण्डलम् || प्रथमं मुनिवरे कुर्यात् हस्तमात्रं विशेषतः | द्वितीयं सुमन्त्रनाथस्य तृतीयं कुलदेवते || य जापिनो यदा मन्त्री तत् कुर्यात्तु सदा पुनः | चतुर्त्थं सर्वसत्त्वानामुपभोगं तु कीर्त्यते || दक्षिणे लोकनाथस्य मण्डले तु सदा इह | रत्नत्रयाय कुर्यात्तं मण्डलं चतुरश्रकम् || द्वितीयं प्रत्येकबुद्धानां तृतीयं दशबलात्मजैः | इत्येते मण्डलाः सप्त चतुरश्रा समन्ततः || हस्तमात्रार्धहस्तं वा कुर्या चापि दिने दिने | गुप्ते देशे तदा जापी प्रत्यहं पापनाशना || ततोत्थाय पुनर्मन्त्री हस्तौ प्रक्षाल्य यत्नतः | उपस्पृश्य जले चौक्षे शुद्धे प्राणकवर्जिते || निर्मले शुचिने यत्नात् शुचिभाण्डे तदाहृते | महासरे प्रस्रवणे वापि औद्भवे सरितासृते || शुचिदेशसमापाते शुचिसत्वकरोद्धृते | उपस्पृश्य पुनर्मन्त्री द्वे त्रयो वा सदा पुनः || *(?)सृशेत ****(?) कर्णश्रौत्रो तथैव च | * * * * * * * * (?) अक्ष्णौ नासापुटौ ** (?) || १०३, प्. १०३) मूर्ध्नि नाभिदेशे च संस्पृशेत् शुभवारिणा | वारां पञ्चसप्तं वा कुर्यात् सर्वं यथाविधिम् || शौचाचारसम्पन्नो शुचिर्भूत्वा तु जापिनः | भिक्षाभाजनमादाय गच्छेत् सलिलालयम् || यत्र प्रतिष्ठिता वारि निम्नगा चोद्भवे तथा | नदीप्रस्रवणादिभ्यो भिक्षां प्रक्षालयेत् सदा || ततोत्थाय पुनर्गच्छे विहारमावसथं तु वै | पूर्वसन्निश्रितो यत्र वशे तत्र तु तं व्रजेत् || गत्वा तं तु वै देशं न्यसेत् पात्रं तं जपी | उपस्पृश्य ततः क्षिप्रं गृह्य पात्रं तथा पुनः || पात्रे मृन्मये पर्णे राजते हेम्न एव वा | ताम्रे वल्कले वापि दद्यात् शास्तुर्निवेदनम् || निवेद्यं शास्तुनो दद्यात् स्वमन्त्रं मन्त्रराट् पुनः | एकं तिथिमागम्य दुःखितेभ्योऽपि शक्तितः || नातिप्रभूतं दातव्यं निवेद्यं चैव सर्वतः | नात्मानुपाया मन्त्रज्ञो कुर्याद् युक्ता तु सर्वतः || कुक्षिमात्रप्रमाणं तु स्थाप्यमानं ददौ सदा | न बुभुक्षापिपासार्त्ता शक्तो मन्त्रार्त्थसाधने || नात्याशी मल्पभोजी वा शक्तो मन्त्रानुवर्तने | अत एव जिनेन्द्रेण कथितं सर्वदेहिनाम् || आहारस्थितिसत्त्वानां येन जीवन्ति मानुषाः | देवासुरगन्धर्वनागयक्षाश्च किन्नराः || राक्षसाः प्रेतपिशाचाश्च भूतोस्तारकसग्रहाः | नासौ संविद्यते कश्चिद् भाजने योऽवहितपेक्षिणः || औदारिक* * * * * * * * * (?) कीर्तिताः | सूक्ष्माहारि* * * * * * * * (?)गतः || ध्यानाहारिणा * * * * * * * * (?) वेष्टिता | आरूप्याश्च देवा वै* * * * * * (?) भोजिनः || १०४, प्. १०४) अन्तराभवसत्त्वाश्च गत्वाहाराः प्रकीर्तिताः | कामधातौ तथा सत्त्वा विचित्राहारभोजनाः || कामिकोऽसुरमर्त्यानां कवलिकाहारभोजनाः | अत एव जिनेन्द्रैस्तु कथितं धर्महेतुभिः || आहारस्थिति सत्त्वानां सर्वेषां च प्रकीर्तिता | जापिनो नित्ययुक्तस्तु मात्रा एव भुजक्रिया || शक्तो हि सेवितुं मन्त्रा भोजनेऽस्मिं प्रतिष्ठितः | आचारपरिशुद्धस्तु कुशलो ब्रह्मचारिणः || मात्रज्ञता च भक्तेस्मिं सिद्धिस्तस्य न दुर्लभा | यथैवाक्षपभ्यज्य शाकटी शकटस्य तु || चिरकालाभिस्थित्यर्त्थं भारोद्वहनहेतवः | तथैव मन्त्री मन्त्रज्ञो आहारं स्थितये ददौ || कलेवरस्य याप्ययाव्यर्त्थं पोषयेत सदा जपी | मन्त्राणां साधनार्थाय बोधिसम्भारकारणा || जपेन्मन्त्रं तथा मर्त्ये लोकानुग्रहकारणात् | अत एव मुनिः श्रेष्ठो इत्युवाच महाद्युतिः || काश्यपो नाम मामेन पुरा तस्मिं सदा भुवि | श्रेयसार्त्थं हि भूतानां इदं मन्त्रं प्रभाषत || दुःखिनां सर्वलोकानां दीनां दारिद्र्यखेदिनाम् | आयासोपरतां क्लिष्टां तेषामर्थाय भाषितम् || श्रेयसायैव भूतानां संसृतानां तथा पुनः | आहारार्त्थं तु भूतानां इदं मन्त्रवरं वदेत् || शृण्वन्तु श्रावकाः सर्वे बोधिसनिश्रिताश्च ये | मह्येदं वचनं मन्त्रं गृह्णत्वं व्याधिनाशनम् || क्षुद्व्याधिपो**(?) तु ये तु गत्त्वा पिपासिता | सर्वदुःखोपशा ******** (?) लोकाक्षिणः || ***** (?) मुनिप्रख्ये काश्यपेकृतौ महाद्युतिः | *** (?) तुष्टमनसो प्रार्त्थयामास तं विभुम् || १०५, प्. १०५) वदस्व मन्त्रं धर्मज्ञो धर्मराजा महामुनिः | सत्त्वानुकम्पकः अग्रो समगो पत्युपस्थितः || इत्युक्त्वा मुनिभिः अग्रो मन्त्रं भाषेत विस्तरम् | कालविऽऽण्करुताघोषा दुन्दुभीमेघनिस्वनः || ब्रह्मस्वरो महावीर्यो ब्रह्मणो ह्यग्रणी जिनः | शृण्वन्तु भूतसङ्घा वै ये केचिदिहागताः || अपदा बहुपदा चापि द्विपदा चापि चतुष्पदाः | संक्षेपतो सर्वसत्त्वार्थं मन्त्रं भाषे सुखोदयम् || अतीतानागता सत्त्वा वर्तमाना इहागताः | संक्षेपतो नु वक्ष्यामि शृण्वध्वं भूतकांक्षिणम् || इति | नमः सर्वबुद्धानामप्रतिहतशासनानाम् || तद्यथा - ओं गगने गगनगञ्जे आनय सर्वं लहु लहु समयमनुस्मर आकर्षाणि मा विलम्ब यथ्प्सितं मे सम्पादय स्वाहा | इत्येवमुक्त्वा भगवं काश्यपः तूष्णी अभूत् || अत्रान्तरे भगवता काश्यपेन सम्यक् सम्बुद्धेन विद्यामन्त्रपदानि सविस्तराणि सर्वं तं गगनं महार्हभोजनपरिपूर्णमेघं सन्दृश्यते स्म | सर्वं तं त्रिसाहस्रं महासाहस्रलोकधातुं भोजनमेघसञ्छन्नगगनतलं सन्दृश्यते स्म | यथाशयसत्त्वभोजनमभिकांक्षिणं यथाभिरुचितमाहारं तत्तस्मै प्रवर्तते स्म | यथाभिरुचितैश्चाहारैः भोजनकृत्यं क्षुद्दुःखप्रशमनार्थं पिपासितस्य पानं पानीयं चाष्टाङ्गोपेतं वारिधारं तत्रैव मनीषितं निपतति स्म || सर्वसत्त्वाश्च तस्मिं समये तस्मिं क्षणे सर्वक्षुद्व्याधिप्रशमनपर्वतृपापनयनं च कुतामभूत् | सा च सर्वावती सर्वत् आश्चर्यप्राप्तो *****(?)प्राप्तो भ***(?) भाषितम****(?) अनुमोद्य भगवतः पादौ शि****(?)दत्वा *****(?)न्तर्हिता | ****** (?) काश्यपश्च तथागतावहारैः विहारियुरिति मया च भगवता शाक्यमुनिनाप्येतर्हि भाषिता चाभ्यनुमोदिता च || १०६, प्. १०६) अस्मिं कल्पराजोत्तमे सर्वसत्त्वानामर्थाय क्षुत्पिपासापनयनार्थं सर्वमन्त्रजापिनां च विशेषतः पूर्वं तावज्जापिना इमं मन्त्रं साधयितव्यम् | यदि नोत्सहेद् भिक्षामटितुं पर्वताग्रमभिरुह्य षड् लक्षाणि जपेत् त्रिशुक्लभोजी क्षीराहारो वा | ततो तत्रैव पर्वताग्रे आर्यमञ्जुश्रियस्य मध्यमं पटं प्रतिष्ठाप्य पूर्ववन्महतीं पूजां कृत्वा उदारतरं च वलि निवेद्यम् | अनेनैव काश्यपसम्यक्सम्बुद्धैर्भाषितेन मन्त्रेण खदिरसमिद्भिरग्निं प्रज्वाल्य औदुम्बरसमिधानां दधिमधुघृताक्तानां सार्द्राणां वितस्तिमात्राणां श्रीफलसमिधानां अष्टसहस्रं जुहुयात् || ततोऽर्धरात्रकालसमये महाकृष्णमेघवातमण्डली आगच्छति | न भेतव्यम् | नाप्योत्थाय प्रक्रमितव्यम् | आर्यमञ्जुश्रियाष्टाक्षरहृदयेन आत्मरक्षा कार्या मण्डलबन्धश्च सहायानां च पूर्ववत् | ततो सा कृष्णवातमण्डली अन्तर्धीयते | स्त्रियश्च सर्वालङ्कारभूषिताः प्रभामालिनी दिशाश्चावभास्यमाना साधकस्याग्रतो कुर्वते | उत्तिष्ठ भो महासत्त्व ! सिद्धास्मीति | गतः साधकेन गन्धोदकेन जातीकुसुमसन्मिश्रेण अर्घो देयः | ततः सा तत्रैवान्तर्धीयते | तदह एव आत्मपञ्चविंशतिमस्य सहायैर्वा यथाभिरुचितैः कामिकं भोजनं प्रयच्चह्ति | यथेष्टानि चोपकरणानि सन्दधाति | ततः साधकेन विसर्ज्यार्घं दत्त्वा पटं त्रिः प्रदक्षिणीकृत्य पटमादाय सर्वबुद्धबोधिसत्त्वान् प्रणम्य यथेष्टं स्थानं साधनोपयिकं पूर्वनिर्दिष्टं महारण्यं पर्वताग्रं वा निर्मानुषं वा स्थानं गन्तव्यम् || तत्रात्मनः सहायैर्वा उडयं कृत्वा प्रतिवस्तव्यम् | प्रतिवसता च तस्मिं स्थाने आकाशगमनादिकर्माणि कुर्यात् | ततो साधकेन पूर्ववत् कुशविण्डकोपविष्टेन मध्यमं पटं प्रतिष्ठाप्य प्रतिष्ठाप्य पूर्ववत् खदिरकाष्ठैरग्निं प्रज्वाल्य त्रिसन्ध्यं श्वेतपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् दिवसान्येकविंशति || ततोऽर्धरात्रकालसमये होमान्ते आर्यमञ्जुश्रियं साक्षात् पश्यति | ईप्सितं वरं ददाति | आकाशगमनमन्तर्धानबोधिसत्त्वभूमिप्रत्येकबुद्धत्वं १०७, प्. १०७) श्रावकत्वं पञ्चाभिज्ञत्वं वा दीर्घायुष्कत्वं वा महाराज्यमहाभोगतायैर्वा नृपप्रियत्वं वा | आर्यमञ्जुश्रिया सार्धमन्त्रविचरता संक्षेपतो वा यन्मनीषितं तत् सर्वं ददाति | यं वा याचते तमनुष्टयच्छति | सिद्ध्यद्रव्याणि वा सर्वाणि लभते | आकर्षणं च महासत्त्वानां च करोति | संक्षेपतो यथा यथा उच्यते तत् सर्वं करोति | प्राक्तनं वा कर्मापराधं वा संशोधयतीत्याह भगवां शाक्यमुनिः || अपरमपि कर्मोपयिकमध्यमसाधनं भवति | आदौ तावत् तथा विशिष्टे स्थाने शुचौ देशे नद्याः पुलिनकूले वा पूर्ववत् सर्वं कृत्वा पश्चान्मुखं पटं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखो भूत्वा कुशविण्डकोपविष्टः पेयालं विस्तरेण कर्तव्यम् | त्रिसन्ध्यं षड् लक्षाणि जपेत् | जपपरिसमाप्ते च कर्णिकारपुष्पाणां शुक्लचन्दनमिश्राणां कुङ्कुममिश्राणां वा शतसहस्राणि जुहुयात् | पूर्ववत् तथैवाग्निं प्रज्वाल्य होमपर्यवसाने च पटप्रकम्पने मन्त्रित्वं पटरश्म्यवभासे निश्चरिते च रश्मौ राज्यं पटसमन्तज्वालमालाकुले चतुर्महाराजकायिकराज्यत्वं वाक्निश्चरणे पटे त्रयः त्रिदशेश्वरत्वं शक्रत्वं पटधर्मदेशननिश्चरणे बोधिसत्त्वत्रिभूमेश्वरत्वं पटबाहुमूर्ध्नि स्पर्शने पञ्चाभिज्ञासप्तभूमिमनुप्रापणदशबलनियतमनुपूर्वप्रापणमिति || अथ साधकेन भगवंकाश्यपभाषितने मन्त्रे साधिते कृत्पिपासाप्रतिघातार्थमनुप्राप्ते तेनैव विधिना तेनैवोपकरणेन मन्त्रचर्यार्थसाधनोपयिके धर्मे समनुष्ठेयम् | नान्यथा सिद्धिरिति || एवमनुपूर्वमन्त्रचर्यामनुवृत्तिः समतोरनुष्ठेया नियतं सिद्ध्यति | द्रव्योपकरणोषध्यपि शेषाणि मणिरत्नानि यथापूर्वनिर्दिष्टानीति || मन्त्रज्ञो मन्त्रजापी च विधिराख्यातमानसः | तस्मिं देशे तदा मन्त्री शुचिजश्वेतदोदनम् || भुक्त्वा तु तुष्टमनसो परिपुष्टेन्द्रियः सदा | गृहनं पात्रशेषं तु सरिद् गच्छे शोभोदके || एकान्ते स्थोरयित्वा तु तिर्येभ्यो ददौ व्रती | तिर्येभ्यो तु दत्वा वै पात्रं प्रक्षाल्य यत्नतः || १०८, प्. १०८) मृन्मयं तु पुनः पाकं ततः कुर्वत यत्नतः | शेषपात्रं तु कुर्वीत निस्नेहं निरामिषम् || गन्धं चैव सन्त्याज्य शेषपात्रं मुनिर्वरः | यस्मिन् पात्रे अटे भिक्षां न जग्धे तत्र भोजनम् || न भक्षे तत्र भक्षाणि फलद्रव्याणि तु सदा | न भुञ्जेत् पद्मपत्रेण न चापि कुवलयोद्भवैः || सौगन्धिकेषु वर्जीत न भुङ्क्ते तत्र मन्त्रिणः | कौमुदा ये च पत्रा वै प्लक्षोदुम्बरसम्भवा || न चापि वटपत्रैस्तु कर्णशाकोगौल्मिणाम् | न चापि आम्रपत्रेषु तथा पालाशमुद्भवैः || शालपत्रैः शिरीषैश्च बोधिवृक्षसमुद्भवैः | यत्रासौ भगवां बुद्धः शाक्यसिंहो निषण्णवां || तं वृक्षं वर्जयेद् यत्नात् तत्काष्ठं चापि न खनेत् | नागकेसरवृक्षेषु न कुर्यात्पत्रशातनम् || नापि भुङ्क्ते कदा कस्मिं सर्वे ते वर्जिता बुधैः | नापि लङ्घेत् कदा मोहा मुनीनां पर्णशालिनाम् || समयाद् भ्रश्यते मन्त्री तेषां पर्णेषु भोजने | अन्यपर्णैर्न भुञ्जीत भोजनं तत्र मन्त्रिणः || मृन्मये ताम्रनिर्दिष्टैः तथा रूप्यैः सातमुद्भवैः | स्फटिकैः शैलमयैर्नित्यं तथा भोजनमाददे || न भुङ्क्ते पर्णपृष्ठैस्तु तथा हस्ततले तथा | निवेद्यसम्भवा ये पर्णा मारारेर्दशवलात्मजां || प्रत्येकखड्गिणां ये च तथा श्रावकपुङ्गलाम् | वर्जते तं जपी पर्णं पद्भ्यां चैव न लङ्घयेत् || विविधां भक्षपूषां तु तथा पानं च भोजनम् | न मन्त्री आददे यत्नात् सर्वं चैव निवेदितम् || १०९, प्. १०९) जिनानां जिनचाराणां च तथा श्रावकपुङ्गलाम् | रत्नत्रयेऽपि दत्तं वै तं जापी वर्जयेत् सदा || मन्त्रास्तस्य न सिद्ध्यन्ते स्वल्पमात्रापि देहिनाम् | कः पुनः श्रेयसा दिव्यं सर्वमङ्गलसम्मताम् || पौष्टिकं शान्तिकं चैव सर्वाशापरिपूरिणम् | न सिद्ध्यन्ति तदा तस्य निवेद्य वलिभोजिनः || शुचिनो दक्षशीलस्य घृणिनो धार्मिणस्तथा | सिद्ध्यन्ति मन्त्राः सर्वत्र शौचाचाररतस्य वै || अन्न सर्वेषु दत्त्वाद्यं न भुङ्क्ते तत्र जापिनः | अन्यमन्नं न भुञ्जीत भुञ्जीतान्येभ्यो प्रतिपादितम् || भोजनं स्वल्पमात्रं तु स्वदत्तं चापि आददे | य एव प्रवृत्तो मन्त्रज्ञो तस्य सिद्धि करे स्थिता || अनेन विधिना तं जापी भोजनं आददेद् व्रती | मुनिभिः सम्प्रशस्तं तु सर्वमन्त्रेषु साधने || विधिदृष्टां समासेन सर्वभोजनकर्मसु | अतः परं प्रवक्ष्यामि मन्त्रं सर्वशोधने || उपस्पृश्य ततो जापी इदं मन्त्रं पठेत् सदा | सप्तवारां ततो मन्त्री जपित्वा कायशोधनम् || शृणु तस्यार्थविस्तारं भूतसङ्घानुदेवता | सर्वकायं परामृश्य इदं मन्त्रं वदेन्मुनी || नमः सर्वबुद्धानामप्रतिहतशासनानाम् | तद्यथा - ओं सर्वकिल्विषनाशनि ! नाशय नाशय सर्वदुष्टप्रयुक्तां समयमनुस्मर हूं जः स्वाहा || अनेन मन्त्रेण भिक्षोदनं यं वा अन्यं परिभुङ्क्ते स मन्त्राभिमन्त्रितं कृत्वा परिभोक्तव्यः | भुक्त्वा चोपस्पृश्य पूर्ववत् मूर्ध्नप्रति सर्वं कायं परामृज्य ततो विश्रान्तव्यम् | विश्राम्य च मुहूर्तं अर्धार्घेटयाप्तं वा ततः पटमभिवन्द्य सर्वबुद्धानां सद्धर्मपुस्तकां वाचयेत् | ****(?)पारमित आर्यचन्द्रप्रदीपसमाधिं आर्यदशभूमकः आर्यसुवर्णप्रभासोत्तमः आर्यमहामायूरी आर्यरत्नकेतुधारिणीम् | ११०, प्. ११०) एषामन्यतमान्यतमं वाचयेद् युगमात्रसूर्यप्रमाणतालम् | ततो परिनाम्य यथापरिशक्तितश्च वाचयित्वा पुस्तकामुत्सार्य शुचिवस्त्रप्रच्छन्नां वा कृत्वा सद्धर्मं प्रणम्य ततो स्नानायमवतेरे नदीकूलं महाह्रदं वा गत्वा निष्प्राणकां मृत्तिकां गृह्य सप्तमन्त्राभिमन्त्रितां कृत्वा अनेन मन्त्रेण जलं क्षिपेत् | कतमेन || नमः समन्तबुद्धानामप्रतिहतशासनानाम् | तद्यथा - ओं सर्वदुष्टां स्तम्भय हूं इन्दीवरधारिणे कुमारक्रीडरूपधारिणे वन्ध वन्ध समयमनुस्मर स्फट् स्फट् स्वाहा | अनेन तु रक्षां कृत्वा दिशाबन्धं च सहायानां च मण्डलबन्धं तुण्डवन्धं सर्वदुष्टप्रदुष्टानां सर्वाकर्षणं च शुक्रबन्धं सप्तजप्तेन सूत्रेण कटिप्रदेशावबद्धेन सर्वतश्च पर्यटेत् | जपकाले च सर्वस्मिं सर्वकालस्नानकाले च दुष्टविघ्नविनाशनसुप्रशमनार्थमस्य मन्त्रस्य लक्षमेकं जपेत् | ततः सर्वकर्माणि करोति | पञ्चशिखमहामुद्रोपेतं न्यसेत् सर्वकर्मेषु | सर्वां करोति नान्यथा भवतीति || ततः साधकेन मृद्गोमयचूर्णादीं गृह्य स्नायीत यथासुखम् | निष्प्राणकेनोदकेन स्नातव्यम् | सर्वत्र च सर्वकर्मसु निष्प्राणकेनैव कुर्यात् | ततो स्नात्वा मृद्गोमयानुलेपनैरन्यैर्वा सुगन्धगन्धिभिश्चोपकरणविशेषैः नापि सलिले खेटमूत्रपुरीषादीनुत्सृजेत् | सलिलपीकधारां वा नोत्सृजे | नापि क्रीडेत् करुणायमानः सर्वसत्त्वानामात्मनश्च प्रत्यवेक्ष्य अनात्मशून्यदुःखोपरुद्धवेदनाभिनुन्नं रूर्णमिव मातृविप्रयोगदुःखितसत्त्वो | एवं साधनरहितो मन्त्रज्ञो हि तथाविधं शतनपतनविकिरणविध्वंसनादिभिः दुःखोपधानैरुपरुद्ध्यमानं संसारार्णवगहनस्थमात्मानं पश्येत् | अलयनमन्त्राणमशरणं अदीनमनसमात्मानमवेक्ष्य | ध्यायीत कण्ठमात्रमुदकस्थो नाभिमात्रमुदकस्थितो वा तत्रैव तु जलमध्ये चित्तैकाग्रतामुपस्थाप्य || प्रथमं तावन्महापद्मविटपं महापद्मपुष्पोपेतं महापद्मपत्रोपशोभितं चारुदर्शनरत्नमयं वैदूर्यकृतगण्डं मरकतपतं पद्मकेसरं स्फटिकसहस्रपत्रं अतिविकसितं तदा न जातस्फटिकपद्म*******(?)पोपशोभितं १११, प्. १११) तत्रस्थं सिंहासनं रत्नमयमनेकरत्नोपशोभितं दुष्पयुगप्रतिच्छन्नं तत्रस्थं वृद्धं भगवन्तं ध्यायीत धर्मं देशयमानं कनकावदातं समन्तज्वालमालिनं ध्याय प्रभामण्डलमण्डितं महाप्रमाणं व्योम्निरिव ऊल्लिखमानं पर्यङ्कोपनिषण्णम् | दक्षिणतश्च आर्यमञ्जुश्रीः सर्वालङ्कारवरोपेतं पद्मासनस्थं चामरग्राही भगवतः स्थितको नो निषण्णः रक्तगौराङ्गः पिष्टकुङ्कुमवर्णो वा वामतश्च आर्यावलोकितेश्वरः शरत्काण्डगौरं चमरव्यग्रहस्तः | एवमष्टौ बोधिसत्त्वाः आर्यमैत्रेयः समन्तभद्रः क्षितिगर्भः गगनगञ्जः सर्वनीवरणविष्कम्भी अपायजह आर्यवज्रपाणि सुधनश्चेत्येते दश बोधिसत्त्वाः दक्षिणतो प्रत्येकबुद्धाः अष्टौ ध्यायीत | चन्दनः गन्धमान्दनः केतुः सुकेतु सितकेतु ऋष्ट-उपारिष्टनेमिश्चेति | अष्टौ महाश्रावकाः तत्रैव स्थाने | तद्यथा - आर्यमहामौद्गल्यायन शारिपुत्र गवाम्पति पिण्डोल भरद्वाज पिलिन्दवत्सः आर्यराहुलः महाकाश्यप आर्यानन्दश्चेति | इत्येषां महाश्रावकाणां समीपे अनन्तं भिक्षुसङ्घं ध्यायीत | प्रत्येकबुद्धानां समीपे अनन्तां प्रत्येकबुद्धां ध्यायीत | महाबोधिसत्त्वानां चाष्टासु स्थानेषु अनन्तं बोधिसत्त्वसङ्घं ध्यायीत || एवं शस्तं नभस्तलं महापर्षन्मण्डलोपेतं ध्यायीत | आत्मनश्च नाभिमात्रोदकस्थो नानाविधैः पुष्पैः दिव्यमानुष्यकैः मान्दारवमहामान्दारव पद्ममहापद्मधातुःकारिक-इन्दीवरकुसुमैश्च नानाविधैः महाप्रमाणैः महाकूटस्थैः पुष्पपुटैः भगवतः पूजां कुर्या | सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वानां चूर्णच्छत्रध्वजपताकैः दिव्यमानुष्यकैः प्रभूतैः प्रदीपकोटीनयुतशतसहस्रैश्च पूजां कुर्यान्मनोरमाम् || एवं च बलिधूपनिवेद्यादिसर्वपूजोपस्थानान्युपकरणानि दिव्यमानुष्यकान्युपहर्तव्यानि | भगवतश्च शाक्यमुने ऊर्णकोशाद्रश्मिमभिनिश्चरन्तं चात्मानमवभास्यमानं सर्वासां ध्यायीत | समनन्तरध्यानगतस्य *(?)पिनः ब्राह्मपुण्यफलावाप्तिः नियतं बोधिपरायणो भवतीति || इत्येवमादयो ध्यानाः कथिता लोकपुङ्गवैः | श्रेयसः सर्वभूतानां हितार्थं चैव मन्त्रिणाम् || ११२, प्. ११२) आदिमुख्यो तदा ध्यानो हितार्थं सर्वमन्त्रिनाम् | कथयामास सत्त्वेभ्यो मुनिः श्रेष्ठोऽथ सत्तमः || मण्डलाकारतद्वेषप्रथमे मुनिभाषिते | द्वितीयं मण्डलं चापि तृतीयं मन्त्रमतः परम् || प्रथमे उत्तमा सिद्धिः मध्यमे तु तथा परम् | कन्यसे क्षुद्रसिद्धिस्तु निगम्य मुनिपुङ्गवः || पटाकारं तथा ध्यानं ज्येष्ठमध्यमकन्यसाम् | समासेन तु तद्ध्यानं सर्वकिल्विषनाशनम् || नातःपरं प्रपद्येत ध्यानाकारमनीषिणः | सिद्ध्यन्ति तस्य मन्त्रा वै ध्यानेऽस्मिं सुप्रतिष्ठिताः || यथेष्टं विधिनाख्यातं ध्यानं ध्यात्वा तु जापिनः | विसर्ज्य तत्र वै मन्त्रं अर्घं दत्त्वा यथासुखम् || उत्तीर्य तस्माज्जलौघात्तु ततो गच्छेद् यथासुखम् | स्थानं पूर्वनिर्दिष्टं विधिदृष्टं सुसंयतम् || जपेन्मन्त्रं तदा मन्त्री पूर्वकर्म यथोदिते | विसर्ज्य मन्त्रं वै तत्र आहूता याश्च देवताः || ततो निकृत्वा रक्षा सहायानां वा तथैव च | कुशलो कर्मतत्त्वज्ञो विधिकर्मरतो मतः || विविधैः स्तोत्रोपहारैस्तु संस्तुत्वा अग्रपुङ्गलम् | स्वमन्त्रं मन्त्रनाथं च श्रावकां प्रत्येकखड्गिणा || बोधिसत्त्वां महासत्त्वां त्रैलोक्यानुग्रहक्षमां | ततोत्थाय पुनस्तस्मादासनान्मन्त्रजापिनः || दूरादावसथाद् गत्वा बहिर्वातान्तवर्जिताम् | विसृजेच्छटसिङ्घाणं मूत्रप्रस्रवणं तथा || दिवा उदङ्मुखं चैव रात्रौ दक्षिणामुखम् | न तत्र चिन्तयेदर्थां मन्त्रजापी कदाचन || ११३, प्. ११३) न जपेत्तत्र मन्त्रं वै स्वकर्मकुलभाषितम् | प्रशस्ता गतिचिह्लाद्यैः उपविष्टो तदा भुवि || उपस्पृश्य जले शुद्धे शुचिवस्त्रान्तगालिते | प्रक्षाल्य चरणौ जानोर्मृत्तिकैः सप्त एव तु || प्रश्रुतो सप्त गृह्णीयात् * * * * * * * * (?) | पुरीषस्रावणे त्रिंशत् उभयान्त करे उभौ | खेटच्छोरणे चैव सिङ्घाणे द्वयं तथा || उपस्पृश्य ततो यत्ना दूरादावसथा भुवि | शब्दमात्रं तथा गत्वा अध्वानादिषुक्षेपणा || ततो परे यथेष्टं तु दक्षिणान्तां दिशां वहिः | श्वभ्रकेदारमौषर्ये सिकतास्तीर्णे तथैव च || नदीवर्जां तु पारं चैत्यजेदवस्करदाशुचिम् | प्रच्छन्ने रहसि विश्रब्धो प्रान्ते जनविवर्जिते || तदा भवे तु विन्मन्त्री कुर्यात् पूतिच्छोरणम् | न मन्त्रजापी कालज्ञो कुर्याद् वेगविधारणम् || यथेष्टं ततो गत्वा देशं वै शुचिं प्रान्ते यथाविधि | कुटिः प्रस्रवणं कृत्वा तस्मिं देशे यथासुखम् || उडये वा रहसिच्छन्ने गुप्ते वा चैव भूतले | मौनी सङ्गवर्जीत कुर्यात् प्रस्रवणं सदा || विगते मूत्रपुरीषे तु कुर्यात् शौचं सदा व्रती | सुकुमारां सुस्पर्शपिष्टां तु मृत्तिकां प्राणवर्जिताम् || गृह्य तिस्रं तथा चैकं गुदौ सदा उभयान्ते च करौ तथा | गृह्य पूर्वं तु निर्दिष्टमन्त्रिणा च सदा भुवि || पादौ प्रक्षाल्य यत्नेन दक्षिणं तु ततः परम् | अन्योन्यनैवं संश्लिष्य पादा चैव सदा जपी || विस्तरः कथितं पूर्वं शौचं मन्त्रजापिनाम् | गन्धनिर्लेपशौचं तु कथितं शुचिभिः पुरा || ११४, प्. ११४) एतत् संक्षेपतो ह्युक्तं शौचं मन्त्रवातिनाम् | गन्धनिर्लेपतो शौचं शुचिरेव सदा भवेत् || दृश्यते सर्वतन्त्रेऽस्मिन् इत्युवाच मुनिप्रभुः | उपस्पृश्य ततो जापी सिद्धकर्मरतो यतिः || विधिना पूर्वमुक्तेन अन्तः शुद्धेन मान्सा | शौचं पञ्चविधं प्रोक्तं सर्वतन्त्रेषु मन्त्रिणाम् || कायशौचो तथा पा * * (?) ध्यानश्चैव कीर्त्यते | चतुर्थं सत्यशौचं तु आपः पञ्चम उच्यते || सत्यधर्मा जितक्रोधो तन्त्रज्ञः शास्त्रदर्शिनः | सूक्ष्मतत्त्वार्थकुशलाः मन्त्रज्ञः कर्मशालिनः || हेतुदध्यात्मकुशलाः सिद्धिस्तेषु न दुर्लभा | न भाषेद्वितथा पूजां सत्यधर्मविवर्जिताम् || क्रूरां क्रूरतरां चैव सर्वसत्यविवर्जिताम् | विद्वेषणीं सरोषां कर्कशां मर्मघट्टनीम् || सत्यधर्मविहीनां तु परसत्त्वानुपीडनीम् | पिशुनां क्लिष्टचित्तां च सर्वधर्मविवर्जिताम् || हिंसात्मकीं तथा नित्यं कुशीलां धर्मचारिणीम् | मन्त्रजापी सदावर्ज्या ग्राम्यधर्मं तथैव च || मिथ्यासं वक्रोधं वै परलोकातिभीरुणा | गर्हित. सर्वबुद्धेस्तु बोधिसत्त्वैस्तु धीमतैः || प्रत्येकखड्गिभिर्नित्यं श्रावकैश्च सदा पुनः | मृषावादं तथा लोके सिद्धिकामार्थिनां भुवि || नरका घोरतरं याति मृषावादोपभाषिणः | पुनस्तिर्यरभ्यो तथा प्रेते यमलोके सदा पुनः || वसते तत्रैव नित्यं मृषावादोपजीविनः | तपने दुर्मतिर्घोरे कालसूत्रे प्रतापने || ११५, प्. ११५) सञ्जीवेऽसिपत्रे च तथैव शाल्मलीवने | बहुकल्पां वसेत् तत्र मृषावादी तु जन्तुनः || कुतस्तस्य तु सिद्ध्यन्ते मन्त्रा वै मिथ्यभाषिणः | उद्वेजयति भूतानि मिथ्यावाचेन मोहितः | ततोऽसौ मूढकर्मा वै मन्त्रसिद्धिमपश्ययम् || एवं च वदते वाचां नास्ति सिद्धिस्तु मन्त्रिणाम् | कुतस्तस्य भवेत् सिद्धिः बहुकल्पा न कोटिभिः || प्रतिक्षिप्त येन बुद्धानां शासनं तु महीतले | ततोऽसौ पद्यते घोरे अविद्यां तु महाभये || सञ्जीवे कालसूत्रे च नरके च प्रतापने | महाकल्पं वसेत् तत्र सद्धर्मो मे विलोपनात् || निरये घोरतमसे पच्यन्ते वालिशा जनाः | सद्धर्मावमन्यं तु अन्धेन तमसा वृता || अज्ञाना बालभावाद्वा मूढा मिथ्याभिमानिनः | पतन्ति नरके घोरे विद्याराजावमन्य वै || तस्मात् पापं न कुर्वीत मिथ्याकार्यं च गर्हितम् | सद्धर्मं चावमन्यं वै मिथ्यादृष्टिश्च गर्हिताः || तस्मात् श्राद्धो सदा भूत्वा सेवेन्मन्त्रविधिं सदा | सत्यवादी च मन्त्रज्ञो सत्वानां च सदा हितः | भजेत मन्त्रं मन्त्रज्ञो ध्रुवं सिद्धिस्तु तस्य वै || करोति विविधां कर्मां उत्कृष्टाधममध्यमाम् | क्रिया हि कुरुते कर्म नाक्रिया हि हितं सदा || क्रियाकर्मसमायुक्तो सिद्धिस्तस्य सदा भवेत् | क्रियार्थसर्वमर्थत्वात् कर्ममर्थसदाक्रिया || अक्रियार्थं क्रियार्थं च क्रियाकर्म च युज्यते | सफलं चैव क्रिया यस्य क्रियां चैव सदा कुरु || ११६, प्. ११६) कृत्यं कर्मफलं चैवं कृत्यकर्मफलं सदा | अफलं फलतां यान्ति फलं चैव सदाफलम् || अफला सफलाश्चैव सर्वे चैव फलोद्भवाः | संयोगात् साध्यते मन्त्रं संयोगो मन्त्रसाधकः | असंयोगवियोगश्च वियोगो संयोगसाधकः || साध्यसाधनभावस्तु सिद्धिस्तेषु न सिद्ध्यते | सिद्धिद्रव्यास्तु सर्वत्र विरुद्धाः सिद्धिहेतवः || अप्रसिद्धा सिद्धमन्त्राणां मन्त्राः साधनकारणाः | कर्तुरीप्सिततमं कर्म कर्मरिप्सु क्रियाभवः || अकर्मं सर्वकर्मेषु न कुर्यात् कर्महेतवः | मन्त्रतन्त्रार्थयुक्तश्च सकलं कर्ममारभेत् || आरब्धं आरभेत् कर्म अकर्मां चैव नारभेत् | अनारम्भक्रिया मन्त्रा न सिध्यन्ते सर्वदेहिनाम् || पुरा गीतं मुनिभिः श्रेष्ठैः सर्वसद्धर्मभाषिभिः | समयं जिनपुत्राणां मन्त्रवादे तु दर्शितम् || साधकः सर्वमन्त्रज्ञो कल्पराजे इहापरे | देशितं मन्त्ररूपेण मार्गं बोधिकारणम् || सिध्यन्ति मन्त्राः सर्वे मे यत्र युक्ति सदा भवेत् | सोऽचिरेणैव कालेन सिद्धिं गच्छेन्मनीषिताम् || शिवार्थं सर्वभूतानां सम्बुद्धैस्तु प्र * * * (?) | * * * * * (?) रूपेण निर्वाणपुरगामिनाम् || बोधिमार्गं तथा नित्यं सर्वकर्मार्थपूरकम् | बुद्धत्वं प्रथमं स्थानं निष्ठं तस्य परायणम् || अनाभोगे तथा सिद्धिः प्राप्नुयात् सफलानिह | विचित्रकर्मधर्मज्ञा मन्त्राणां करणं भवेत् || शीलध्यानविमोक्षाणां प्राप्तिरेषा समासतः | कथिता जिनमुख्यैस्तु सिद्धिः सर्वार्थसाधना || ११७, प्. ११७) पुष्कलान् प्राप्नुयादर्थां उत्तमं गतिनिश्रयाम् | यक्षाध्यक्ष तथा नित्यं अधमा राज्यकारणा || नृसुरासुरलोकानां प्राप्नुयात् सर्वमन्त्रिणः | आधिपत्यं तथा तेषां कुरुते सफलां क्रियाम् || शौचाचारसमायुक्तो शीलध्यानरतः सदा | जपेन्मन्त्रं ततो मन्त्री सर्वमन्त्रेषु भाषिताम् || चित्रां कुरुते कर्मां तथा चोत्तममध्यमान् | कन्यसांश्चैव कुर्वीत भूतिमाकाङ्क्ष्य मन्त्रिणः || कन्यसे भोगवृद्धिस्तु मध्यमे चोर्ध्वदेहिनाम् | उत्कृष्टं चोत्तमेनैव सम्प्राप्नोति जापिनः || जपान्ते विश्रमेन्मन्त्री यावत् कालमुदीक्षयेत् | साधनं तत्र कुर्वीत प्राप्तकाले तु जापिनः || सिध्यन्ति सर्वकर्माणि तथापि तत्र नित्यं जापी पापक्षयाच्च पुंसाम् | करोति मन्त्री विधिपूर्वकर्म यत्तत् कृतं कर्मपरम्परासु || सिद्धिः स्थिता तस्य भवे कदाद्वा समग्रतां याव लभेत पुंसः | जपेत मन्त्रं पुन मन्त्रजापी पापक्षयार्थं तत कर्मनाशना || सिध्यन्तु मन्त्रास्तु तथोत्तमानि ये मध्यमा कन्यसलोकपूजिता | जपेन पापं क्षपयन्त्यशेषं यत्तत् कृतं जन्मपरम्परासु || नश्यन्ति पापा तथ सर्वदेहिनां करोति चित्रां विविधाङ्गभूषणाम् | मनोरमां सर्वगुणानुशालिनां यक्षे समावासनृपत्वनित्यम् || सर्वार्थसिद्धिं समवाप्नुवन्ति मन्त्रं जपित्वा तु तथागतानामिति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पाद् एकादशमपटलविसराच्चतुर्थः साधनोपयिककर्मस्थानजपनियमहोमध्यानशौचाचारसर्वकर्मविधिसाधन- पटलविसरः समाप्त इति | ११८, प्. ११८) अथ द्वादशः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः पुनरपि सर्वावन्तं शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणुत्वं मञ्जुश्रीः ! त्वदीयं विद्यामन्त्रानुसारिणां सकलसत्त्वार्थसम्प्रयुक्तानां सत्त्वानाम् | येन जाप्यन्ते मन्त्राः येन वा जाप्यन्ते अक्षसूत्रविधिं सर्वतन्त्रेषु सामान्यसाधनोपयिकसर्वमन्त्राणाम् | तं शृणु साधु च सुष्ठु च मनसि कुरु | भाषिष्ये || एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् | साधु भगवां ! तद् वदतु अस्माकमनुकम्पार्थं सर्वमन्त्रचर्यानुसमयप्रविष्टानां सत्त्वानामर्थाय सर्वसत्त्वानां च || एवमुक्ते मञ्जुश्रिया कुमारभूतेन भगवानस्यैतदवोचत् | शृणु त्वं मञ्जुश्रीः ! भाषिष्ये विस्तरविभागशोः येन सर्वमन्त्रचर्याभियुक्ताः सत्त्वाः सर्वार्थां साधयन्ति | कतमं च तत् || आदौ तावन्मन्त्रं भवति | नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् | तद्यथा - ओं कुरु कुरु सर्वार्थां साधय साधय सर्वदुष्टविमोहनि ! गगनावलम्बे ! विशोधय स्वाहा | अनेन मन्त्रेण सर्वाक्षसूत्रेषु कर्माणि कुर्यात् | शोधनवेधनगृह्णनविरेचनादीनि कर्माणि कुर्यात् प्रथममक्षसूत्रेण वृक्षं चाभिमन्त्रयेत् | सप्तत्रिंशतिवाराणि कृतरक्षो व्रती तदा | एकरात्रं स्वपे तत्र स्वप्ने चैव स पश्यति || अमनुष्यं रूपसम्पन्नं विरूपं वा चिरकालयम् | क्रवते तस्य सौमित्री गृह्यमर्थयथावनः || ततोऽसौ साधको गच्छेत् प्रातरुत्थाय तं तरुम् | चापि पश्यते स्वप्नं विरूपं वा महोत्कटम् || वर्जयेत् तं तरुं मन्त्री अन्यत्रं नाथ गच्छेय | प्रथमं रुद्रमक्षं तु इन्द्रमक्षमतः परम् || ११९, प्. ११९) पुत्रञ्जीवकभिष्टं वा अन्यं वा फलसम्भवः | वृक्षारोहसुसम्पन्नैः सहायैश्चापि मारुहेत् || सहायानामभावेन स्वयं वा आरुद्देज्जपी | ऊर्ध्वशाखाफलस्था * * * * * * * * * (?) || * * * * * * (?) तस्मिं ऊर्ध्वशाखाविनिर्गतः | ऊर्ध्वशाखां फलं गृह्य ऊर्ध्वकर्म प्रयोजयेत् || ऊर्ध्वे उत्तमा सिद्धिः कथितं ह्यग्रपुङ्गलैः | मध्यमे मध्यमा सिद्धिः कन्यसे ह्यधमेवतु || फलं तेषु समादाय अकुप्सां प्राणिभिः सदा | पश्चिमे शाखिनां प्राप्य सिध्यन्ते द्रव्यहेतवः || उत्तरे यक्षयोन्यादीं आनयेद्देवतां सह | कृत्यमाकर्षः ख्यातो सर्वभूतार्थशान्तये || देवतासुरगन्धर्वा किन्नरामथ राक्षसा | विधे सुकुरुते कर्मं सर्वभूतार्थपुष्टये || सफलां कुरुते कर्मां अशेषां भुवि चेष्टिताम् | पूर्वायां दिशि ये शाखा तत्रस्था फलसम्भवा || तेषु कुर्यात् सदा यत्नाद् दीर्घायुष्यार्थहेतवः | करोति विविधाकारां यत्र सिद्धिः फलैः सदा || या तु दक्षिणतो गच्छेत् शाखा पर्णानुशालिनी | तं जपी वर्जयेद् यस्मात् सत्त्वानां प्राणहारिणी || दक्षिणासृतशाखासु फला ये तु समुच्छ्रिता | अक्षैः तैः समं जप्याः शत्रूणां पापनाशनम् || तं जापी वर्जयेद् यत्नाद् बहुपुण्यानुहेतवः | अधःशाखावलम्बस्था फला ये तु प्रकीर्तिता || गच्छेद् रसातलं तैस्तु दान्वानां च योषिताम् | तैः फलैः अक्षसूत्रं तु गृहीता सम्प्रकीर्तिता || १२०, प्. १२०) अधो या यां तु निलयाः पातालं तेन तं व्रजेत् | प्रविश्य तत्र वै दिव्यं सौख्यमासाद्य जापिनः || आसुरीभिः समासक्तो तिष्ठेत् कल्पं वसेच्चसौ | गृह्य अक्षफलं सर्वां ततो अवतरेज्ज्रपी || कृतरक्षो सहायैस्तु ततो गच्छेद् यथासुखम् | गत्वा तु दूरतः स्थानं शुचौ देशे तथा नित्यम् || तिष्ठेत्तत्र तु मन्त्री शोधयेमक्षमुद्भवाम् | गृह्य अक्षफलद्युक्तो संशोध्यं वाथ सर्वतः || संशोध्य सर्वतः अक्षां वेधयेन्मन्त्रशालिनः | तृसप्तरष्ट एकं वा वारां ते एकविंशति || शोधयेन्मत्रसत्त्वज्ञो पूर्वमन्त्रेण तुः सदा | सप्तजप्तेथमष्टैर्वा ततो शुद्धिः समिष्यते || कन्याकर्तितसूत्रेण पद्मनालासमुत्थितैः | त्रिगुणैः पञ्चभिर्युक्तो कुर्याद् वर्त्तितकं व्रती || तं ग्रन्थेन्मन्त्रतत्त्वज्ञो फलां सूक्ष्मां सुवर्तुलाम् | अच्छिद्रां प्राणकैर्नित्यं अव्यङ्गां वाप्यकुत्सिताम् || शोभनां चारुवर्णांस्तु अच्छिद्रामस्फुटितां तथा | रुद्राक्षं सुतजीवं वा इन्द्राक्षफलमेव तु || अरिष्टां शोभनां नित्यं अव्यङ्गां फलसम्मताम् | ग्रन्थेन्मन्त्री सदा ह्युक्तो अक्षमालां तु यत्नतः || सौवर्णमथ रूप्यं वा माणिक्यं स्फाटिकं समम् | शङ्खं सुसारं चैव मौक्तं वापि विधीयते || प्रवालैर्विविधा माला कुर्यादक्षमालिकाम् | अन्यरत्नांश्च वै दिव्यान् कुर्यात् शुभामालिकाम् || पार्थिवैर्वर्तुलैर्गुलिकैर्ग्रन्थेत् सूत्रे समाहितः | अन्यं वा गुलिकां किञ्चित् फलैर्वा धातुसम्भवैः || १२१, प्. १२१) कुशाग्रग्रथिकां चैव कुर्याद् यत्नानुजापिनः | शताष्टं पञ्चविंशं वा पञ्चाशं चैव मध्यमाम् || एतत्प्रमाणमालां तु ग्रथेन्मन्त्री समाहितः | सहस्रं साष्टकं चैव कुर्यान्मालां तु ज्येष्ठिकाम् || एतच्चतुर्विधां मालां ग्रथितं नित्यमन्त्रिभिः | ततो ग्रथितुमाला वै त्रिमात्रां द्विक एव वा || पुष्पलोहमयैः कटकैः सौवर्णैः रजतैस्तथा | ततो ताम्रमयैर्वापि ग्रथेन्मालां समासतः || ततोऽन्ते पाशकं कृत्वा न्यसेत् तदानुपूर्वतः | वेष्टयेत् तं तृसन्धन्ताद् यथा बद्धोऽवतिष्ठति || परिस्फुटं तु ततो कृत्व मण्डलाकारदर्शनम् | सर्वभोगतथाकारं परिवेष्ट्याभिभूषितम् || मुक्ताहारसमाकारो कण्ठिकाकारनिर्मितः | स्नात्वा शुभे अम्भे सरिते वापि निर्मले || स्नात्वा च यथापूर्वं उत्तिष्ठे सलिलालयात् | उपस्पृश्य यथायुक्त्या गृह्यमक्षाणुसूत्रितम् || प्रक्षाल्य पञ्चगव्यैस्तु तथा मृत्तिकचूर्णिकैः | प्रक्षाल्य शुभे अम्भे सुगन्धैश्चानुलेपनैः || प्रशस्तैर्वर्णकैश्चापि श्वेतचन्दनकुङ्कुमैः | प्रक्षाल्य यत्नतो तस्मात् ततो गच्छेदुडयं तथा || यथास्थानं तु गत्वा वै यत्रासौ पटमध्यमः | जिनश्रेष्ठो मुनिर्मुख्यो शाक्यसिंहो नरोत्तमः || शास्तुविम्वे तथा नित्यं भ्वि धातुवरे जिने | * * * * * * * * * * * * (?) समीपतः || संस्थाप्य पटे तस्मिं अग्रते समुपस्थिते | सहस्राष्टशतं जप्तं शतं चैकत्र साष्टकम् || १२२, प्. १२२) अहोराधोषितो भूत्वा ददौ मालां मुनिसत्तमे | कृतजापी तथा पूर्वं प्रमाणेनैव तत्समः || परिजप्य ततो मालां रात्रौ तत्रैव संन्यसेत् | स्वपेत् तत्रैव मन्त्रज्ञः कुशसंस्तरणे भुवि || स्वप्ने यद्यसौ पश्य शोभनां स्वप्नदर्शनाम् | सफलां स्वप्ननिर्दिष्टां सिद्धिस्तस्य विधीयते || बुद्धश्रावकखड्गीणां स्वप्ने यद्य दृश्यते | सफलं सिद्ध्यते मन्त्री ध्रुवं तस्य विधिक्रिया || कुमाररूपिणं वालं विचित्रं चारुदर्शनम् | स्वप्ने यद्यसौ दृष्ट्वा मालां दद्या तथैव च || अमोघं तस्य सिद्ध्यन्ते मन्त्रा सर्वार्थसाधका || इति | बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद् मध्यमपटविधानविसराद् द्वादशमः अक्षसूत्रविधिपटलविसरः परिसमाप्त इति || १२३, प्. १२३) अथ त्रयोदशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतप्रामन्त्रयतेस्म | अस्ति मञ्जुश्रीः ! त्वदीयं मन्त्रपटलसमस्तविन्यस्तविशेषविधिना होमकर्मणि प्रयुक्तस्य विद्यासाधकस्य अग्न्योपचर्याविशेषविधानतः | यत्र प्रतिष्ठिता सर्वविद्याचर्यानियुक्ता सत्त्वा प्रयुज्यन्ते | कतमं च तत् || रहस्यविद्यामन्त्रपदानि | तद्यथा - ओं उत्तिष्ठ हरिपिङ्गल ! लोहिताक्ष ! देहि ददापय | हूं फट् फट् सर्वविघ्नां विनाशय स्वाहा | एष सः मञ्जुश्रीः ! परमाग्निहृदयं सर्वकर्मकरं सर्वकामदम् || आदौ तावत् साधकेन अनेनाग्निहृदयेन सकृज्जप्तं घृताहुतित्रयं अग्नौ होतव्यम् | अग्निराह्वानितो भवति | तथाप्रयुक्तस्य शान्तिकपौष्टिकरौद्रकर्मेषु त्रिधा समिधाकाष्ठानि भवन्ति || अशोककाष्थं शान्त्यर्थे सार्द्रं चैव विशिष्यते | वितस्तिहस्तमात्रं वा त्र्यङ्गुलं वापि चोच्छृतम् || स्निग्धाकारप्रशस्तं तु विधिरेषा विधीयते | अकोटरं असुषिरं वापि शुकपत्रनिभं तथा || हरितं शुक्लवर्णं वा कृष्णवर्णं विवर्जयेत् | कृमिभिर्न च भक्षितं वर्ज्यमकोटरं वापि सन्दधेत् || अन्यवर्णो प्रकृष्टास्तु अधर्मश्चैव वर्जिता | नातिशुष्का न चार्द्रापि न च दग्धं समारभे || अपूतिं अवक्रं चैव अत्युच्चं चापि वर्जयेत् | अग्निकुण्डं तथा कृत्वा चतुःकोणं समन्ततः || अधश्चेन खनेद्यत्नाच्चतुर्हस्तं प्रमाणतः | त्रिहस्तं द्वे तु हस्तानि एकहस्तं तथैव च || प्राणिभिर्विवर्जितं नित्यं सिंहतासंस्थितं च तत् | पद्माकारं ततो वेदिः समन्तान्मण्डलाकृतिः || १२४, प्. १२४) चतुरश्रं चापि यत्नेन कुर्याच्चापाकृतिं तथा | वज्राकारसङ्काशं उभयाग्रं त्रिसूचिकम् || कुर्यादग्निकुण्डेऽस्मिं द्विहस्ता तियं*(?) तत् | शुचौ देशे परामृष्टे नदीकूले तथा वरे || एकस्थावरदेशे च श्मशाने शून्यवेश्मनि | कु *(?) द्धोमं सुसंरब्धो पर्वताग्रे तथैव च || शून्यदेवकुले नित्यं महारण्ये तथैव च | यानि साधनदेशानि कथितान्यग्रपुङ्गलैः || एतानि स्थानान्युक्तानि होमकर्मिति सर्वतः | कुशविण्डकोपविष्टेन स्थित्वा हस्तमात्रं ततः || कर्यात् तत्र मन्त्रज्ञो होमकर्म विशेषतः | क्षिप्रमेभिः स्थितं सिद्धिः स्थानेष्वेव न संशयः || प्राङ्मुखो उदङ्मुखो वापि कुर्यात् शान्तिकपौष्टिके | दक्षिणेन तु रौद्राणि तानि मन्त्री तु वर्जयेत् || प्राङ्मुखे शान्तिका सिद्धिः पौष्टिके चापि उदङ्मुखा | एबिह्र्मन्त्री सदाकालं मन्त्रजापं तु मारभेत् || बिल्वाम्रप्लक्षन्यग्रोधैः कुर्यात् कर्मणि पौष्टिकम् | आभिचारुककाष्ठानि शुष्ककट्वाम्लतीक्ष्णकाः || तानि सर्वाणि वर्जीत निषिद्धा मुनिभिः सदा | शान्तिके पौष्टिके कर्मे सार्द्रकाष्ठा प्रशस्यते || रौद्रकर्मे तथा कर्मा वर्जिता मुनिभिः सदा | तेषामभावे समिधानां काष्ठं तेषां तु कल्पयेत् || समन्ता कुशसंस्तीर्णं उभयाग्रं तु कल्पयेत् | हरितैः स्निग्धसङ्काशैर्मयूरग्रीवसन्निभैः || तधाविधैः कुशैर्नित्यं कुर्यात् शान्तिकपौष्टिकम् | मरकताकाशसङ्काशैस्तथा शुष्कैः त्रिणैः सदा || १२५, प्. १२५) कुर्यात् पावककर्माणि निषिद्धा जिनवरैरिह | निर्मले चाम्भसो शुद्धे कृमिभिर्वर्जिते सदा || ततोऽभ्युक्ष्य समन्ता वै कुर्याच्चापि प्रदक्षिणम् | ज्वालयेद् वह्नि युक्तात्मा उपस्पृश्य यथाविधि || शुचिना तृणमूलेन कुर्यादुल्कां प्रमाणतः | मुष्टिमात्रं ततो कृत्वा ज्वालयेद् वह्नि यत्नतः || न चापि मुखवातेन वस्त्रान्तेन वा सदा | निवासनप्रावरणाभ्यां वर्जिता नान्यमम्बरे || न चापि हस्तवातेन उपहन्याभिरतेन वा | शुचिव्यजनेन तथा वस्त्रे पर्णे चापि प्रवातये || समीरिते कृते वह्नौ एभिरुद्भूतमारुते | ज्वालयेदधिमन्त्रज्ञो होमार्थी सुसमाहितः || त्रीन्वारां ततोऽभ्युक्षे कृत्वा वा अपसव्यकम् | आहुतित्रयं ततो दद्या आज्ये गव्ये तु तत्र वै || ततो कुर्यात् प्रणामं वै सर्वबुद्धानतायिनाम् | स्वमन्त्रमन्त्रनाथं च ततो वन्दे यथेष्टतः || अग्निहृदये ततो मन्त्रे जप्ते जप्तेन वै सदा | आह्वयेद् वह्नियुक्तात्मा पुष्पैरेव सुगन्धिभिः || आह्वयति नित्यं मन्त्रज्ञो स्थानं दद्याद् विचक्षणः | आसनं स्थानं दत्वा तु तेन मन्त्रेण नान्यवै || दधिप्लुतमाज्यमिश्रं तु मध्वाक्तं समिधां त्रयम् | जुहुयादग्निपूजार्थं मन्त्रकर्मेण सर्वतः || उभयस्थं तदा कुर्यात् समिधानां द्रव्यमिश्रितम् | आज्यमध्वक्तसंयुक्तां दध्यमिश्रे तथैव च || सहस्रं लक्षमानं ***(?)ताष्टं चापि कल्पयेत् | गुह्यमन्त्री त*(?) मन्त्रं सकृज्जप्त्वा क्षिपेत् शिखौ || १२६, प्. १२६) ज्वालामालिने वह्नौ एकज्वाले तथैव च | शान्तिकर्मणि जुह्वीत निर्धूमे चापि पौष्टिकम् || सधूमे रौद्रकर्माणि गर्हिते जिनवर्णिते | होमकर्मप्रयुक्तस्तु अग्नौ वर्णो भवेद्यदि || शान्तिके सितवर्णस्तु शस्तं जिनवरैः सदा | सिद्ध्यन्ति तत्र मन्त्रा वै सितेऽग्नौ जुह्वतो यदि || रक्तवर्णं तथा नित्यं पौष्टिकात् सिद्धिमिष्यते | कृष्णे वा धूमवर्णे च कपिले चापि पायिकम् || इत्येषा त्रिविधा सिद्धिः त्रिधा वर्णप्रवर्तिता | अन्यवर्णाभ्रवर्णा वा विविधाकारवर्णिता || न सिद्धिस्तेषु मन्त्राणां पुनरस्तीह महीतले | तादृशं वर्णसङ्काशं विविधाकारवर्णितम् || शिखिं ज्वलन्तं दृष्ट्वा तु पुनः कर्मं समारभेत् | भूयोऽपि कृतजापस्तु मन्त्रसिद्धिर्भवेद् यदि || पुनर्होमं प्रवर्तीत विधिदृष्टेन कर्मणा | विसर्ज्याह्वानना चैव वह्निं मन्त्रमुदीरयेत् || पूर्वप्रकल्पितेनापि मण्डलेऽस्मिं यथाविधि | तेनैव कुर्याद्धोमं वै विसर्जनाह्वाननकर्मणाम् || सर्वकर्माणि तेनैव कुर्यात् तत्रैव कर्मणि | अग्निचर्या तथारूपं पटस्याग्रतः मारभेत् || सिद्ध्यन्ति तत्र मन्त्रा वै पूर्वमुक्तं तथागतैः | जिनवर्णितकर्माणि कुर्यान्न च तत्र वै सर्वतः || नान्यकर्माणि कुर्वीत पापकानि विशेषतः | गर्हीता जिनवरैर्यद्व विरुद्धां लोककुत्सिताम् || उत्तिष्ठ चक्रवर्तिर्वा बोधिसत्त्वोऽथ भूमिषः | पञ्चाभिज्ञं तथा लाभे देवत्वं वाथ सिद्ध्यति || १२७, प्. १२७) पटेऽस्मिन् नित्ययुक्त*(?) होमकर्मविशारदः | पातालाधिपत्यं वा अन्तरीक्षचरामथ || भौम्यदेवयक्षत्वं यक्षीमाकर्षणे सदा | राज्ये आधिपत्ये वा विषयेऽस्मिं ग्राम एव वा || विद्याधरमसुरत्वं सर्वसत्त्ववशानुगे | आकर्षणे च भूतानां महासत्त्वां महात्मनाम् || बोधिसत्त्वां महासत्त्वां दशभूमिसमाश्रिताम् | आनयेद्धोमकर्मेण किं पुनर्मानुषं भुवि || मिं सेनापत्यं तथा लोके ऐश्वर्ये च विशेषतः | सर्वभूतसमावश्यं नृपतत्वं तथापि च || वश्यार्थं सर्वभूतानां नृपतेर्वापि समं भुवि | सर्वकर्मान् तथा नित्यं कुर्याद्धोमेन सर्वतः || सर्वतो सर्वयुक्तात्मा सर्वकर्म समाश्रयेत् | नियतं सिद्ध्यते तस्य कर्म श्रेयोऽर्थमुत्तमम् || मध्यमाश्चैव सिद्ध्यन्ते कर्मा कन्यस एव वा | सर्वद्रव्याणि तत्रैव सिद्धिमुक्ता त्रिधा पुनः || दृश्यते सफला सिद्धिः होमकर्मे प्रवर्तिते | मुद्रा पञ्चशिखां बध्वा मन्त्रां चैव केशिनीम् || कुर्यात् सर्वकर्माणि आत्मरक्षावानुधीः | होमकर्मे प्रवृत्तस्तु पठेन्मन्त्रमिमं ततः || सप्तजप्ताष्टजप्तं वा कर्मेऽस्मिं इदं सदा | नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम् | तद्यथा - ओं ज्वल तिष्ठ हूं रु रु विश्वसम्भव सम्भवे स्वाहा | अनेन मन्त्रप्रयोगेण जपे काष्ठं पुनः पुनः | द्विजप्त. सप्तजप्तं वा जुह्वादग्नौ स मन्त्रवित् || पुष्पधूपगन्धं वा सर्वं चैव समन्ततः | वारिणा मन्त्रजप्तेन अनेनैव तु प्रोक्षयेत् || १२८, प्. १२८) ततो सर्वकर्माणि आरभेद् विधिहेतुना | पूर्वप्रयोगेणैव कर्त्तव्यो सर्वकर्मसु || पूर्वपञ्चशिखां बध्वा महामुद्रां यशस्विनीम् | कृतरक्षो ततो भूत्वा केशिन्या चैव सदा जपी || आरभेत् सर्वकर्माणि सिद्धिहेतो विशारदाः | शकुना यदि दृश्यन्ते शब्दा चैव शुभा सदा || सफलास्तस्य मन्त्रा वै वरदाने यथेप्सतः | आदिकर्मेषु प्रयुक्तस्तु प्रवृत्ता मन्त्रहेतुना || सफला सकला चैव सिद्धिस्तेषु विधीयते | जयशब्द पटहो वा दुन्दुभीनां च न्निस्वनम् || सिद्धिः सर्वत्र ह्युक्ता होमकर्मे समाश्रितः | अन्या वा शकुना श्रेष्ठा पक्षिणानां वा शुभा रुताः || विविधाकारनिर्घोषा शब्दार्था जिनवर्णिताः | प्रशस्ता दिव्या मङ्गल्या दिव्या मनोज्ञा विविधा रुताः || छत्रध्वजपताकांश्च योषिताचाप्यलङ्कृताः | पूर्णकुम्भं तथा अर्घदर्शनं सिद्धिहेतवः || अनेकाकारवर्णा वा प्रशस्ता लोकपूजिता | तेषां दर्शन सिध्यन्ते मन्त्रा विविधगोचरा || इति | बोधिसत्त्वपिटकावतसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पात् त्रयोदशमपटलविसरः परिसमाप्तमिति || १२९, प्. १२९) अथ चतुर्दशः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीयविद्यारहस्यसाधनोपयिकसर्वमन्त्राणां समनुज्ञः तथागतधर्मकोशविसृतधर्ममेघानुप्रविष्टगगनस्वभावसर्वमन्त्राणां लौकिकलोकोत्तराणां प्रभुः ज्येष्ठतमः यथा कुमारः सर्वसत्त्वानाम् | तथागतो अत्र आख्यायते ज्येष्ठतमः श्रेष्ठो देवमनुष्याणां पुरुषऋषयः बुद्धो भगवां | एवं हि कुमार ! सर्वमन्त्राणामयं विद्याराजा अग्रमाख्यायते श्रेष्ठतमः पूर्वनिर्दिष्टं तथागतैः अनभिलाप्यैर्गङ्गानदीसिकतपुण्यैर्बुद्धैर्बह्गवद्भिः रत्नकेतोस्तथागतस्य परमहृदयं परमगुह्यं सर्वमङ्गलसम्मतसर्वबुद्धसंस्तुतप्रशस्तं सर्वबुद्धसत्त्वसमाश्वासकं सर्वपापप्रणाशकं सर्वकामदं सर्वाशापरिपूरकम् | कतमं च तत् || अत्रान्तरे भगवतः शाक्यमुनेः ऊर्णाकोशात् सर्वबुद्धसञ्चोदनी नाम रश्मिः निश्चरति स्म | येयं दशदिक्षूर्ध्वमधः सर्वावन्तं बुद्धक्षेत्राण्यवभास्य सर्वसत्त्वां मनांसि चाह्राद्य उपरि भगवतः शाक्यमुनेः उष्णीषा अन्तर्धीयते स्म || उष्णीषाच्च भगवतः समन्तज्वालार्चितमूर्तिः अनवलोकनीयो सर्वसत्त्वैः दुर्धर्षः महाप्रभावसमुद्गतः प्रभामण्डलालङ्कृतदेहः विविधाकाररूपी महाचक्रवर्तिरूपी विद्याराजा एकाक्षरो नाम निश्चरति स्म | निश्चरित्त्वा सर्वं गगनतलमवभास्य सर्वविद्याराजपरिवृतः अनेकविद्याकोटीनयुतशतसहस्रपुरस्कृतः पूज्यमानो सर्वलोकोत्तरैः विद्याचक्रवर्त्तिराजानैः अभिष्टूयमानो सर्वमन्त्रैः प्रभाव्यमानो सर्वबुद्धवोधिसत्त्वैः दशभूमिप्रतिलब्धैः महात्मभिः सर्वगगनतलमापूर्य दिव्यरत्नोपशोभितमहामणिरत्नालङ्कृतदेहः चारुरूपी प्रभास्वरतरः विविधरूपनिर्माणकोटीनयुतशतसहस्रमुत्सृजमानः एकाक्षरं शब्दमुदीरयमानः महारश्मिजालं प्रभुञ्चमानः अन्तरिक्षे स्थितिऽभूत् बह्गवतः शाक्यमुनेरुपरिष्ठात् सम्मुखमवलोकयमानः सर्वावन्तं शुद्धावासभवनं महापर्षन्मण्डलञ्चावयाम्यमानः || १३०, प्. १३०) अथ भगवांश्छाक्यमुनिः एकाक्षरं विद्याचक्रवर्त्तिनं सर्वतथागतहृदयं रत्नकेतुर्नाम तथागतस्य परमहृदयपरमगुह्यतमं सर्वतथागतैर्भगवतः रत्नकेतोः सन्निविष्टं सालेन्द्रराज अमिताभ दुःप्रसह सुनेत्र सुकेतु पुष्पेन्द्र सुपिनान्तलोकमुनिः कनकाद्यैस्तथागतैर्भाषितं चानुभ्यमोदितं च सर्वैश्चातीतैः सम्यक् सम्बुद्धैः लपितं चानुमन्यं च | कतमं च तत् | तद्यथा - भ्रूं | एष स मञ्जुश्रीः परमहृदयं सर्वतथागतानां असर्वगुणां विद्याचक्रवर्तिनः एकाक्षरं नाम महापवित्रम् | अनेन साध्यमानः सर्वमन्त्रा सिद्ध्यन्ते | त्वदीयं ये कुमारकल्पराजवरे सर्वमन्त्रानुकूलं परमरहस्य अग्रः समनुज्ञः सर्वकर्मावरणविशोधकः अवश्यं तावत् साध * * * * * * * * * (?) कर्माणि सर्वमन्त्रेषु अस्मिं कुमार ! त्वदीयकल्पराजे सर्वलौकिकलोकोत्तराणि च मन्त्रतन्त्राणि साधयितव्यानि || अनेन कृतरक्षः अधृष्यो भवति सर्वभूतानामिति | सर्वविघ्नैश्च लौकिकलोकोत्तरैर्नाभिभूयत इति || समन्तरत्नभाषिते च बह्गवता शाक्यमुनिना सर्वोऽपि त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पिता अभूवं | सर्वाणि च बुद्धक्षेत्राणि अवभासितानि सर्वश्च बुद्धा भगवन्तः सन्निपतिता भवेयुः || तस्मिं पर्षन्मण्डले शुद्धावासभवनोपनिषण्ण सर्वे च बोधिसत्त्वा दशभूमिप्रतिलब्धा अवैवर्तिका ह्यनुत्तरायां सम्यक् सम्बोधौ सर्वश्रावकप्रत्येकबुद्धाश्च सर्वसत्त्वा महर्द्विधा विद्याराजरश्मिसञ्चोदिता आगच्छेयुर्वशीभूताः | अन्ये च सत्त्वा बहवः अनन्तापर्यन्तलोकधातुव्यवस्थिता नरकतिर्यक्प्रेतदुःखगतिसन्निहिताः तेन महता रश्म्यवभासेन स्पृष्टा अवभासिता दुःखप्रतिप्रबुद्धवेदनासन्नस्थः सुखह्रादितमनसः नियतं विधायानसन्निश्रिता बवेयुरिति || अथ भगवांश्छाक्यमुनिः तं **(?)पर्वन्मण्डलमलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | १३१, प्. १३१) शृणु मञ्जुश्रीः ! इमं विद्याराजं महर्द्धिकमेकवीरं सर्वकर्मिकं सर्वविद्याराजचक्रवर्तिनं सर्वसत्वानामाशापारिपूरकं सर्वकल्पविस्तरे त्वदीयमन्त्रतन्त्रकल्पविस्तरसमनुप्रविष्टं सर्वमन्त्राणां साधकः साधारणभूतं महेशाख्य महोत्साहसत्त्वसाधकविशेषप्रज्ञोपायकौशलसर्वबोधिमार्गसंशोधक- निर्वाणप्रतिष्ठापनाक्रमणबोधिमण्डनिपदनाक्रमणकुशलसम्भारभूतं अस्यैवं समासतः कल्पविस्तरं पटविधानमण्डलं संसाधनोपयिकं पूर्वमन्त्रचर्यानुचरितं यत्र प्रतिष्ठिताः सत्त्वाः साधयिष्यन्ति महाचक्रवर्तिनं विद्याराजं महद्भूतं सर्वमन्त्राणां परमेश्वरं प्रभङ्करं सर्वाशापारिपूरकं विनायकं सर्वजगद्धितं बुद्धमिव साक्षात् प्रयुपस्थितं स्वयम्भुवं उत्तमोत्तिष्ठमध्यमकन्यससर्वकर्मिकम् | क्षेमङ्गमं शिवं शान्तं सर्वपापप्रनाशनम् | देवानामपि तं देवं मुनीनां मुनिपुङ्गवम् || बुद्धमादित्यतं बद्धं विशुद्धं लोकविश्रुतम् | सर्वधर्मस्वभावज्ञं भूतकोटिरनाविलम् || वक्ष्ये कल्पवरं तस्य शृणुध्वं भूतिकांक्षिणाम् | आदौ तावत् पटो दिव्ये विकेशे श्लेषवर्जिते || नवे शुक्ले विशेषेण सदशे चैवमालिखेत् | द्विहस्तमात्रप्रमाणेन हस्तमात्रं च तिर्यक् || तथाविधे शुभे चैव निर्मले चारुदर्शने | सिते दौम्ये तथा शुक्ले सुव्रते पिचिवर्जिते || शङ्कारापकरे शुक्लं पटे चैव दुकूलके | आतस्ये वाल्कलै चैव शुद्धे तन्तुविवर्जिते || क्रिमानिल-असम्भूते जन्तूनां चानुपापने | अकौशेये तथा चान्ये यत्किञ्चित् साधुवर्णिते || तादृशे च पटे श्रेष्ठे कुर्यादालेख्यमालयम् | शास्तुविम्बमालिख्य प्रभामण्डलमालिनम् || १३२, प्. १३२) हेमवर्णं तदालिख्य ज्वालामालिनं विदुम् | एकाकिनं गुह्यलीनं पर्वतस्थं महायसम् || रत्नमालावनद्धं वै कुर्यात्पट्टवितानकम् | उपरिष्टादुभौ देवौ धार्यमाणौ नु मालिखेत् || पर्वतस्योपरिष्टा वै कुर्याद् रत्नमालकाम् | समन्ततश्च वितानस्य मुक्ताहारार्द्धभूषितम् || उपरिष्टाच्छैलराजस्य सर्वमालिख्य यत्नतः | अधश्चैव तथा शैले महोदधिसमप्लुतम् || पटान्ते चैव पुष्पाणि समन्ताच्चैवमालिखेत् | नागकेसरपुन्नागवकुलं चैव यूथिकाम् || मालतीकुसुमं चैव प्रियङ्गुकुरवकं सदा | इन्दीवरं च सौगन्धी पुण्डरीकमतःपरम् || विविधानि पुष्पजातीनि तथान्यां गन्धमाश्रिताम् | एतेषामेव पुष्पाणि * * * * * * * * (?) || * * (?) चैव पूजार्थं दद्युः शास्तुर्मनोरमम् | पूर्वनिर्दिष्टविधिना पटे ज्येष्ठे तथा पटे || सूत्रं तन्तुवायं च तथा चित्रकरं मतम् | प्रातिहारकपक्षे च आलिखेच्छुद्धतमेऽहनि || तथाप्रवृत्ते च काले च जापे चैव विधीयते | सर्वं सर्वमेवास्य पूर्वमुक्तं समाचरेत् || रङ्गोज्ज्वलं विचित्राढ्यं वास्तुविश्वं समालिखेत् | अनेकाकारसम्पन्नं कर्णिकारणपप्रभम् || चम्पका**(?)भासं आलि* * * * * * (?) | एभिरा****(?)न्नं मुनिमालिख्य रत्नजम् || रत्नकेतुं महाभागं श्रेष्ठं वै मुनिपुङ्गवम् | सर्वधर्मवशिप्राप्तं बुद्धरत्नं तमालिखेत् || १३३, प्. १३३) रत्नपर्वतमासीनं गुहारत्नोपशोभितम् | पर्यङ्कोपरिविष्टं तु दत्तधर्मानुदेशनम् || ईषिस्मितमुखं वीरं ध्यानालम्बनचेतसः | गुहावहिः समालिख्य अधश्चैव समन्ततः || पटान्तकोणे सन्निविष्टं साधकं जानुकर्पूरम् | धूपव्यग्रकरं चैव ईषित्कायावनामितम् || उत्तरासङ्गिनं कुर्याद् यथावेषानुलिङ्गिनम् | दक्षिणे भगवतस्याधः महोदधितलादपि || आलिखेन्नित्ययुक्तात्मा मन्त्रिणः श्रेयसार्थिनम् | एतत् पटविधानं तु कथितं लोकपूजितैः || मण्डलं तस्य देवस्य साम्प्रतं तु प्रवक्ष्यते | युक्तमन्त्रस्तदा मन्त्री तस्मिन् काले सुमन्त्रवित् || कृतसेवः सदामन्त्रे अभ्यस्ता जापसम्पदे | अभिषिक्तस्तदा मन्त्रे कल्पेऽस्मिन् मञ्जुभाणिते || मण्डलाचारसम्पन्ने नित्यं चाभिषेचिते | अभिषिक्तः सर्वमन्त्राणां मण्डलेऽस्मिं विशारदः || युक्तिमन्तः सदा तन्त्रे आत्मरक्षे हिते मन्तः | सहायांश्चैव रक्षघ्नैः सुपरीक्ष्य महाद्युतिः || आचार्यः सुसंरब्धः आरब्धाव्रतसेविनः | महाप्रज्ञोऽथ सुस्निग्धः श्रीमान् कारुणिकः सदा || सहायानां च सर्वेषां तथा लक्षणमादिशेत् | एकद्वौ त्रयो वापि तथाचाष्टमथापराम् || कुर्याच्छिष्यां सुसम्पन्नां प्रभूतांश्चापि वर्जयेत् | पूर्वदृष्टविधानं तु मण्डलेऽस्मिं सदा चरेत् || प्रथमा ये तु निर्दिष्टा *** (?) दशवलोदिता | मञ्जुशेषस्य नान्यं तु नखिले नान्यकर्मणा || १३४, प्. १३४) प्रमाणं तु प्रवक्ष्यामि मण्डलस्य महाद्युतेः | चतुर्हस्तं द्विहस्तं वा तथाचाष्टमतःपराम् || शुचौ देशे नदीकूले पर्वताग्रे विशेषतः | पञ्चरङ्गिकचूर्णेन पूर्वदृष्टेन कर्मणा || चतुरश्रं चतुर्द्वारं चतुस्तोरणभूषितम् | चतुःकोणं समं दिव्यं दिव्याचारसमप्रभम् || रङ्गोज्ज्वलं विचित्रं च चारुवर्णं सुशोभनम् | ससुगन्धं सुरूपं च सुसहायः समारभेत् || मौनी व्रतसमाचारः अष्टाङ्गोपसेविनः | अक्लिष्टचित्तो मात्रज्ञः धार्मिकोऽथ जपी सदा || अपापकर्मसमारब्धः शान्तिकपौष्टिक | मध्यस्था ते ततो विश्य आलिखेत् शास्तु वर्णिभिः || प्रथमं सर्वं तं लेख्यं नानारत्नविभूषितम् | गुहासीनं महातेजं रत्नकेतुं तथागतम् || पर्यङ्कोपविष्टं तु धर्मचक्रानुवर्तकम् | पटे यथैव तत् सर्वं आलिखेच्छास्तुपूजितम् || त्रिपङ्क्तिभिस्तथा रेखैः मुद्रैश्चाप्यलङ्कृतम् | कुर्यात् सञ्छादितां सर्वां पङ्क्तिश्चैव समन्ततः || अव्यस्तां समस्तां च अनाकुलिततद्गताम् | तेषां तु मध्ये कुर्वीत चक्रवर्ती महाप्रभुम् || उदितादित्यसङ्काशं कुमाराकारमर्चिषम् | आलिखेद् यत्नमास्थाय महाचक्रानुवर्तिनम् || महाराजसमाकारं मुकुटालङ्कारभूषितम् | किरीटिनं महासत्त्वं सर्वालङ्कारभूषितम् || चारुपट्टार्द्धसंवीतं चित्रपट्टनिवासिनम् | स्रग्मिणं सौम्यवर्णाभं माल्याम्बरविभूषितम् || १३५, प्. १३५) जिघ्रन्तो दक्षिणेनैव करेण वकुलमालकम् | ईषिस्मितमुखं देवं महावीर्यं प्रभविष्णुवम् || सुरूपं चारुरूपं वै बालवृद्धविवर्जितम् | वामहस्तसदाचक्रं दीप्तमालिन परामृष्यन्तम् || तदालेख्यं अर्द्धपर्यङ्क सुनिविष्टमर्द्धेन भुजसंनिश्रितम् | आलिखेद् दिव्यवर्णाभं सुरूपं रूपमाश्रितम् || निषण्णं रत्नखण्डेऽस्मिन् सर्वतानो महाद्युतेः | श्रेयसः सर्वमन्त्राणां प्रवृत्तो वरदः सदा || ज्वलन्तं वह्निराकारं * * (?) मण्डलशोभिनम् | समन्तज्वालामालोषज्य ज्वलते वायुमीरितः || एवं मन्त्रप्रयोगैस्तु ज्वाल्यन्ते मानुषं भुवि | तथाविधं महावीर्यं सर्वमन्त्रप्रसाधकम् || पश्येद् यो हि स धर्मात्मा मुच्यते सर्वकिल्विषात् | पञ्चानन्तर्यकारीषि दुःशीलो मन्दमेधसः || सर्वपापप्रशान्ता वै मुच्यते दर्शनाद् विभोः | मण्डलं दृष्टमात्रं तु देवदेवस्य चक्रिणे || तत्क्षणा मुच्यते पापा येऽन्ये परिकीर्तिताः | ततः पूर्वद्वारं संशोध्य मन्त्रेणैव समं विभोः || परिक्षिप्तं तोरणैः सर्वं कदल्याभिश्चोपशोभितम् | परिस्फुटं मण्डलं कृत्वा अशेषं चारुरूपिणम् || बलिं धूपं प्रदीपं च गन्धमाल्यं सदाशुभम् | पूर्वेणैव विधानेन कुर्यात् सर्वमादरात् || मध्यस्थं पूर्णकुम्भं तु नक्रिणस्याग्रतो न्यसेत् | तत्कुम्भं विजयेत्वाख्या मन्त्रज्ञस्तं न चालयेत् || तथाग्निकुण्डं पूर्वं तु विधिदृष्टेन कर्मणा | होमकर्मसमारम्भो विभुमन्त्रेण नान्य वै || १३६, प्. १३६) होमं चाष्टसहस्रं तु खदिरेन्धनवह्निना | पालाशं चापि श्रीकण्ठं बिल्वोदुम्बरचाक्षकम् || अपामार्गं तथा जुहुयात् सर्वकर्मेषु यत्नतः | तिलं वा आज्यसंपृक्तं दग्धगन्धसमप्लुतम् || जुहुयात् सर्वकर्मेषु सहस्रं साष्टकं सदा | त्रिसन्ध्यं पूर्वनिर्दिष्टं स्नानं चेलावधारणम् || त्रिशूलं शुभनक्षत्रं कथितं च मनीषिभिः | पूर्वनिर्दिष्टकर्माणि जापं होमं तथापरम् || कुर्यान्मन्त्रयुक्तेन चक्रवर्तिकुलेन वा | एकाक्षरेणेव सर्वाणि कुर्यात् सर्वकर्मसु || महाप्रभावार्थयुक्तोऽसौ एकवीर सदापरम् | आचरेत् सर्वमन्त्राणां कल्पं तेषु सदा जपी || सिद्ध्यन्ते सर्वकल्पानि लौकिका लोकसम्मता | लोकोत्तराश्च महावीर्या विद्याराजाश्च महातपाः || सिद्ध्यन्ते सर्वमन्त्रा वै अस्मिन् कल्पे तु तान्यतः | मुनिभिः कथितं ये वै मन्त्रं तथा दशबलात्मजैः || शक्राद्यैर्लोकपालैस्तु विष्णुरीशानब्रह्मणैः | चन्द्रसूर्यैस्तथान्यैर्वा यक्षेन्द्रैराक्षसैस्तथा || महोरगैः किन्नरैश्चापि तथा ऋषिवरैर्भुवि | गरुडैर्मातरैर्लोकैः तथान्यैः सत्त्वसंज्ञिभिः || भाषिता ये तु मन्त्रा वै सिद्धिं गच्छन्ति ते इह | आकृष्टाः सर्वमन्त्राणां प्रणेता सर्वकर्मणाम् || वशिता सर्वमन्त्राणां प्रणेता सर्वकर्मणाम् | वशिता सर्वभूतानां तन्त्रमन्त्रसविस्तराम् || एष एकाक्षरो मन्त्रः करोति सर्वमन्त्रिणाम् | सफलं जप्तमात्रस्तु आकृष्टा सर्वदेवताम् || १३७, प्. १३७) वशिता सर्वकल्पानांश्चमी एकाक्षरो महाम् | करोति विविधाकारां विचित्रां साधुवर्णिताम् || लौकिकां लोकमन्त्रा तु साधयेत्सम्यक् प्रयोजितः | परिस्फुटं तु पटं कृत्वा अशेषं चारुदर्शनम् || शुचौ देशे नदीकूले पर्वताग्रे च तं न्यसेत् | पूर्वकर्मप्रयोगेण कुर्यात् पश्चान्मुखं सदा || साधकः प्राङ्मुखो भूत्वा विधिदृष्टेन कर्मणा | दर्भविण्डोपविष्टस्तु कुर्याज्जपमनाकुलम् || नोच्चशब्दो न मृदुः नापि चित्तपरस्य तु | दूषयं सर्वभूतानां क्षिप्रसिद्धिर्भवेदिह || मैत्रचित्तः सदा लोके दुःखितां कृपणां सदा | अनाथां दीनमनसां व्यसनार्त्तां सुदुर्बलाम् || पतितां संसारघोरेऽस्मिं कृपाविष्टोऽथ सिद्ध्यति | पटस्याग्रत यत्नेन महापूजां न्यसेत् सदा || मानसी मानुषींश्चापि दिव्यां हृदयमुद्भवाम् | चिन्तयेत् कुर्याद्वापि जिनेन्द्रविश्वपटस्य तु || तत्रैवाग्निकुण्डं कुर्या तत्त्वविधानतः | सुसमृद्धं साधको ह्यग्नि जुहुयात्तत्र माहुतिः || श्वेतचन्दनकर्पूरं कुङ्कुमं मिश्रपूजितः | शताष्टं आहुतिं जुह्वं षड्भौ दीप्तितुमन्त्रवितु || खदिरे प्लक्ष्यन्यग्रोधे पालाशे चापि नित्यतः | एषा समुद्भवे काष्ठे ज्वालयेद् वह्निमूर्जितः || एषामभावे काष्ठानामन्यं काष्ठं समाहरेत् | पिचुमर्दं कद्वमम्लं च तथैव मदनोद्भवम् || सर्वकण्टकिनः वर्ज्याः पापकर्मेषु कीर्त्तिताः | एकाक्षरेणैव मन्त्रेण कुर्याच्छान्तिकपौष्टिकम् || १३८, प्. १३८) आशु सिद्धिर्भवेत् तस्य पापं कर्म समाचरेत् | सर्वमन्त्रधरा ह्यत्र सकर्मा कल्पविस्तरा || प्रयोक्तव्या निर्विकल्पेन सिद्धिं गच्छन्ति ते सदा | आकृष्यन्ते तदा मन्त्रा वरदा चैव भवन्ति ह || पलाशोदुम्बरसमिधानां प्लक्षन्यग्रोध एव वा | घृताक्तानां दध्नसंयुक्तां मध्वोपेतां समाहिताम् || जुहुयात् सर्वतो मन्त्री राज्यकामो महीतले | देवीं राज्यमाकांक्षं जुहुयात् कुङ्कुमचन्दनम् || विद्याधराणां देवानां आधिपत्यमकांक्षयम् | जुहुयात् पद्मलक्षाणि षट्त्रिंशत् सकेसराम् || होमान्ते वै तत्र कुर्वीत अर्घ्यं शास्तुनिवेदनम् | समन्ता ज्वलते तत्र पटश्रेष्ठो जिनाङ्कितः || तं च स्पृष्टमात्रं तु उत्पतेद् ब्रह्ममालयम् | अकनिष्ठा यावदेवास्तु यावाच्चापातालसञ्चयम् || अत्रान्तरे सर्वसिद्धानां राजासौ भवते सदा | विद्रापयति भूतानि महावीर्यो दृढव्रतः || क्रमः विद्याधराणां सदा राजा भविता कर्मसाधने | पुनश्च कल्पमात्रं तु स जीवेद् दीर्घमध्वनम् || च्युतस्तस्मिं महाकाले नियतो बोधिपरायणः | अपरं कर्मनित्येष कथितं संक्षेपविस्तरम् || श्वेतपद्मां समाहृत्य श्वेतचन्दनसंयुताम् | जुहुयाच्छतलक्षाणि रत्नकेतुं स पश्यति || दृष्ट्वा तं जिनं श्रेष्ठं पञ्चाभिज्ञो भवेत् तदा | महाकल्पं चिरं जीवेद् बुद्धस्यानुवरो भवेत् || पश्यते च तदा बुद्धां अनन्तां दिशि संस्थिताम् | तेषां पूजयेन्नित्यं तयैरेव च संवसेत् || १३९, प्. ३९) रत्नावती नाम धात्वैक यत्रासौ भगवां वसेत् | मुनिः श्रेष्ठो वरः अयो रत्नकेतुस्तथागतः || तत्रासौ वसते नित्यं मन्त्रपूतो न संशयः | अपरं कर्ममिष्टं च कथितं ह्यग्रपुङ्गलैः || नागकेसरकर्पूरं चन्दनं कुङ्कुमं समम् | एकीकृत्य तदा मन्त्री जुहुयाल्लक्षाष्टसप्तति || होमावसाने तदा त्देव आयातीह सचक्रिणः | तुष्टो वरदो नित्यं मूर्ध्नि स्पृशति साधकम् || स्पृष्टमात्रस्तदा मन्त्री सप्तभूम्याधिपो भवेत् | जिनानामौरसः पुत्रो बोधिसत्त्वः स उच्यते || नियतं बोधिनिष्टस्तु व्याकृतोऽसौ भविष्यति | ततः प्रभृति यत्किञ्चिद् ज्ञानं ज्ञेयं जिनात्मजम् || जानाति सर्वमन्त्राणां गतिमाहात्ममूर्जितम् | पञ्चाभिज्ञो भवेत् तस्मिन् दृष्टमात्रेण मन्त्रराट् || करोति विविधाकारामात्मभावं सदा यदा | सर्वाकारवरोपेतां पूजाकर्मि सदा रतः || भवते तत्क्षणादेव उद्युक्तो बोधिकर्मणि | क्षणमात्रे तदा लोकां बुद्धक्षेलां स गच्छति || लोकधातुसहस्राणि अण्डा हिण्डन्ति सर्वतः | बुद्धानां बोधिसत्त्वानां पश्यन्ते चरितां तदा || धर्मं शृणोति तत्तेषां पूजां कर्मे समुद्यतः | अपरं कर्ममस्तीह चक्रवर्तिजिनोद्भवे || प्रदीपलक्षणं दद्याच्छुचिवर्तिर्घृतः समे | सौवर्णे भाजने रौप्ये ताम्रे मृचिकमेऽपि वा || ते तु प्रज्वलिते दी**(?)रुपैर्लक्षप्राप्तिभिः | गणमात्रसंन्यस्ते शतसाहस्रभाविकैः || १४०, प्. १४०) स्त्रीवर्जैः पुरुषैश्चापि प्रदीपहस्तैः समन्ततः | पटं शास्तु विम्बाख्ये दद्यात् पूजा च कर्मणि || समं सर्वप्रवृत्तास्तु मन्त्रे कैकसमन्त्रिते | दद्याच्छास्तुनो मन्त्रैस्तत्क्षणात् सिद्धिमादिशेत् || समन्ताद् गर्जितनिर्घोषं दुन्दुभीनां च निःस्वनम् | देवसङ्घा ह्यनेका वै साधुकारं प्रमुञ्चयेत् || बुद्धा बोधिसत्त्वाश्च गगनस्थं तस्थुरे तदा | साधु साधु त्वया प्राज्ञ ! सुकृतं कर्म कारितम् || न पश्यसि पुनर्दुःखं संसारार्णवसंप्लुतम् | क्षेमे शिवे च निर्वाणे अभये बुद्धत्वमाश्रितः || मार्गे शुभे च विमले अष्टाङ्गे साधुचेष्टिते | प्रपन्नस्त्वं मन्त्ररूपेण चक्रिमेकाक्षराक्षिते || अपरं कर्ममेवास्ति उत्तमां गतिनिश्रितः | महाप्रभावार्थविज्ञातं सर्वबुद्धैः सम्प्रकाशितम् || गृह्य निम्बमयं काष्ठं कुर्याद् वज्रं त्रिशूचिकम् | उभयाग्रं मध्यपार्श्वं तु कुर्यात् कुलिशसम्भवम् || मन्त्रपूतं ततः कृत्वा पटस्याग्रतः कन्यसे | परामृश्य ततो मन्त्री जपेन्मन्त्रां समाहितः || लक्षषोडशकाष्ठं च समाप्ते सिद्धिरिष्यते | एकज्वाली ततो वज्रः समन्तात् प्रज्वलते हि सः || उज्जहार ततोऽचिन्त्यमूर्ध्वसंक्रमते हि सः | ब्रह्मलोकं ततो याति अन्यां वा देवसम्मितिम् || आकाशेन ततो गच्छे सर्वसिद्धेषु अग्रणीः | कुरुते आधिपत्यं वै सिद्धविद्याधरादिषु || वकुवर्त्तिस्ततो राजा भवते देवसन्निधौ | करोति विविधाकारं आत्मभावविचेष्टितम् || १४१, प्. १४१) दश चान्तरकल्पानि चिरं तिष्ठन्न चालयेत् | सौख्यभागी सदा पूज्यः सुरूपो रूपवां सदा || बोधिचित्तो समाचारो जन्मदुःखविवर्जितः | भवते सुरसिद्धस्तु सर्वपापविवर्जितः || च्युतस्तस्माद् भवेन्मर्त्यो बहुसौख्यपरायणः | गतिं सर्वां विचेरुस्थः भवते बोधिपरायणः || अनन्ता विविधा कर्मा बहुलोकार्थपूजितम् | पठ्यन्ते मन्त्रराजेऽस्मिं सकल्पाकल्पविस्तरात् || भौम्याधिपत्यं शक्रत्वं चक्रवर्त्तित्वं च वा पुनः | विद्याधराणां तथा देवां कुरुते चाधिचेष्टितम् || अनेकाकाररूपं वा * * * (?) यदिहोच्यते | सर्वसिद्धिमवाप्नोति सुप्रयुक्तस्तु मन्त्रिणा || रात्रौ पर्यङ्कमारुह्य * * (?) अचिन्त्द्यं जपतो व्रती | प्रभाते सिद्धिमायाति पञ्चाभिज्ञो भवेज्जपी || श्मशाने शवमाक्रम्य निश्चलो तं जपेद् व्रती | एकाक्षरं महार्थं तु प्रभाते सिद्धिमिष्यते || श्मशानस्थो यदि यप्येत विद्याराजमहर्द्धिकः | षण्मासैः सिद्धिमायाति यथेष्टं कुरुते फलम् || यत्र वा तत्र वा स्थाने जप्यमानो महर्द्धिकः | सण्मासैः सिद्धिमायाति यथेष्टं कुरुते फलम् || यत्र वा तत्र वा स्थाने जप्यमानो महर्द्धिकः | तत्रस्थः सिधिमायाति सुप्रयुक्तस्तु मन्त्रिभिः || सितं छत्रं तथा खड्गं मणिपादुककुण्डलम् | हारकेयूर पटकं * * * (?) चाङ्गुलीयकम् || कटिसूत्रं तथा वस्त्रं दण्डकाष्ठकमण्डलुम् | यज्ञोपवीतमुष्णीषं कवचं चापि चर्मिणम् || अजिनं कपलं चैव अक्षसूत्रं च पादुके | सर्वे ते भूषणाश्रेष्ठा लोकेऽस्मिं समतावुभौ || १४२, प्. १४२) सुरैर्मर्त्यैस्तथा चान्यैः * * * (?) भूषणानि ह | सर्वे सिद्धिमायान्ति पटस्याग्रत जापिने || सर्वद्रव्यं तथा धातुं भूषणं मणयोऽपि च | अनेकप्रहरणाः सर्वे विन्यस्ता पटमग्रते || सकृज्जप्ताथ संशुद्धा लक्षमष्टौ भिमन्त्रिता | ज्वलते सर्वसंयुक्ता उत्तिष्ठे स्पृशनाज्जपी || सत्त्वप्रकृतयो वापि विविधाकाररूपिणः | भूषणाः प्रहरणाश्चापि मृन्मया वा स्वभाविका || सुरूपचेष्टप्रकृतयः नानापक्षिगणादपि | सर्वभूतास्तु ये ख्याता कृत्रिमा वा ह्यकृत्रिमा || सत्त्वसंज्ञाथ निःसंज्ञा सिद्ध्यन्ते मन्त्रपूजिता | विविधद्रव्यविन्यस्ता विविधा धातुकारिता || * * * * * * (?) वापि गतियोनिसुपूजिता | विन्यस्ता पटमग्रेऽस्मिं पूर्वदृष्टविधानतः || आमृष्य तं जपेन्मन्त्री षड् लक्षाणि च सप्त च | जपान्ते ज्वलिते तेषु सिद्धिं प्राप्नोति पुष्कलाम् || स्पृष्टमात्रेषु तत्तेषां उत्पतेत्तु चतुर्दिशम् | चिरं जीवेच्चिरं सौख्यं प्राप्नोतीह दिवौकसाम् || यथा यथा प्रयुज्येते विद्याराजमहर्द्धिकः | तथा तथा च तुष्येत वरदो च भवेत् सदा || अन्यकर्मप्रवृत्तास्तु कर्मभिः कल्पविस्तरैः | तैरेव सिद्ध्यन्ते क्षिप्रं विद्याराजमहर्द्धिकः || शुचिना शुचिचित्तेन शुचिकर्मसदारतः | शुचौ देशिऽथ मन्त्रज्ञः शुचिसिद्धि समृच्छति || तत्कर्म तत्फलं विन्द्यादधिकादधिकं भवेत् | मध्ये मध्यमकर्म तु कन्यसं तु मतः परम् || १४३, प्. १४३) कर्म प्रभूतमर्थ दत्वा करोति भूतचेष्टितम् | असाधितः कर्मसिद्धिस्तु फलं दद्याल्पमात्रकम् || नित्यं च जापमात्रेण महाभोगोऽथ महाबलः | राज्ञा प्रियत्वमन्त्रित्वं करोति जपिनः सदा || पापं प्रणश्यते तस्य सकृज्जप्तस्तु मन्त्रराट् | द्विजप्तः सप्तजप्तो वा आत्मरक्षा भवेन्महां || सहायानां सर्वतो रक्षा अष्टजप्तः करोति सः | वस्त्राणामभिमन्त्रीत उभौ मन्त्री तदा पुनः || मुच्यते सर्वरोगाणां उभौ वस्त्राभिमन्त्रितौ | स्पर्शनं तेषु मन्त्रेषु ज्वरं नश्यति देहिनाम् || सुखं चाभिमन्त्रितः अक्ष्णी वा चापि यत्नतः | क्रुद्धस्य नश्यते क्रुद्धो दृष्टमात्रस्तु मन्त्रिभिः || ये च भूतगणा दुष्टा हिंसका पापकर्मिणः | मुखं तेषु निरीक्षेत त्रिंशज्जप्तेन मन्त्रराट् || हस्तं चाभिमन्त्रीत स्वकं चैव पुनः पुनः | तेषां प्रहारमावर्ज्यामुच्यते सर्वदेहिनाम् || बालानां नित्यकुर्वीत स्नपनं पानभोजनम् | षष्टिजप्तवरे मन्त्रे उत्कृष्टे देवपूजिते || त्यजन्ते सर्वदुष्टास्तु क्रव्यादा मातरा ग्रहाः | मन्त्रभीतास्तु नश्यन्ते त्यजन्ते बालिशान् सदा || एवम्प्रकारान्यनेकानि कर्मां चैव महीतले | मानुषाणां तथा चक्रे क्षिप्रं चैव सदा न्यसेत् || सरिसृता ये तु भूता वै विविधा स्थावरजङ्गमाः | हविषा निर्विषाश्चैव नश्यन्ते मन्त्रदीरिता || ये केचिद् विविधा दुःखा या काचित् सत्त्ववेदना | विन्यस्ता मन्त्रराजेन शान्तिमाशु प्रयच्छति || १४४, प्. १४४) विविधायासदुःखानि महामार्योपुसर्गिणः | नश्यन्ते क्षिप्रमेवं तु मन्त्रजप्तेन षट्छतम् || कुर्याद्धोमकर्माणि मध्वमध्वाज्यमिश्रितम् | नीलोत्पलं सुगन्धं वै सहस्रं चाष्ट पूजितम् || शान्तिं तिलेन भूतानि प्रजग्मुः स्वस्थतां जनः | एवम्प्रकारान्यनेकानि बहुकल्पसमुद्भवाम् || सर्वां करोति क्षिप्रं वै सुप्रयुक्तस्तु मन्त्रिभिः | जपमात्रेण कुर्वीत अरीणां क्रोधनाशनम् || अनेकमन्त्रार्थयुक्तानां कल्पानां बहुविस्तराम् | विधिदृष्टा भवेत् तेषां तेषु सिद्धिरिहोच्यते || अवश्यं क्षुद्रकर्माणि मन्त्रजप्तो करौति ह | सर्वान्येव तु जप्तेन क्षिप्रमर्थकरः सदा || वश्यार्थं सर्वभूतानां त्रिसन्ध्यं जपमिष्यते | होमकर्मं च कुर्वीत मालत्याः कुसुमैः सदा || श्वेतचन्दनकर्पूरकुङ्कुमाच्च विधीयते | वरजापिने मन्त्रः सफलां कुरुते सदा || मनीषितान्साधयेदर्था नित्यहोमेन जापिनम् | कर्पूरादिभि युक्तैस्तु नित्यहोमं प्रकल्पितम् || साधयेद् विविधां कर्मां यथेष्टपरिकल्पिताम् | अल्पादल्पतरं कर्म प्रभूता भूतिमुद्भवम् || मध्ये मध्यकर्माणि सदा सिद्धिरुदाहृता | तस्मात् सर्वेषु कर्मेषु कुर्याद्धोमं विशेषतः || इति | बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात् चतुर्दशमः चक्रवर्तिपटलविधानमण्डलसाधनोपयिकविसरः परिसमाप्त इति || १४५, प्. १४५) अथ पञ्चदशः पटलविसरः | अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वस्तत्रैव पर्षन्मध्ये सन्निपतितोऽभूत् | सन्निषण्णः स उत्थायासनाद् भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत् | साधु साधु भगवं ! सुदेशितं सुप्रकाशितं परमसुभाषितं विद्यामन्त्रप्रयोगमहाधर्ममेघविनिसृतं सर्वतथागतहृदयं महाविद्याराजचक्रवर्तिनमहाकल्पविस्तरसर्वथापारिपूरकं सफलं सम्पादकबोधिमार्गनिरुत्तरं क्रियाभेदसंध्यजपहोमविद्यचर्यानुवर्त्तिनां मार्गं दृष्टफलकर्मप्रत्ययजनितहेतुनिमित्तमहाद्भुतदशबलाक्रमणकुशलबोधि- मण्डमाक्रमणनियतपरायणम् | तत् साधु भगवां वदतु शास्ता मन्त्रसाधनानुकूलानि स्वप्नसन्दर्शनकालनिमित्तम् येन विद्यासाधकानुवर्त्तिनः सत्त्वाः सिद्धिनिमित्तं कर्म आरभेयुः सफलाश्च सर्वविद्याः कर्मनिमित्तानि भवन्ति रिति || एवमुक्ते भगवां शाक्यमुनिः वज्रपाणिं बोधिसत्त्वमेतदवोचत् | साधु साधुस्त्वं यक्षेश ! बहुजनहिताय त्व प्रतिपन्नः बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय सर्वविद्यासाधकानामर्थाय | तं शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येऽहं ते || आदौ तावत् पूर्वकर्मारम्भं सर्वकर्मेषु निःसङ्गं स्थानं गत्वा पर्वताग्रे नदीकूले वा गुहा च वरकेषु वा शुचौ देशे उडयं कृत्वा पटे प्रतिष्ठाप्य महती पूजां कृत्वा तेनैव विधिना पूर्ववत् सर्वकर्मेषु शुक्लपक्षे प्रातिहारपक्षे वा अवश्यं शुभेऽहनि रात्रौ प्रथमे यामे श्वेतचन्दनकर्पूरकुङ्कुमं चेकीकृत्य खदिरकाष्ठैरग्निं प्रज्याल्य पटस्याग्रतश्चतुर्हस्तप्रमाणमाग्रथितः आहुतिं सहस्राष्टं जुहुयान्निर्धूपे विगतज्वाले चाङ्गारे तद होमान्ते पद्मपुष्पाष्टसहस्रं जुहुयात् | श्वेतचन्दनाभ्यक्ताम् | होमान्ते च भद्रपीठं मुद्रां बध्वा आसनं दद्यात् स्वमन्त्रस्य स्वमन्त्रेणैव | अनेन मन्त्रेण तु होमं कुर्यात् | नमः समन्तबुद्धानामप्रतिहुतशासनानाम् | तद्यथा - ओं कुमाररूपिण दर्शय दर्शयमात्मनो भूति समुद्भावय स्वप्नं मे निवेद यथाभूतम् | हूं हूं फट् फट् स्वाहा | १४६, प्. १४६) अनेन मन्त्रेण कृतरक्षो होमकर्मणि सर्वान्यस्मिं कर्म कुर्यात् | ततो भयाग्रां कुशां संस्तीर्य कुशविण्डकशिरोपधानपूर्वशिरः पटस्याग्रतो नातिदूरे नात्यासन्ने स्वपेत् प्रथमं यामं जागरिकायोगमनुयुक्तः सर्वबुद्धबोधिसत्त्वानां प्रणम्य पापं च प्रतिदेश्य आत्मानं निर्यातयेत् सर्वबुद्धानाम् | ततो निद्रां वशमागच्छेत् यथा सुखमिति || प्रथमे यामे तु ये स्वप्ना तां विदुः श्लेष्मसम्भवाम् | द्वितीये पित्तमुत्थानाद् गर्हिता लोकसम्भवा || तृतीये वातिकं विन्द्याच्चतुर्थे सत्यसम्भवाम् | श्लेष्मिके स्वप्नमुख्ये तु ईदृशां पश्य वे सदा || मणिकूटां मुक्ताहारांश्च समन्ततः प्रभूताम् | अम्भराशिं तृप्लुतं चात्मानं स पश्यति || समन्तात् सरिता कीर्णं महोदधिसमप्लुतम् | तत्रस्थो मात्मदेहस्थो पश्ये चैव यत्र वै || तत्र तं देशमाकीर्णं पुष्करिण्यो समन्ततः | प्ल्वं चोद्पानं च पानागारं च वेश्मनम् || उदकोघैरुह्यमानं तु पश्यैच्चैव समन्ततः | हिमालयं तथाद्रिं वा स्फटिकस्थं महानदम् || नगं शैलं च राजं च स्फटिकाभिः समं चितम् | मुक्ताजालसञ्छन्नं मुक्ताराशिं च पश्यति || महावर्षं जलौघं च पश्यतेऽसौ कहावहः | श्वेतं सितं छत्रं पाण्डरं वापि भूषणम् || कुञ्जरं शुक्लरूपं वा कफिने स्वप्नमुच्यते | सितं चामरपुरुषं वा अन्वरं वापि दर्शनम् || स्पर्शनं सैन्धवदीनां लवणानां च सर्वतः | कर्पासं क्षौमपट्टं वा लोहरूप्यं तथागुरुम् || स्पर्शने ग्रसने चैव श्लेष्मिके स्वप्नमिष्यते | माषाध्मातकाश्चैव तिलपिष्टा गुडोदना || १४७, प्. १४७) विविधा माषभक्षास्तु कफिने स्वप्नमिष्यते | स्वस्तिकापूषिका चान्ये कृसरा पायसा परे || तेषां भक्षणा स्वप्ने श्लेष्मिकस्य विधीयते | शङ्कुल्या पर्पटा खाद्या विविधा सूपजातयः || स्पर्शनाद् भक्षणाश्चैव स्वप्ने श्लेष्माघबृंहणम् | अनेकप्रकारपूर्वास्तु खाद्यभोज्यानुसम्मता || भक्षणास्पर्शनात्तेषां कफिने स्वप्नचेष्टितम् | आशनं सयनं यानं वाहनं सत्त्वसम्भवम् || स्पर्शनारोहणाचैव प्रथमे यामे तु दर्शनम् | स्वप्ना यदि दृश्येरं कफिने सर्वमुच्यते || एवम्प्रकारा ये स्वप्ना जलसम्भवचेष्टिता | विविधा वा खाद्यभोज्यानां श्लेष्मिकानां च दर्शनम् || तेषां स्वप्ने दृष्ट्वा वै श्लेष्मिकानां तु चेष्टितम् | अचिन्त्यो ह्यन्येका कथिता स्वप्ना लोकनायकैः || पैत्तिकस्य तु स्वप्नानि द्वितीययामे हि देहिनाम् | ज्वलन्तमग्निरूपं वा नानारत्नसमुद्भवाम् || अग्निदाहं महोल्कं वा ज्वलन्तं सर्वतो दिशः | स्वप्ने पश्यते जन्तुः पित्तसम्मूर्च्छितो ह्यसौ || पद्मराग तथा रत्नं अन्यं वा रत्नसम्भवम् | स्वप्ने दर्शनं विन्द्या पैत्तिकस्य तु देहिनः || अग्निसंसेवनादाघा स्पर्शनाद् भक्षणादपि | विविधां पीतवर्णानां स्वप्ने पित्तमूर्च्छितैः || तपन्तं नित्यमादित्यं आतपं कटुकं सदा | इवप्ने यानि पश्येत पित्तान्ददेह मूर्च्छितः || हेमवर्णं तदाकाशं पीतवर्णं महील्लम् | स्वप्ने योऽभिपश्येत **(?)लान्यसम्भवा || १४८, प्. १४८) समन्ताज्ज्वलितं वह्निं द्योतमानं नभस्तलम् | पश्यते स्पप्नकालेऽस्मिं पिचाक्रान्तो हि देहिनः || हेमवर्णं तदा भूमिं पर्वतं वा शिलोच्चयम् | महानागं तथा यानं सर्वं हेममयं सदा || पश्यते नित्यस्वप्नस्थो पित्तचेष्टाभिमूर्च्छितः | सर्वं हेममयं भाण्डं यानं भूषणवाहनम् || आसनं शयनं चापि जातरूपसमुद्भवम् | स्पर्शनारोहणाच्चैव पैत्तिकं स्वप्नदर्शनम् || पीतमाल्याम्बरसंवीतः पीतवस्त्रोपशोभितः | पीतनिर्भासगन्धाढ्यो पीतयज्ञोपवीतिनः || पीताकारं च आत्मानं स्वप्ने योऽभिपश्यति | पित्तमूर्च्छासमुत्थानाद् द्वितीये यामे तु दर्शनात् || एवम्प्रकारा विविधा वा येभ्यः स्वप्नानुवर्णिताः | विविधा पीतनिर्भास स्वप्ना पित्तसमुद्भवा || मध्यमे यामनिर्दिष्टा पित्तकान्तानु देहिनाम् | अनेकाकाररूपास्तु पीताभाससमुद्भवाः || कथिता लोकमग्रैस्तु स्वप्नाः पित्तसमुद्भवाः | वातिका ये तु स्वप्ना वै तृतीये यामे नु कथ्यते || प्रभास्वरा समन्तद्वै दिशः सर्वा नु दृश्यते | आकाशगमनं चापि तिर्यं चापि नभस्तले || समन्ता ह्यटते नित्यं आकाशे च नभस्तलम् | वातिकं स्वप्नमित्युक्तं ईदृशं तु विधीयते || प्लवनं लङ्घनं चैव तरुणां चाभिरोहणम् | पठनं सर्वशास्त्राणां मन्त्राणां च विशेषतः || भाषणं जल्पनं * * * * * (?) वापि वातिके | रोहणं कण्टकवृक्षाणां भक्षणं **(?)विक्तकम् || १४९, प्. १४९) कट्वलं सर्वखाद्यानां भक्षणं चापि वातिके | वातसङ्कधमुख्यानां फलानां वातिकोपिताम् || तेषां तु भक्षणे स्वप्ने निर्दिष्टा वातसम्भवा | भक्षाहारविशेषाणां द्रव्याणां च वातलम् || क्षिप्तचित्ता तथा जन्तु स्पर्शनाद् भक्षणादपि | बृत्यता सर्वभूतानां दर्शनाच्चापि आत्मनाम् || स्वप्ने यो हि पश्येत तादृशं वातिकं विदुः | विविधाकारचेष्टां तु विविधलिङ्गनभाषिता || विविधाघोरभाषास्तु वातिके स्वप्नदर्शने | एवमादीनि स्वप्नानि कथिता लोकपुङ्गवैः || त्रिधा प्रयोगाद्यु द्युक्तानि रागद्वेषमोहिनाम् | रागिणां विन्द्याच्छलेष्मजं पैत्तिकं द्वेषमुद्भवम् || मोहजं वातिकं चापि व्यतिमिश्रं विमिश्रितः | स्वप्नोपघातं रागाख्यं ग्राम्यधर्मं तु दर्शनम् || स्त्रीषु सङ्ख्या भवेत् तत्र स्वप्ने श्लेष्मसमुद्भवे | द्वेषिणां कलहशीलाख्यं स्वप्ने पित्तसमुद्भवे || मोहजं स्तिमिताकारं स्मृतिनष्टोपदर्शने | व्यतिमिश्रेण संयुक्तोस्तु स्वप्ना दृश्यन्ति वै सदा || तस्मात् सर्वप्रकारेण स्वप्नाख्यं सत्त्ववर्जितम् | क्रियाकालसमश्चैव निर्दिष्टस्तत्त्वदर्शिभिः || श्लेष्मिकाणां कथिता सत्त्वा वर्णवन्तः प्रियंवदा | दीर्घायुषोऽथ दुर्मेधा स्निग्धवर्णा विशारदा || गौराः प्रांशुवृत्ताश्च स्त्रीषु सङ्गे सदा रताः | धर्मिष्ठा नित्यशूराश्च बहु**(?)भिरताः सदाः || नक्षत्रे जातिनिर्दिष्टः मत्सरास्यादचिह्निते | महीपाला तथा चान्ये सेनापत्यार्थसंस्थिते || १५०, प्. १५०) जायते भोगवत्याश्च यथाकर्मोपजीविनः | स्वकर्मफलनिर्दिष्टं न मन्त्रं कर्मवर्जितम् || न कर्मं मन्त्रमुख्यं तु कथितं लोकनायकैः | तस्मात् श्लेष्मिके सत्त्वे सिद्धिरुक्ता महीतले || भूम्याधिपत्यं महाभोगे सिद्धिमायातु तस्य तु | आहारां श्लेष्मिकां सर्वां नातिसेवी भवेज्जपी || अत्यर्थं सेविता ह्येते स्वप्ना शुद्ध्यार्थसम्भवा | ता न सेवे तदा मन्त्री भिद्यर्था तु वर्णितः || नापि स्वपे तदा काले युक्तिमन्तो विचक्षणः | पैत्तिकस्या तु सत्त्वस्य कथ्यते चरितं सदा || द्वेषाकारक्रुद्धं तु कृष्णवर्णोऽथ दुर्बलः | क्रूरः क्रूरकर्मा तु सदा वक्त्रो विधीयते || शूरः साहसिको नित्यं बलबुद्धिसमन्वितः | वह्वभाष्ये बहुमित्रा बहुशास्त्रसमाधिगः || धार्मिकः स्थिरकर्मान्तः द्वेषमुत्थानवर्णितः | मनस्वी बहुशक्रश्च जायते द्वेषलक्षितः || शूर द्वेषी च वह्वार्थो लोकज्ञो प्रियदर्शनः | निर्मुक्तो निःस्पृहश्चापि धीरो दुःसहः सदा || मानी मत्सरः क्रुद्धः स्त्रीषु कान्तो सदा भवेत् | महोत्साही दृढमन्त्री च महाभोगोऽथ जायते || आक्रम्य चरते सत्त्वां यथाकर्मानुलब्धिनाम् | नित्यं तस्य सिद्ध्यन्ते मन्त्राः प्राणोपरोधिनः || क्षिप्रं साधयते ह्यर्थां दारुणां मुनिरूर्जिताम् | सत्त्वोपयाताः यः कर्मः सिद्ध्यन्ते तस्य देहिनः || विविधप्रयोगास्तु ये कर्माः प्रयुक्ता सर्वमन्त्रिणाम् | आदरा ते सिद्ध्यन्ते नान्यसत्त्वेषु कर्मसु || १५१, प्. १५१) द्वेषिका ये तु मन्त्रा वै परसत्वानुपीडिनः | परमन्त्रा तथा च्छिन्दे क्रेधसत्वस्य सिद्ध्यति || परद्रव्यापहारार्थं परप्राणोपरोधिनः | सिद्ध्यन्ते क्रोधमन्त्रास्तु नान्यमन्त्रेषु योजयेत् || कुरुते चाधिपत्यं वै एष सत्वोऽथ द्वेषजः | कृष्णवर्णोऽथ श्यामो वा गौरो वाथ मिश्रितः || जायते क्रोधनो मर्त्यो हेमवर्णविवर्जितः | रूक्षवर्णोऽथ धूम्रो वा कपिलो वा जायते नरः || शूरः क्रूरः तथा लुब्धः वृश्चिकाराशिमुद्भवः | अङ्गारग्रहक्षेत्रस्थः श्लेष्मणाय बृहस्पतेः || जायते ह्यल्पभोजी स्यात् कट्वंव्लरससेविनः | आयुष्यं तस्य दीर्घं तु स्मृतिमन्त्रोऽथ जायते || वातिकस्य तु वक्ष्येऽहं चरितं सत्वचेष्टितम् | विवर्णो रूक्षवर्णस्तु प्रमाणो नातिदुर्बलः || नष्टवृद्धिः सदा प्राज्ञो हृत्स्थिरो ह्यनवस्थितः | गात्रकम्पं भ्रमिश्चापि छर्दि प्रश्रवनं बहुः || वह्वासी नित्यभोजी च वह्वावाचो भवे हि सः | विरुद्धः सर्वलोकानां वह्वमित्रोऽथ जायते || दुःशीलो दुःखितश्चापि जायतोऽसौ महीतले | अन्तर्द्धानिकमन्त्रा वै तस्य सिद्धिमुदाहृतम् || वातप्रकोपना ये भक्षास्ते तस्यानुवर्तिनः | तं न सेवेत् सदा जापी कर्मसिद्धिमकांक्षयम् || मोहा***(?)पेषां तु सत्त्****(?)कोपिनाम् | मोहजा कथिता ह्येते मूढमन्त्रप्रसाधिता || नित्यं तेषु मृ**(?) मोहानां सिद्धिरिष्यते | नक्षत्रे जलजाराशौ **(?)सत्यार्थमीक्षिते || १५२, प्. १५२) नाचरेच्छुभकर्माणि नाविके सत्त्वमूर्च्छिते | वश्याकर्षणभूतानां मोहनं जम्भनं तथा || वातिकेष्वपि सत्त्वेषु मोहजैः पापमुद्भवैः | कथिता लक्षणा ह्येते स्वप्नानां सत्यदर्शना || मुनिभिर्वर्णिता ह्येते पुरा सर्वार्थसाधका | मेषो वृक्षो मिथुनश्च कर्कटः सिंह एव तु || तुला कन्या तथा दृश्चीश्च धनुर्मकर एव तु | कुम्भमीना गजः दिव्यं वानरमसुर एव तु || सिद्धगन्दह्र्वयक्षाद्या मनुजानां ये प्रकीर्तिता | राशयो बहुसत्त्वानां कथिता ह्यग्रपुङ्गवैः || बहुप्रकारा विचित्रार्था विविधा कर्मवर्णिता | तेषु सर्वेषु कर्मे च फलन्ति गुणविस्तराः || न कर्मगुणनिर्मुक्तं पठ्यते खलु देहिनाम् | गुणे च कर्मसंयुक्तः करोति पुनरुद्भवम् || गुणं धमार्थसंयुक्तं सिद्धिमन्त्रेषु जायते | जापी गुणतत्त्वज्ञः कर्मबन्धगुणागुणम् || न हितां कुरुते कर्म यद् गुणेष्वपि सत्क्रियाम् | क्रिया हि कुरुते कर्म न क्रिया गुणवर्जिता || क्रियाकर्मगुणां चैव संयुक्तः साधयिष्यति | विधिपूर्वं क्रिया कर्म उक्तं दशबलैः पुरा || क्रिया कर्मगुणा ह्येते द्रष्टा सत्त्वोपचेष्टिता | विविधा स्वप्नरूपास्तु दृश्यन्ते कर्ममुद्भवाः || तस्मात् स्वप्**(?)पित्तेन प्रयोज्या***(?)विस्तराः | विधाकारचित्राश्च मनोज्ञाः प्रियदर्शनाः || विघ्नरूपाः अरूपाश्च दृश्यन्ते स्वप्नहेतवः | * * * * * * * * * * * * * * (?) नराः || १५३, प्. १५३) उत्तमाधममध्येषु सिद्धिस्तेषु प्रकल्प्यते | रौद्राः क्रूरकर्मास्तु स्वप्ना सद्यकला सदा || उत्तमा ध्रुवकर्मासु चिरकालेषु सिद्धये | लौकिका लोकमुख्यानां गुणोत्पादनसम्भवाः || दृश्यन्ते विविधाः स्वप्ना जापिनां मन्त्रसिद्धये | असिद्ध्यर्थं तु मन्त्राणां निद्रा तन्द्री प्रकल्प्यते || विघ्नघातनमन्त्रं तु तस्मिं काले प्रकल्प्यते | युक्तुरूपा तदा मन्त्रा जापिनां तं प्रयोजयेत् || षड्भुजोऽथ महाक्रोधः षण्मुखश्चैव प्रकल्पिते | चतुरक्षरो महामन्त्रः कुमारे मूर्त्तिनिसृतः || घोररूपा महाघोरो वराहाकारसम्भवः | सर्वविघ्नविनाशार्थं कालरात्रं तदेव राट् || व्याघ्रचर्मनिवस्तस्तु सर्पाभोगविलम्बितः | असिहस्तो महासत्त्वः कृतान्तरूपी महौजसः || निर्घृणः सर्वविघ्नेषु विनायकानां प्राणहन्तकृत् | शृण्वन्तु सर्वभूता वै मन्त्रं तन्त्रे सुदारुणम् || नाशको दुष्टसत्त्वानां सर्वविघ्नोपहारिकः | साधकः सर्वमन्त्राणां देवसङ्घा शृणोथ मे || नमः समन्तबुद्वानामप्रतिहतशासनानाम् | तद्यर्था - हे हे महाक्रोध ! षण्मुख ! षट्चरण ! सर्वविघ्नघातक ! हूं हूं | किं चिरायसि विनायक ! जीवितान्तकर ! दुःस्वप्नं मे नाशय | लङ्घ लङ्घ | समयमनुस्मर फट् फट् स्वाहा || समनन्तरभाषितोऽयं महाक्रोधराजा सर्वविघ्नविनायकाः आ*(?) भीताः भिन्नहृदयाः त्रस्तमनसो *(?) दन्तं शाक्यमुनिं मञ्जुश्रियं कुमारभूतं नमस्कारं कुर्वते स्म | **(?) तस्थुः || १५४, प्. १५४) अथ भगवां शाक्यमुनिः सर्वं तं शुद्धावासभवनमवलोक्य त च महापर्षन्मण्डलं एवमाह - भो भो देवसङ्घाः | अयं क्रोधराजा सर्वलौकिकलोकोत्तराणां मन्त्राणां साध्यमानानां यो हि दुष्टसत्त्वः जापिनं पिहेठयेत् तस्यायं क्रोधराजा सकुलं दमयिष्यति | शोषयिष्यति | न च प्राणोपरोधं करिष्यति | परिताप्य परिशोष्य व्यवस्थायां स्थापयिष्यति | जापिनस्य रक्षाधरणगुप्तये स्थास्यति | अनुबृंहयिष्यति | यो ह्येवं समयमतिक्रमेत् क्रोधराजेन कृतरक्षं साधकं विहेठयेत् || सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी | इत्येवमुक्त्वा मुनिश्रेष्ठो मञ्जुघोषं तदाव्रवीत् || कुमार ! त्वदीयमन्त्राणां सकलार्थार्थविस्तराम् | मन्त्रतन्त्रार्थमुक्तानां साधकानां विशेषतः || क्रोधराट् कथितं तन्त्रे सर्वविघ्नप्रनाशनम् | लोकनाथै पुरा ह्येतत् तथैव सन्नियोजितम् || दुष्टविघ्नविनाशाय अरीणां क्रोधनाशनम् | जापिनां सततं ह्येतन्निशासु पठयेत्सदा || एष रक्षार्थसत्त्वानां दुःस्वप्नानां च नाशनम् | कथितं लोकमुख्यैस्तु सर्वमन्त्रार्थसाधने || अतः परं प्रवक्ष्यामि पुरुषाणां लक्षणं शुभम् | येषु मन्त्राणि सिद्ध्यन्ते उत्तमाधममध्यमा || तेजस्वीच मनस्वी च कनकाभो महोदरः | विशालाक्षोऽथ सुस्निग्धो मन्दरागी क्रोधवर्जितः || रक्तान्तनयन प्रियाभाषी उत्तमं तस्य सिद्ध्यति | तनुत्वचोऽथ श्यामाभो तन्वङ्गो नातिदीर्घकः || महोत्साही महोजस्कः सन्तुष्टो सर्वतः शुभः | उत्कृष्टो गोपितः शुद्धः अल्पेच्छेथ दुर्बलः || तस्य सिद्धिर्ध्रुवा श्रेष्ठा दृश्यते सर्वकर्मसु | अहीनाङ्गोऽथ सर्वत्र पूर्वश्यामो महौजसः || १५५, प्. १५५) अक्लिष्टचित्तो मनस्वी च ब्रह्मचारी सदा शुचि | *(?) वासाभिरतो नित्यं लोकज्ञो धर्मशीली च || बहुमित्रो सदा त्यागी मात्रा च चरतो सदा | शुचिनः दक्षशीलश्च शौचाचाररतः सदा || सत्यवादी घृणी चैव उत्तमा तस्य सिध्यति | अव्यङ्गगुणविस्तारः कुलीनो धार्मिकः सदा || मातृपितृभक्तश्च ब्राह्मणातिथिपूजकः | अतिकारुणिको धीरस्तस्यापि सिद्धिरुत्तमा || श्यामावदातः स्निग्धश्च अल्पभाषी सदा शुचिः | मृष्टान्नभोजनाकांक्षी शुचिदाराभिगामिनः || लोकज्ञो बहुमतः सत्त्वस्तस्यापि सिद्धिमुत्तमा | नातिहस्वो न चोत्कृष्टः भिन्नाञ्जनमूर्धजः || स्निग्धलोचनवर्णश्च शुचिः स्नानाभिरतः सदा | रत्नत्रये च प्रसन्नोऽभूत् तस्यापि सिद्धिमुत्तमा || उत्कृष्टकर्मप्रयुक्ता च सत्त्वानामाशयतद्विदः | सहिष्णुः प्रियवाक्यश्च प्रसन्नो जिनसूनुना || लोकोत्तरी तदा सिद्धिः सफला तस्य शिष्यते | महासत्त्वो महावीर्यः महौजस्को महाव्रती || महाभोगी च मन्त्रज्ञः सर्वतन्त्रेषु तत्त्ववित् | वर्णतः क्षत्रियो ह्यग्रो ब्राह्मणो वा मनस्विनः || स्त्रीषु सेवी सदा रागी कनकाभोऽथ वर्णतः | दृश्यते प्रांशुगौरश्च तुङ्गनासो महाभुज || प्रलम्बबाहु शूरश्च महाराज्याभिकांक्षिणः | प्रसन्नो जिनपुत्राणां स्त्र्याख्यादेविपूजकः || रत्नत्रये च भक्तश्च बोधिचित्तविभूषितः | अति**(?)णिको धीरः क्वचिद् रोषो महोजः क्वचित् || १५६, प्. १५६) महाभोगी * * * * * * * * * * * * (?) | स्त्रीषु * * * * * * * * * * * * * * (?) || अ * * * * * * * * * * * * * (?) पुनः | कनकाभः स्वल्पभोजश्च विस्तीर्णः कठिनः शुचिः || वृणी कारुणिकः दक्षो लोकज्ञः बहुव्रतो गुणैः | मन्त्रजापी सदा भक्तः जिनेन्द्राणां प्रभङ्करम् || तेषु श्रावकपुत्राणां खड्गिनां च सदा पुनः | प्रभविष्णुलोकमुख्यश्च वर्णतः द्वितीये शुभे || अव्यङ्गः सर्वतः अङ्गैः क्रूरः साहसिकः सदा | त्यागशीली जितामित्रो धर्माधर्मविचारकः || नातिस्थूलो नातिकृशो नातिदीर्घो न ह्रस्वकः | मध्यमो मनुजः श्रेष्ठः सिद्धिस्तस्यापि उत्तमा || आताम्व्रनखसुस्निग्धः रक्तपाणितलः शुचिः | चरणान्तं रक्तः स्निग्धश्चक्रस्वस्तिकभूषितः || ध्वजतोरणमत्स्याश्च पताका पद्ममुत्पलाः | दृश्यन्ते पाणिचरणयोः मनुजो लक्षलक्षणैः || तादृशः पुरुषः श्रेष्ठः अग्रसिद्धिस्तु कल्प्यते | शुक्लदंष्ट्रो असुषिरस्तुङ्गः शिखरिणः समाः || तुङ्गनासो विशालाख्यः संहतभ्रूचिबुके शुभाः | गोपक्ष्मलोकचिह्नस्तु कृष्णदृक् तारकाञ्चितः || ललाटं * * * * * * (?) आकारशिरः शुभः | उष्णीषाकारशरश्चैव ** (?) शोभगतः शुभौ || सिं * * * * * * * * * * * * * * * (?) | पद्म * * * * * * * * * * * * * * (?) || ग्रीवा * * * * * * * * * * * * * * (?) | रक्षवक्षः * * * (?) * * (?) तीर्णोरस्तथैव च || १५७, प्. १५७) ** (?)पतो ना**** (?) ***र्णकठिनः शुभः | गम्भीरप्र***** (?) सिराजाल *** (?) || प्रलम्बवातु *****(?)टिसिंहोरनि ** (?) | ऊरू चास्य वर्तुलकौ कौर्परौ खर्तवर्जितौ || एणेपजङ्घः सुसम्पन्नवर्तुलाश्च प्रकीर्तिताः | चरणौ मांसलौपेतौ अङ्गुलीभिः समुन्नतौ || रक्तौ रक्तनखौ स्निग्धौ उन्नतौ मांसशोभितौ | अथ शिरो महीतलावर्णौ शोभनौ प्रियदर्शनौ || अश्लिष्टौ वर्णतः शुद्धौ प्रशस्तौ लोकचिह्नितौ | उपरिष्टात्तु तेषां वै शिराजाल अनुन्नतौ || पुरीषपस्रवणौ मार्गौ गम्भीरावर्तदक्षिणौ | प्रशस्तौ स्वल्पतरौ नित्यं वृषणौ वर्तुलौ शुभौ || अवधौ अखण्डौ च अनेकश्चैव कीर्त्यते | अङ्गजाते यदा शुद्ध्या रागान्ते च समाश्रितः || स्वप्नकाले चाहारे वृष्याणां खाद्यभोजनैः | प्रश्रुतो वर्णतो नीलो रक्तो वा यदि दृश्यते || प्रभूतस्रावी स्निग्धश्च शुभलक्षणलक्षितैः | तथाविधेये सत्त्वाख्ये उत्तमा सिद्धिरिष्यते || तृपुरीषी षण्मूत्री च शौचाचाररतः शुचिः | शयते यो हि यामान्ते प्रातरुत्थाति जन्तवः || *(?)य शुद्धि सदा श्रे**(?)दृश्यते सर्वकर्मिका | फलां विविधाकारां सम्पदा बहु वा पुनः || अनुभो * * * * * * * * (?) रभिलक्षितः | * * * * * * * * * * * * (?) तिफल्गुनैः || मयासु * * * * * * * * * * (?) कृत्तिकैः | जनकः तेषु दृश्या * * * * * (?) हचिह्नितः || १५८, प्. १५८) प्रभातकाले यो जातः सिद्धिस्तेषु प्रदृश्यते | मध्याह्ने पातरश्चापि **(?) च शुचिग्रहाः || शुक्ला सोमशुक्लाश्च पीतकी बुधः बृहस्पति | सामर्थ्यकार्यसिद्ध्यर्थं निरीक्ष्यन्ते सर्वजन्तूनाम् || अत्रान्तरे च ये जाता मनुजः शुभकर्मिणः | तेषां सिद्ध्यन्त्ययत्नेन मन्त्राः सर्वार्थसाधके || मध्याह्नापरतेनैव रवावास्तमने सदा | अत्रान्तरे सदा क्रूराः पश्यन्ति देहिनाम् || आदित्याङ्गारकः क्रूराः केतुराहुशनिश्चरः | ये च ग्रहमुख्यास्तु कम्पनिर्घात-उल्किनः || तारा घोरतमश्चैव कृष्णारिष्टसमस्तथा | कालमारकुरुः रौद्रो दृश्यते तस्मि कालतः || आदित्योदयकाले च बुधः पश्यति मेदिनीम् | युगमात्रे रथत्युच्चे पश्यतेऽसौ बृहस्पतिः || शुक्रः परेण धनाध्यक्षो पश्यतेऽसौ युगे रवौ | मध्याह्नादापूर्यते चन्द्रह् दर्शनं चन्द्रदेहिनाम् || बुधकाले भवेद् राज्यं बृहस्पतो अर्थभोगकृत् | शुक्रे धननिष्पत्तिः महाराज्यं भोगसम्पदम् || दीर्घयुष्मं तथा चन्द्रे ऐश्वर्यं चापि साफलम् | मध्यन्दिने तथा भानो मध्यदृष्टिसमोदिता || मध्याह्ने विगते नित्यं आदित्यो दिशमीक्षते | युगमात्रे ह्रासिता नोच्चे केतुरेवमुदाहृताः || राहुः शनैश्चरश्चैव तमकालयुगान्तकः | ततः परेण कुम्भायां निष्ठ*(?)गेल्ककम्पकः || आवाग्रे**(?) गते भानौ ***(?)पुञ्जवर्णिते | योऽसौ ग्रहमुख्यस्तु वाल***(?)वर्णिनः रूपिणः || १५९, प्. १५९) शक्तिहस्तो महा * * * * (?)रस्येव दर्शने | ततो युगान्तार्पिते **(?)मानां ग्रहयोनयः || आदित्यदर्शनाज्ज***(?) साहसिको भवेत् | सत्यकाङ्गारके जातः **(?)लुब्धोऽभिमानिनः || केतुरिष्टातिधूम्राणाम् * * * (?) व्याधिसम्भवा | दरिद्रा व्याधिनो लुब्धा मूर्ध्वाश्चैव जना सदा || कालस्तमकम्पानां उल्किकां ग्रहकुत्सिताम् | कम्पनिर्घातताराणामशनिश्चैव प्रतापिन || वज्रोरिष्टतथाचान्यां ऋक्षादीनां प्रकल्पते | राहुदर्शनघोरस्तु दृश्यते सर्वजन्तुनाम् || दरिद्रानाथदुःशीला पापचौरनरा सदा | जायन्ते दुःखिता मर्त्या जना व्याधिमाणया | कुष्ठिनो बहुरोगाश्च काणखञ्जसदजुला || षण्डपण्डेऽनपत्याश्च दुर्भगाः स्त्रीषु कुत्सिता | नरा नार्यस्तथा चान्ये दर्शनाग्रहकुत्सिताम् || जायन्ते बहुधा लोकां जातकेष्वेव जातका | शुक्लपीतग्रहाः श्रेष्ठा तेषु जातिशुभोदयाः || वर्णतः शुक्लपीताभाः प्रशस्ता जिनवर्णिताः | चत्वारो ग्रहमुख्यास्तु शुक्रचन्द्रगुरुर्बुधः || तेषां दर्शनसिद्ध्यर्थं जापिना सर्वकर्मसु | वालिशानां च सत्त्वानां जातिरेव सदा शुभा || सर्वसम्पत्सदा मिष्टाः कथिता लोकपुङ्गवैः | क्षणमात्रं तथोन्मेषनिमेषं चापि अच्छटम् || एषां संक्षेपते जाति कथिता लोकपुङ्गवैः | एतन्मात्रं प्रमाणं तु ग्रहाणां लोकचिन्तिनाम् || *हृदयन्ते तहा नित्यं ****(?) तु तत्त्वतः | श्रेयसा पापका ह्येते भ्रमन्ते चक्रवत् सदा || १६०, प्. १६०) शुभाशुभकरा तेऽत्र एव एकवत् सदा | ते देवलोकन***(?) तु * * * * * * (?) || एतेषां क्वचित् किञ्चित् पापबुद्धिस्तु जायते | शुभाशुभफलासत्त्वाज्जायन्ते बहुधा पुनः || स एषां दर्शनभित्याहुर्ग्रहाणां कर्मभोजिनाम् | सत्त्वानां सत्त्वरमायान्ति शीघ्रगामित्वसत्वराः || दृश्यादृश्यं क्षणान्मेषमच्छटां त्वरिता गतिः | ततः कालं प्रकल्प्येते * * * * * * * * (?) || एतत्कालप्रमाणं तु दर्शितमग्रबुद्धिभिः | अतः परं प्रवक्ष्यामि नियते जातके सदा || मुहूर्त्ता द्वादशाश्चैव कालं कालं यानुहेतवः | अपात्रं चैव वक्ष्यन्ते सिद्धिहेतुर्न वा पुनः || शकुनं चैव लोकानां दृष्ट्यादृष्ट्य पुनः पुनः | राष्ट्रभङ्गं च दुर्भिक्षं *** (?) नृपतेः शुभम् || कालाकालं तदा मार्यः शिवं चक्रे सदा जना | केतुकम्पोऽथ निर्घातमुल्कं चैव सधूमिनम् || नक्षत्रवारताराणां चरितं च शुभाशुभम् | चरितं सर्वभूतानां शिवाशिवविचेष्टितम् || क्रव्यादां मातरांश्चैव रौद्रसत्त्वोपघातिनाम् | दुष्टसत्त्वां तथा वक्ष्ये चरितं पिशिताशिनाम् || प्रसन्नाना देवता यत्र रत्नधर्माग्रबुद्धिनाम् | शुभकर्मसदायुक्तां मैत्रचित्तदयालवाम् || साधुचेष्टार्थबुद्धीना परपूर्त्तिसमा***(?) | आकृष्टा मन्त्रमु***(?) ओषध्याहा***(?) || विस्तरं चरितं वक्ष्ये लक्षणं यत्र आश्रिताः | *** (?) समाश्रित्य * * * * * * (?) सृता || १६१, प्. १६१) दश पुनस्तमित्याहुरसुन ज्ञानहेतुना | द्विविधा तेऽपि तत्रस्था पाषद्या सुरासुरा || तेऽपि तत्र द्विधा यान्ति क्रूर साधारणा पुनः | तेऽपि तत्र द्विधा यान्ति शुभाशुभगतिपञ्चकम् || तत्रस्था त्रिविधा यान्ति विंशत्रिंशदसङ्ख्यकम् | अकनिष्ठा यावदेवेन्द्रा यामासङ्ख्यमभूषकाः || अपर्यन्तं याव धातूनां लोकानां च शुभाशुभम् | या वां संसारिका सत्त्वा यावां चार्यश्रावकाः || बुद्धप्रत्येकबुद्धानां तदौरसां च सूनुनाम् | बोधिसत्त्वां महासत्त्वां दशभूमिप्रतिष्ठिताम् || सर्वसत्वा तथा नित्यं सत्वयोनिसमाश्रिताम् | सर्ववालिसजन्तूनां गतियोनिसमाश्रिताम् || विनिर्मुक्तानां संसाराहे बुद्धानां सर्वार्याम् | सर्वतो नित्यं लक्षणं चरितं सदा || वाचामिङ्गिततत्वं तु तेषां वक्ष्ये सविस्तरम् | आकृष्टा सर्वभूतास्तु मन्त्रतन्त्रसयुक्तिभिः || आविष्टाकृष्टमन्त्रज्ञो परदेहसमाश्रिताम् | कुशलैः कुशलकर्मज्ञैरप्रमत्तैः सजापिभिः || अमूढचरितैः सर्वैर्निग्रहानुग्रहक्षमैः | आकृष्टा भूतला लोके मानुष्ये मन्त्रजापिभिः || तेषां सिद्धिनिमित्तं तु सर्वं वक्ष्ये तु तत्त्वतः | तेषां देहानुरोधार्थं मानुषाणां सदारुजाम् || नित्ययत्यन्तधर्मार्थं मोक्षार्थं तु प्रकल्प्यते | निग्रहं चतुष्टानां विशुद्धानां तु पूजना || निग्रहानुग्रहं ***(?)तन्त्रं *(?)कल्प्यते | वातः श्लेष्मपित्तानां त्रिविधात्र त्रिधा क्रिया || १६२, प्. १६२) तेषां तु प्रकल्पयेच्छान्ति विविधैव क्रमो मतः | तत्र मन्त्रैः सदा कुर्यान्यानुषाणां चिकित्सितम् || महाभूतविकल्पस्तु भूतो भूताधिकः स्मृतः | अभिभूतं तथाभूतैरधिभूतः स उच्यते || अधिभूतो यदा जन्तुरस्वास्थ्यं जनयेत् तदा | भूतं भूतप्रकारं तु द्विविधं तु प्रकल्प्यते || सत्वभूतस्तथा नित्यमसत्वश्चैव प्रकल्प्यते | पित्तश्लेष्म तथा चायुर्ये चान्ये * * * * * (?) || चत्वारश्च महाभूताः पञ्चममाकाशमिष्यते | आपस्तेजो समायुक्तं पृथिवी वायुसमायुता || असत्वसङ्ख्यमित्याहुर्बुद्धिमन्तः सदा पुनः | लोकाग्राधिपति ह्यग्रः इत्युवाच महाद्युतिः || असत्वसङ्ख्यं ह्यमानुष्यं * * * * * * (?) | मानुषं सत्वमित्याहुरग्रधीर्वदतां वरः || अमानुष. मानुषं वापि सत्वसङ्ख्यं सदैवतम् | सत्वानां श्रेयसार्थं तु सार्वज्ञं वचनं पुनः || अतीतानागतैर्बुद्धैः प्रयुत्पन्नैस्तथैव च | भाषितं कर्ममेवं तु शुभाशुभफलोदयम् || केवलं वचनं बुद्धानामवश्यं कर्म करोति | तन्निमित्तं गोत्रसामान्यात् सिद्धिरेव प्रदृश्यते || सार्वज्ञं ज्ञानमित्याहुः क्षेमं शान्तं सदा शुचिम् | निष्ठं शुद्धनैरात्म्यं परमार्थं मोक्षमिष्यते || * * * * * * (?) सत्त्वेषु इदं समुदाहृतम् | तत्र ***(?)षध्या अशःवचनं जगे || भूतं भविष्यमत्यन्तं * * * * * * (?) जितम् | लोकाग्र्यं धर्मनैरात्म्यं * * * * * * * * (?) || १६३, प्. १६३) एतत् सार्वज्ञवचनं निष्ठं **(?) परं पदम् | केवलं तु प्रकल्प्येते सर्वज्ञानमुद्भवम् || प्रभावं सर्वबुद्धानां बोधिसत्त्वानां च धीमताम् | मन्त्राणां सर्वकर्मेषु सिद्धिः सर्वत्र दर्शिता || अत एव मुनीन्द्रेण कल्पराजः प्रभाषितः | अनेन वर्त्मना गच्छन्मन्त्ररूपेण देहिनाम् || निर्वाणपुरमाप्नोति शान्तनिर्जरसम्पदम् | अशोकं विरजं क्षेमं बोधिनिष्ठं सदाशिवम् || य एष सर्वबुद्धानां शासनं मन्त्रजापिनाम् | कथिते भूतले तन्त्रमशेषं मन्त्रजापिनाम् || सर्वं ज्ञानज्ञेयं च कर्महेतुनिबन्धनम् | सर्वमेतं तु मन्त्रार्थं त्रिविधा बोधिनिम्नगा || अशेषज्ञानं तु बुद्धानामिह कल्पे प्रदर्शितम् | सत्त्वानां च हितार्थाय सर्वलोकेषु प्रवर्तितम् || ये हास्ति कल्पराजेऽस्मिन्नान्यकल्पेषु दृश्यते | योऽन्यकल्पेषु कथितं मुनिपुत्रैस्तु मुनिवरैः || ते हास्ति सर्वमन्त्राणां कल्पं विस्तरमेव तु | अत एव जिनेन्द्रेण कथितं सर्वदेहिनाम् || महीतले च त्रिलोकेऽस्मिं न सौ वि * * * * (?) | योऽस्मिन् कल्पराजेन्द्रे नातीतो न वशीकृतः || अस्तंगते मुनिचन्द्रे शून्ये भूतलमण्डले | इह कल्पे स्थिते लोके शासनार्थं करिष्यति || कुमारः सर्वभूतानां * * * * (?) * * (?) शुभः | * * * (?) तथा लोके * * * * *(?) करिष्यति || * * * (?) कल्पराजस्य * * * * * * * (?) णाम् | श्रुत्वा सकृदधिमुच्यन्ते तेषु सिद्धिः सदा भवेत् || १६४, प्. १६४) अवन्ध्यं सर्वभूतानां वचनेदं सदा शुभम् | मन्त्रिणां सर्वभूतेषु जापहोम सदा रताम् || त्र्यद्विकेषु ज्ञानेषु ज्ञानं यत्र प्रवर्तते | स एव प्रवर्तते अस्मिं कल्पराजे वरोत्तमे || मन्त्रप्रतिष्ठा बुद्धानां शासनं स इहोदितम् | निर्विकल्पस्तु तं मन्त्रं विकल्पेऽस्मिं तदिहोच्यते || करोति सर्वसत्त्वानामर्थानर्थं शुभाशुभम् | गतिबुद्धिस्तथा सत्त्वं लोकानां च शिवाशिवम् || स एष प्रपञ्च्यते कल्पे निःप्रपञ्चास्तथागता | लोकातीता स्वसम्बुद्धा लोकहेतोरिहोच्यते || अधिकं सर्वधर्माणां लोकधर्मा ह्यतिक्रमा | करोति विविधां कर्मी विचित्रां लोकपूजिताम् || मन्त्रराट् कर्मसूद्युक्तः सत्त्वराशेस्तथा हितः | कुमारो मञ्जुघोषस्तु बुद्धकृत्यं करोति सः || तस्यार्थं गुणनिष्पत्तिलोकाधानं शुभाशुभम् | अध्येष्टाहं प्रवक्ता वै नाध्येष्टा धर्ममुच्यते || केवलं सर्वसत्त्वानां हितार्थं बुद्धभाषितम् | अतीतैः सर्वबुधैस्तु भाषितं तु प्रवक्ष्यते || बुद्धवंशमविच्छिन्नं भविष्यत्यधिमुच्यते | ते सर्वज्ञज्ञानमुद्भवमन्त्रिणां सर्वकर्मसु || सर्वज्ञज्ञानप्रवृत्तं तु कर्ममेकं प्रशस्यते | पूर्वकर्म स्वकं लोके तदधुना परिभुज्यते || तस्मात् कर्म प्रकुर्वीत इह जन्मसु दुःखरम् | ****** (?) त्ययत्नेन कर्म इहापि तम् || * * * * * * * * * * * * * * * * (?) | तस्मात् * * * * * * * * * * * * * * (?) || १६५, प्. १६५) विधियुक्तं तु तत् कर्म क्षिप्रं सिद्धि इहापि तत् | भ्रमन्ति सत्त्वा विधिहीना वालिशास्तु प्रमोहिताः || तस्मात् सर्वप्रकारेण कर्म एकं प्रशंसितम् | विधिं कर्मसमायुक्तं संयुक्तः साधयिष्यति || विधिहीनं तथा कर्म सुचिरेणापि न सिद्ध्यति | न हि ध्यानैर्विना मोक्षं न मोक्षं ध्यानवर्जितम् || तस्माद्ध्यानं च मोक्षं च संयुक्ते बोधिमुच्यते || इति | आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् त्रयोदशमः [त्रयोदशर *********** (?) पूर्वं संख्******(?)द् इह त्रयोदश इति अनन्तरपटलविसरे चतुर्दश इति **********(?)रसंख्यानं चादर्शग्रन्थे *******(?)खकप्रमादाग***** प्रतिभाति |] सर्वकर्मक्रियार्थः पटलविसरः परिसमाप्त इति | १६६, प्. १६६) अथ षोडशः पटलविसरः अथ खलु भगवां शाक्यमुनिः पुनरपि *****(?)सभवनमलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते **(?) | शृणु मञ्जुश्रीः ! त्वदीये सर्वार्थक्रियाकर्मपटलविसरं पूर्वनिर्दिष्टं पर्षन्मण्डलमध्ये सविस्तरं वक्ष्येऽहम् | पृष्टोऽयं यक्षराजेन वज्रहस्तेन धीमता | सर्वमन्त्रार्थयुक्तानां स्वप्नानां च शुभाशुभम् || अत प्रसङ्गेन सर्वेदं कथितं मन्त्रजापिनाम् | यक्षराट् तुष्टमनसो मूर्ध्नि कृत्वा तु अञ्जलिम् || प्रणम्य शिरसा शास्तुरभ्युवाच गिरां मुदा | अनुग्रहार्थं तु लोकानां कथितं ह्यग्रबुद्धिना || ममैवमनुकम्पार्थं सत्त्वानां च सुखोदया | जापिनां सर्वमन्त्राणां स्वप्नानां च शुभाशुभम् || चरितं गुणविस्तारं सत्त्वाधिष्टनिकृष्टिनाम् | उत्तमा गति योनिभ्यो हेतुज्ञानविचेष्टितम् || अतीतानागतं ज्ञानं वर्तमानं शुभाशुभम् | सर्वं सर्वगतं ज्ञानं सर्वज्ञज्ञानचेष्टितम् || अनाभास्यमनालम्ब्यं निःप्रपञ्चं प्रपञ्चितम् | मन्त्राकारवरोपेतं शिवं शान्तिमुदीरितम् || प्रभावं सर्वबुद्धानां वर्णितं ह्यग्रबुद्धिना | सर्वमन्त्रार्थयुक्तानां जापिनां च विशेषतः || कर्म कर्मफलं सर्वं क्रियाकालं तथैव च | पात्रं स्थानं तथा वेषं स्वप्नप्रसङ्गे प्रचोदितम् || यक्षराण्मुनिवरं श्रेष्ठं सप्तमन्त्रतथागतम् | भद्रकल्पे * * * * * * * * (?) क्यपुङ्गवः || शाक्यसिं * * * * * * * * * * (?)कल्पितः | युगाधरं * * * * * * * * * * * * (?) || महावीर्यो * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || १६७, प्. १६७) *** (?) *** (?) तस्थुस्तूष्णीम्भूतोऽथ बुद्धिमान् | मञ्जुश्रितोऽथ महाप्राज्ञः पृष्टोऽसौ मुनिना तदा || अध्येपयति तं बुद्धं कन्यसं मुनिसत्तमम् | साधु भगवां सम्बुद्धः कर्मज्ञान सविस्तरम् || जातकं * * * * * * * * * (?) सदा शुभम् | चरितं बहुसत्त्वानां कर्मज्ञानसहेतुकम् || निविष्टाविष्टचेष्टानां श्रेयसार्थर्थयुक्तिनाम् | जापिनां सिद्धिनिमित्तानि साध्यसाध्यविकल्पिताम् || भूतिकामा तथा लोके ऐश्वर्याभोगकाङ्क्षिणाम् | राज्यहेतुप्रकृष्टानां सिद्धिधारणकामिनाम् || सर्वं सर्वगतं ज्ञानं संक्षेपेण प्रकाशतु | इत्युवाच मुनिः श्रेष्ठो अध्येष्टो जिनसूनुना || कलविङ्करुतो धीमान् दिव्यदुन्दुभिनादिनः | ब्रह्मस्वरो महावीर्यपर्जन्यो घोषनिःस्वनः || बुद्धवाचोदितः शुद्धो वाचे गाथां सप्तमो मुनिः | एष कुमार ! परार्थगतानां सिद्धिमजायत लोकहितानाम् | श्रेयसि सर्वहिते जगति प्रणितारो शुद्ध्यतु तिष्ठतु मोक्षविहूनाम् || सत्ययाक्षयवीर्यवां हि तच्चित्ता मदमैत्ररता स तदानरता ये | सिद्धिभवे सद तेषु जनेषु नान्य कथञ्चन सिद्धिमुपेष्ये || मन्त्रवरे सद तुष्टिरता ये शासनि चक्रधरे तथा मञ्जुधरे वा | धर्षयिमार प्रवर्त्तयि चक्रं सोऽपि ह चक्रधरो इह युक्तः || वाचा दिव्यमनोरम यस्या वालिशजन्तु विवर्जितनित्या | दिव्यमनोरप्रकर्णसुखा च प्रेमणीया मधुरा अनुकूला || चित्त* (?) ******* (?) मञ्जुरिति समुदीरय बुद्धा | यस्य ***(?)यावमज *(?)ऽपि तथागतज्ञानविशेषैः || तेषु ***(?) भूमिप्रविष्टा दिव्यप्रकृष्टदशतथागतसङ्ख्या | तेऽपि ******(?) त्तिष्टा दिव्यप्रभावमजानमशक्या || १६८, प्. १६८) रूप्य अ**(?) तथा अभूमा कायिकदिव्यं नृजा मनुजा वा | योगिन सिद्धिं गता अथ लोके सर्वविशिष्ट तथा नरमुख्या || सत्त्वमसौ न स विद्यति कश्चिद् यो प्रतिजानि तु तस्य श्रिया मे | एष सिरिपरिकल्पिततुल्यं मञ्जुसिदीति प्रतिजानि तु बुद्धाः || मञ्जुश्रियं परिकल्पिततुल्यं नाममियं तथ पूर्वजिनेभिः | एष कृता तव संज्ञितकल्पे दिव्य अनागतबुद्धमतीतैः || नामश्रुणि पर्यस्तव शुद्धो नास्य मनो भवि एकमनो वा | तस्य मिमं शिवशान्ति भवेयं बोधिवरा भवि अग्रविशिष्टा || मन्त्र अशेष तु सिद्ध बह्वेयां उत्तमयोनि गति लेभे | उत्तमिधर्मि समाश्रयि नित्य विघ्नविवर्जित सिद्धि भवेया || ईप्सितमन्त्र प्रसाधयि सर्वां क्षिप्र स गच्छति बोधि ह मञ्जुम् | लप्स्यति बोधिगतो मुनिमुख्यः गत्व निषीदति सत्त्वहितार्थम् || बुद्धयि बोधिप्रवर्तयि चक्रं एष गुणो कथितो जिनमुख्यैः | मञ्जुरिति शिरीं त्वयि संस्मरि नामं अचिन्त्यगुणाः कयिता जिनमुख्यैः || दर्शतु नित्यप्रभाव त्वदीयं पूर्वकसर्वगतैर्जिनमुख्यैः | कल्पभणे या न शक्यमसङ्ख्यैः मन्त्रशता तव शुद्धकुमार ! || मञ्जुश्रियं तव मन्त्रचर्यं भाषित सर्वमशेषकबुद्धैः | एष कुमार थ सर्वगता वै शासन तुभ्य रतोत्तम वीराः || शुद्धावासनिषण्णजना वै सत्त्वमशेषतः ईहय सत्ता | न क्रमिमन्त्र त्मदीय कदाचिं नापि कथञ्चिह ये तव मन्त्रम् || इति | आर्यमञ्जुश्रीमूलकल्पान्महायानवैपुल्यसूत्रात् चतुर्दशमः गाथापटलनिर्देशविसरः परिसमाप्तमिति | १६९, प्. १६९) अथ सप्तदशः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः सर्वतथागतविकुर्वितं नाम स**(?) समापद्यते स्म | समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः कर्णाकोशाद् रश्मयो निश्चरति स्म | नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णः | सर्वं देवं बुधक्षेत्रमवभास्य सर्वलोकधात्वन्तराणि चालोकयित्वा सर्वग्रहनक्षत्रांश्च मुहूर्तमात्रेण जिह्मीकृत्याकृष्टया | आकृष्टा च स्वकस्वका स्थानानि सन्नियोज्य तत् पर्षन्मण्डलं बुद्धाधिष्टानेनाकृष्य च तत्रैव भगवतः शाक्यमुनेरूर्णाकोशान्तर्धीयते स्म | सर्वं च ग्रहनक्षत्रतारकाः ज्योतिपोरुषरुध्यमाना आर्ता भीता भगवन्तं शाक्यमुनिं प्रजग्मुः | कृताञ्जलयश्च तस्थुरे मकम्पयमाना मुहुर्मुहुश्च धरशितले प्रपतनमानाः || अथ भगवांश्छाक्यमुनिः सर्वेषां ग्रहनक्षत्रतारकाज्योतिषाणां न वालिशोपजानितबुद्धीनां च देहिनामनुग्रहार्थं वाचमुदीरयते स्म | शृण्वन्तु भवन्तो मार्षाः ! देवसङ्घा समानुपाः ! कर्म एव सत्वानां विभजते लोकवैचित्र्यम् | यश्च बुधानां भगवतां वज्रकायशरीरतामभिनिष्पत्तिर्यश्च ससुरासुरस्य लोकस्य भ्रमत्संसाराटवीकान्तारप्रविष्टस्य लोकस्य विचित्रशरीरतामभिनिष्पत्तिः सर्वेदं कर्मजं शुभाशुभं निबन्धनम् | न तत्र कर्ता कारकः ईश्वरः प्रधानो वा पुरुषा साद्व्यापसृष्टो वा प्रवर्तते किञ्चिद् वर्जयित्वा तु कर्मजं सर्वकर्मप्रत्ययजनितो हेतुमपेक्षते | स च हेतुप्रत्ययमपेक्षते | एवं प्रतीत्यसमुत्पत्तिप्रत्ययान्तोऽन्यमुपश्लिष्यते श्लेष्माणां च भूताभिनिष्पत्तिमहाभूतां जनयते | ते च महाभूता स्कन्धान्तरमनादिगतिकात् प्रतिपद्यन्ते | प्रपन्नाश्च गतिदेशान्तरं विस्तरविभागशोऽभ्युपपद्यन्ते | कालान्तरोषरोधविलोमताज्ञानवह्निमीरिता कर्मोपरचितवासना अशेषमपि निर्द**(?) त्रिधायानसम ******* (?) समतिनिर्हरन्ते | महायानदीर्घ*****(?)रचितकर्म स्वक*******(?)त्येकखड्गिनां स्वयम्भु ज्ञानं ******** (?) परघोषानुप्रवृत्तिश्रव*****(?)नां ह्रस्वकालाचिराधिराज्यं ते******(?)र्मान्तर बुद्धिरेव प्रवर्तते वालिशानां विमोहिताम् || १७०, प्. १७०) अथ च पुनर्विचित्रकर्म**(?)नोऽयं लोकसन्निवेशदेशवेषोपरन**(?) निर्जरसम्पदमशो***(?) अनेकसिद्धिमपेक्षते | विमलं पान***(?)क्तमष्टाङ्गोपेतसुशातलं कर्म एव कुरुते कर्म नान्यं कर्मापेक्षते || कर्माकर्मविनिर्मुक्तो निःप्रपञ्चः स तिष्ठति | त्रिधा यानप्रवृत्तस्तु नान्यं शान्तिमजायते || त्रिविधैव भवेन्मन्त्रं त्रिधा कर्म प्रकीर्त्तिता | त्रिविधः फलनिष्पत्तिस्त्रिविधैव विचारणा || विपरीतं त्रिधा कर्म त्रिविधैव प्रदृश्यते | कुशलं तत् त्रिविधं प्रोक्तं पुनस्तन्त्रे प्रदृश्यते || पुनरेव विधं गोत्रं मन्त्राणामास्पदं शान्तम् | शान्तं निर्वाणगोत्रं तु बुद्धानां शुद्धमानसाम् || तदेव कर्म प्रत्यंश. मन्त्राङ्गे प्रकीर्तितः | ज्योतिषाङ्गं तथा लोके सिधिहेतोः प्रकल्पितम् || तदेव अंशं कर्मं वै प्रत्ययांशे प्रवर्तते | यथा हि शाली व्रीहीणामङ्कुरेण विभाव्यते || तथा हि सिद्धद्रव्याणां लक्षणेन विभाव्यते | यथा हि शुक्लो वर्णस्तु व्यवहारेण प्रकल्प्यते || तथाहि ज्योतिषयुक्तीनां व्यवहार्थं प्रकल्प्यते | सर्वतः सर्वयुक्तीनां कर्म एवं प्रशंसितम् || न तत् कर्म विना विह्नैः क्वचिद् देहः संस्थितः | चिह्नैश्च चरितैश्चापि जातकैर्गोत्रमाशृतैः || विविधैः शकुनैर्नित्यं तत् कर्मं चोपलभ्यते | न क्वचिद् विग्रही कर्म अन्तलीनोऽन्यलक्ष्यते || ज्वरितः ** (?) जन्तुर्विका***** (?) | एवं देहे समासृत्य कर्म दृश्यति **** (?) || शुभाशुभफलाचिह्नजातकास्तु प्रकीर्तिता | विविधा शकुन**** (?) विविधा कर्ममुद्भवा || १७१, प्. १७१) * * * * * * * (?) *(?)त्रा विविधा प्राणिनां रुता | शुभाशुभफला * * * * * * * * (?) सदा || सिद्ध्यसिद्धिनिमित्तं तु प्रत्ययार्थमवेक्षते | निमित्तं चरितं चिह्नं प्रत्ययेति प्रकल्पितम् || तस्मात् सर्वप्रयत्नेन प्रत्ययं तु अपेक्षते | यज्जापिना सता मन्त्रे सिधिहेतोरपेक्षयेत् || कर्मस्वकान्यतानि अव्यङ्गानि लक्षयेत् | अलक्षितं तु सर्वं वै विघ्नकर्मैः सुदारुणैः || तस्मात् सर्वाण्येतानि अङ्गानीति मुनेर्वचः | सालेन्द्रराजः सर्वज्ञो बोधिमण्डे समाविशेत् || मन्त्रं उदरीरयामास सर्वविघ्नप्रनाशनम् | दुःस्वप्नं दुर्निमित्तं तु दुःसहं च विनाशनम् || तस्य बोधिगतं चित्तं सर्वज्ञस्य महात्मने | मारेण दुष्टचित्तेन कृतो विघ्नो महाभयोः || अनिमित्तं तेन दृष्टं वै तरोर्मूले महाभयम् | अनिमित्तात् तस्य जायन्ते अनेकाकारभीषणाः || तस्य पुण्यबलाधाना चिरकालाभिलाषिणा | तेन मन्त्रवर्ण तस्य वलासौ भग्नाशौ नमुचिंस्तदा || ऋद्धिमन्तो महावीर्यां संवृतोऽसौ महाद्युतिः | तस्य मन्त्रप्रभावेन लिप्से बोधिमुत्तमाम् || स एव वक्ष्यते मन्त्रः दुर्निमित्तोपघातनम् | दुःस्वप्नं दुःसहं चैव दुष्टसत्त्वनिवारणम् || * * * * * * * * (?) हनक्षत्रज्योति** (?) | मन्त्रराट् * * * * * * * * (?) शालेन्द्रेण ** (?) वै || निग्रहार्थं च दुष्टा***(?)हनक्षत्रतारकात् | भूतां चैव सर्वेषां सौम्यचित्तां पयोधनाम् || १७२, प्. १७२) शृण्वन्तु भू*********** (?) पृथिवीचराः | अपदा ***** (?) द्विपदा वापि चतुःपदा || सर्वे संक्षेपतः सत्त्वा ये केचित् त्रिषु स्थावराः | नमः समन्तबुद्धानामप्रतिहतशासनानम् || ओं ख ख खाहि खाहि | हुम् हुम् | ज्वल ज्वल | प्रज्वल प्रज्वल | तिष्ठ तिष्ठ | ष्णीः फट् फट् स्वाहा | एष बुद्धाद्ध्युषितो मन्त्रः ज्वालोष्णीषेति प्रकीर्तितः | यानि कर्मसहस्राणि अशीति नव पञ्च च || करोति विविधां कर्मां सर्वमङ्गलसम्मतः | दुःस्वप्नान् दुर्निमित्तांस्तु सकृज्जापेन नाशयेत् || करोति अपरां कर्मां सर्वमन्त्रेषु स्वामिनः | वशिता सर्वसत्त्वानां बुद्धोऽयं प्रभवो गुरुः || स्मरणादस्य मन्त्रस्य सर्वे विघ्नाः प्रणश्यिरे | देवातिदेवसम्बुद्ध इत्युक्त्वा मुनिसत्तमः || मुहूर्तं तस्थुरे तूष्णीं यावत् कालमुदीक्षयेत् | तस्थुरे देवसङ्घाश्च शुद्धावासोपरिस्तदा || सर्वेषां देवमुख्यानां नक्षत्रग्रहतारकाम् | समयं जग्मु ते भीता उष्णीषो मन्त्रभाषिताः || तुल्यवीर्यो महावीर्य उष्णीषाख्यो महाप्रभाः | शतपञ्चचतुष्कां वा सप्ताष्टा नवतिस्तथा || द्विषष्टि पञ्चसप्तान्या उष्णीषेन्द्राः प्रकीर्तिताः | एतत् सङ्ख्यमसङ्ख्यया राजानो मूर्धजा शुभा || तेषु तुल्योमयं मन्त्रः जिनमुर्वजना इति | आ*(?) *(?)श्रियमूलकल्पा ******(?)वतंसकात् * * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || १७३, प्. १७३) अष्टादशः पटलविसरः | अथ बह्ग*(?) शाक्यमुनिः पुनरपि शुद्धावासनवनमवलोक्य तं च पर्षन्मण्डलं मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीयमन्त्रचर्याभियुक्तस्य बोधिसत्त्वचर्यापरिपूरणार्थाभिप्रायस्य बोधिसत्त्वस्य महासत्त्वस्य क्रियाकालक्रमणयोगानुकूलयोगचर्यानुकूलनक्षत्रव्यवहारानुवर्तनक्रंअं स्र्वमन्त्रचर्यार्थसाधनोपयिकपटलविसरम् | भाषिष्ये तं शृणु साधु च सुष्ठु च मनसि कुरु || एवमुक्ते भगवता मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् | आश्चर्यं भगवं ! यावद् भाषितं परमेणानुग्रहेणानुगृहीता बोधिसत्त्वा महासत्त्वा सर्वबोधिसत्त्वचर्यानुवर्तिनां सर्वमन्त्रचर्यार्थपरिपूरकाणां सत्त्वानाम् | तद्वदतु भगवानस्माकमनुकम्पार्थम् || एवमुक्तो मञ्जुश्रीः कुमारभूतः कृताञ्जलिपुटो भगवन्तमवलोकयमानः ताः तूष्णीमेवमवस्थितोऽभूत् || अथ खलु भगवां शाक्यमुनिर्लोकानुग्रहकाम्यया | वज्रेन्द्रवचनं श्रेष्ठं हितार्थं सर्वदेहिनाम् || इदं भोः ! भद्रमुखाः ! श्रेष्ठं नक्षत्रं हिताहितं | सर्वमन्त्रार्थचर्यायां युक्तायुक्ताः समाहिताः || सिद्धमर्थं तथापूर्णमनुकूलं चापि कथ्यते | सिद्धिहेतोस्तथा मन्त्री मन्त्रं तन्त्रोपलक्षयेत् || शुचेऽहनि शुचौ देशे शौचाचाररते सदा | प्रशस्ते तिथिनक्षत्रे शुक्लपक्षे सदा शुचिः || स्नातो ध्यायी व्रती मन्त्री मन्त्रतन्त्रार्थकोविदः | होम जाप तथा सिद्धिं कुर्यात् कर्म सविस्तरम् || रेवती फल्गुनी **** (?) पुष्यार्थसाधिका | **(?)धा तथा ज्येष्ठा***(?) वापि वर्णिता || **** (?) बाद्रपदौ सदा सिद्ध्यर्थ श्रवणा | सिद्ध्यर्थ***** (?) धनिष्ठा चापि ***(?) || १७४, प्. १७४) सिद्धिहेतोरतत्रा **(?) रोहिण्या मृगशिरास्तथा | अश्विन्यौ पुनर्नसूयुक्ते नक्षत्रौ स्वातिरेवतौ || प्रशस्ता गणिता ह्यते विद्यासाधनतत्पराः | एतेषामिन्दुवारं तु विधिरेवमुदाहृतम् || शैत्यैः शान्तिकं शेषकाले ततो विद्यापुष्ट्यर्थं चापि तत्परम् | मध्याह्ने दिनकरे कर्म चन्द्रे चापि गर्हितम् || अर्धरात्रे स्थिते चन्द्रे कुर्यात् कर्माभिचारुकम् | तृतीये याममनुप्राप्ते पुष्टिहेतोः समारभेत् || पुष्ट्यर्थं साधयेन्मन्त्रं भोगहेतोस्तदा नृषु | उदयन्तं भास्करं विन्द्यात् सर्वकर्मेषु युक्तितः || रक्ताभावे तथा भानोः कुर्यात् कर्माभिचारुकम् | शेषकाले ततो विन्द्यात् पूर्वाह्ने रविमण्डले || युगमात्रोत्थिते तथा नित्यं कुर्याच्छान्तिककर्मणि | ततो द्विहस्तितो ज्ञेयं प्रमाणे चैव भगस्तिने || कुर्याच्छान्तिककर्माणि शान्तिकेष्वपि योजिते | मन्त्रमुद्रैस्तथाश्रेष्ठैर्जिनाग्रकुलसम्भवैः || मध्याह्ने सवितरि प्राप्ते कुर्यादाभिचारुकम् | अतःपरेण आकृष्येद् वश्यार्थं च योजितम् || युगमात्रावनते भानौ अपराहोपगते तथा | कुर्यात् सर्वकर्माणि क्षुद्रार्थे च योजिताः || ततः परेण काले ते सूर्यं धानमते तदा | वश्याकर्षणसर्वाणि कुर्यात् कर्माणि धीमतः || अस्तं याते**(?) भानौ रक्ता****(?)भे | कुर्यात् **(?) *(?)र्वाणि रक्ताभा**(?) हिताम् || कान्तकामाः **(?)र्यात् कर्मैश्चापि **(?)भिः | * * * * * * * * * * * * * * * * (?) || १७५, प्. १७५) *(?)यार्थी कारयेत् **(?) कर्मकालसमोदितम् | **(?) यामे तदा **(?) साधयेत् सत्त्वयोजितः || अतः परेण सर्वत्र सर्वकर्माणि कारयेत् | अर्धरात्रे तदा चन्द्रा ग्रहः पश्येद् वसुन्धराम् || प्रविशेत् पश्चिमां दिशां तस्मिन् काले समोदिताम् | ततः परेण ग्रहः पश्ये सूर्यो सनराधिपाम् || प्रसवे दक्षिणां देशां सिद्ध्यर्थी मन्त्रयोजितः | मर्त्येऽपि लभते क्षिप्रं कार्यसिद्धिं तु पुष्कलाम् || अजापी जापिनश्चापि *** (?) लभते फलम् | यथेष्टां कुरुते सिद्धिं जापिनस्यापि धीमते || तृतीये यामे सदा गच्छेद् दिशं चापि यत्नतः | दक्षिणपश्चिमान्मध्ये व्रजेत् तत्र फलोद्भवी || उदयन्ते तथा भानौ प्रभवोदुत्तरां दिशम् | ततः परेण कालान्ते युगमात्रोत्थिते रवौ || गच्छद् विदिशं तन्त्रज्ञः सिद्धिकामफलोद्भवाम् | पश्चिमोत्तरयोर्मध्यं स देशः परिकीर्तितः || अजापी जापिनस्यापि युक्तिरुक्ता तथागतैः | निर्दिष्टां कार्यनिष्पत्तौ सिद्धमन्त्रस्य वा तदा || मध्याह्ने पूर्वतो गच्छेद् दिशांश्चैव सर्वतः | ततः परेण कर्माणि * * * * * (?) कारयेत् || अर्धरात्रे तदा चन्द्रो ग्रहः पश्येद् वसुन्धराम् | कालान्ते विदिशान्ते मुनि * * * * (?) बोधिना || पूर्व***(?)र्मध्ये सदृशः **(?) लिप्सताम् | तत***(?) दिशः प्रोक्ता ***(?)क्षिणयोः सदा || कथि***(?)दश्च दिशश्चैव विदिक्षु वा | * * * * * * * * * * (?) पविशे दैत्यमा*(?) || १७६, प्. १७६) सुरङ्गेषु न सर्वेषु सत्त्वेषु कूपवासिषु | सर्वथा श्रीमुखेष्वेव सर्व*****(?)भवधारिनाम् || ततः परेण यामान्ते रक्ताङ्गे ग्रहमण्डले | प्रविशेद् यक्षयोनीनां निलयांश्चैव सुकश्मलाम् || व्रजेत् परिगृहां क्षिप्रकालेष्वेव नियोजितम् | उत्तिष्ठन्तं साधयेन्मन्त्रं प्रसादाश्रयसम्भवाम् || आरुरुक्ष पुराग्रं वै असिद्धिः सिद्धिरेव वा | आरुरोह स्वकावासं प्रासादाग्रं तु मानवी || सिद्धन्ते चिन्तिता तस्य कालेष्वेव सुयोजिताः | मन्त्रसिद्धिः सदा तस्य मन्त्रतन्त्रविशारदैः || दिशे गमनेनैव सिद्धिमात्रां समुच्यते | अमन्त्री मानवः क्षिप्रं लभते फलसम्भवाम् || ईप्सितां साधयेदर्थां ग्राम्यांश्चैव च मानुषाम् | काला निगमतः प्रोक्तं दिशांश्चैव समन्ततः || प्रसवेत् सर्वतो मन्त्री कालेष्वेह देशेषु च | अश्विनी भरणिसंयुक्ता कृत्तिका मृगशिरास्तथा || एतेष्वेव हि सर्वत्र नक्षत्रेष्वेव योजिता | शान्तिकं कर्म निर्दिष्टं फलहेतुसमोदयम् || रोहिण्यां साधयेदर्थां पुष्टिकामः सदा जापी | आर्द्रायां कारयेत् कर्म वश्याकर्षणहेतुभिः || पुनर्वरतो तथा पुष्ये साधयेद्धनसम्पदाम् | विचित्राभरणवस्त्रांश्च अञ्जनं समनःशिलाम् || रोचनां गै * * * * * * * * * * * * (?) | *(?)याकर्षणमेधा * * * * * * * * * (?) || आश्लेषायां * * * * * * * * * * * * (?) | मघासु कुर्यात् तथा कर्म राज्य* * * * * (?) || १७७, प्. १७७) फल्गुन्यावुभौ श्रेष्ठौ आरुरोह स्ववाहनम् | विचित्राणि कर्माणि हस्तेनैव विधीयते || स्वात्यां विशाखयोः कुर्याद् द्रव्यकर्मसमुद्भवम् | अनुराधा तथा ज्येष्ठा उभौ नक्षत्रयोजितौ || सिद्धिकामः सदा कुर्याद् राज्यकामस्तथा सदा | भौम्यार्थसम्पदांश्चापि विविधां योनिजां पराम् || साधयेद् धननिष्पत्तिं नक्षत्रेष्वेव योजिताः | उभौ ह्यषाढौ तथा प्रोक्तौ जन्तुकर्मसु योजयेत् || धातुजेष्वपि सर्वत्र दृश्यते सिद्धिमानवे | मूले मूलकर्माणि ओषध्यां विविधोद्भवाम् || साधयेन्मन्त्रतन्त्रज्ञो मूलनक्षत्रयोजिताम् | श्रवणेष्वेव सर्वत्र कुर्याच्छ्रावण्यवर्णिताम् || निर्वाणप्रापकं धर्मं प्रव्रज्यां चापि योजयेत् | धनिष्ठेषु सदा कुर्याद् धूपपुष्करिसाधनाम् || वृक्षां वाहनां चैव वस्त्रांश्चैव विधानवित् | कुर्यात् शतभिषक् कर्म हिंसाप्राणिषु निर्दयाम् || प्राणापरोधसत्त्वेषु कुत्सितां तां विवर्जयेत् | उभौ भद्रपदौ श्रेष्ठौ भूम्यामर्थनिवारकौ || सम्पदा कुरुते क्षिप्रं कर्मेष्वेव हि योजितौ | सेनापत्यार्थसाधने * * * * * * * * (?) || राज्ये धननिष्पत्तिभूषणाभरणादिषु | नानाधातुगणांश्चैव **** (?) यथेप्सिताम् || सावयेन्मन्त्रतन्त्रज्ञ * * * * * * (?)जितौ | *** (?) साधयेद् द्रव्यं ****(?)समुद्भ्वाम् || साधयेन्मन्त्रकर्माणि नानारत्नसमुद्भवम् | सर्वाद* * * * * * * * (?)मन्त्रवितं सदा || १७८, प्. १७८) अश्विन्यश्च धरण्यश्च कृत्तिकानां तथांशकम् | एतदङ्गारके प्रोक्तं क्षेत्रं चैव नमस्तले || तस्या वार तथा कीर्त्तिं सौम्यां साधये च तदा महीम् | कृत्तिकं त्र्यंशकं विन्द्याद् रोहिणीमृगशिरो परौ || एतद् भार्गवे विन्द्यात् क्षेत्रं चैव नभस्तले | मृगशिरांशं तथा चैवं आद्रायां च सुयोजिताः || पुनर्वसुश्च तदा विन्द्याच्छान्त्यर्थं क्षेत्रमुद्भवम् | पुष्याङ्गं तथाश्लेषं मघं चैव निबोधितम् || एतद् भानोः सदा क्षेत्रं कुर्यादाभिचारुकम् | फल्गुन्या तु उभौ साङ्गौ ग्रहचिह्नितचिह्नितौ || इन्दुवारं तथा विन्द्यात् क्षेत्रं तस्य निशाकरे | हस्तचित्रौ तथा सांशौ कुर्यात् कर्मातिमानितम् || बुधस्थाने तु उद्दिष्टः सर्वकर्मप्रसाधकः | स्वात्या विशाखसंयुक्ता सांशा वापि कीर्तिता || द्वितीयं क्षेत्रनिर्दिष्टं दिवाकरस्य न संशयः | अनुराधाज्येष्ठसांशौ तौ निर्दिष्टौ पृथिवीसुतौ || द्वितीयमङ्गारकक्षेत्रं वृश्चिकातसमुद्भवः | सर्वधर्मार्थसंयुक्तः कर्मयुक्तार्थसाधयेत् || वर्जयेद् धीमतो हिंसां प्राणहिंसाभिचारुकाम् | साधयेद् विविधानर्थी कर्मांश्चैव सुपुष्कलाम् || मूलपाढौ तथा प्रोक्तौ उभौ सांशत्रिकोद्भवौ | एतद् बृहस्पतेः क्षेत्रं नभःस्थं दृश्यते भुवि || साधयेत् कर्म मुक्तात्मा विधाना****काम् | * * * * * * * * (?) सफलांश्चैव * * *(?) || धन्विनि राशिनिर्दिष्टो कुर्यात् सव***(?) | श्रवणा धनिष्ठनिर्दिष्टा शतभिषां सममोदिता || १७९, प्. १७९) एतत् शनिश्चरक्षेत्रं द्वितीयं कथितं पुरा | *(?)न्यमकरनिर्दिष्टा सर्वानर्थनिवारकः || तत्रस्थो यदि कर्माणि आरभेत विचक्षण | सिद्ध्यत्ययत्नान्मन्त्रज्ञस्तस्मिं काले प्रयोजिता || राश्यः कुम्भनिर्दिष्टा प्रोक्ता मुनिभिः पुरा | उभौ बह्द्रपदौ प्रख्यौ रेवती च यशस्विनी || अङ्गहीना तथा पूर्वा शुभेन्द्रग्रहचिह्निताः | प्रशस्ताः शोभनाः सर्वे तत् क्षेत्रं गुरवे *(?) दा || मीनराशिसमासेन कथितं लोकचिह्नितैः | ग्रहः प्रधान सर्वत्र तिर्यङ् मुक्ता सर्वकर्मसु || सप्तैते कथिता ह्यग्रमानुषाणां गणागमे | अनन्ता ग्रहमुख्यास्तु अनन्ता ग्रहकुत्सिताः || मध्यस्था कथिता ह्येते मानुषाणां हिताहिता | इति | तेषां सत्त्वप्रयोगेषु निर्दिष्टा मन्त्रजापिनाम् || सत्त्वासत्त्वं तथा कालं नियमं चैव कीर्तितम् | नाग्रहो धर्मसंयुक्तं न कर्मो ग्रहचिह्नितम् || संयोगग्रहनक्षत्रो मन्त्रसिद्धिमुदाहृता | न सिद्धिः कालमिति ज्ञेया नासिद्धिः कालमुच्यते || सिद्ध्यसिद्धावुभावेतौ सङ्गाकालतः क्रमा | विपरीतरता धर्मा न धर्मा धर्मचारिणः || धर्मकर्मसमायोगा संयुक्तः साधयिष्यति | न दैवात् कर्ममुक्तस्तु सिद्धिर्न सिद्धिर्देवमुद्भवा || तत्कर्मश्च सिद्धिश्च दैवमेव नियोजयेत् | न दैवात् कर्ममुक्तस्तु दैवं **(?)मितःपरम् || **(?)कं तु मन्तः प्रोक्तं वि***(?)ष्टहेतुना | ****(?)मुक्तास्तु नक्षत्राश्च सुपूजिताः || १८०, प्. १८०) तस्मात् कर्म समं तेषां कर्मार्थं सिद्धिरिष्यते | कथिता गणना ह्येते कर्म एव सदैवतम् || न ग्रहा राशयो योनिरक्षताश्च सुपूजिताः | कर्म एष सदा विन्द्याद् विधिमुक्ता समोदिता || फलोद्भवं च सदा कर्म युक्तिर्मन्त्रेषु भाषिता | तस्माद् युक्तितः कर्म न ग्रहो नापि राश्यजा || नक्षत्राणां तिथीनां च गतियोनि समासतः | कालप्रमाणनियमश्च न परं कर्मयोः सदा || तस्मात् तन्त्रवित् सर्वं धर्म एव नियोजयेत् | अनन्तग्रहाणां लोके राशयो विविधा परे || तिथयो गणिता सङ्ख्ये क्षेत्रश्चैव नियोक्तृभिः | तस्मात् संक्षेपतो वक्ष्ये कथ्यमानं निबोधताम् || मेषो वृषो मिथुनश्च कर्कटश्च सुयोजितः | सिंहकन्यतुलं चैव वृश्चिकधन्विनौ परौ || मकरः कुम्भ इति ज्ञेयौ मीनवानरयोऽपरे | मानुषो देवराशिश्च अपरो गरुडापरौ || यक्षराक्षसाराश्यो तिर्यक्प्रेतशुभौ परे | नरका राशिनिर्दिष्टा अनन्ता गतियोनिजा || निर्दिष्टा राशयः सर्वे नानाधातुसमुद्भवाः | असङ्ख्येया मुनिभिः प्रोक्ता राशयो बहुधा परे || तेषां गतिचिह्नानि सत्त्वयोनिसमाश्रयम् | कथितं कथयिष्येऽह अनन्तां नक्षत्रां ग्रहाम् || क्षेत्रा च बहुधा प्रोक्ता नानाग्रहनिषेविता | इति | बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् षोडशपटलविसराद् द्वितीयो ग्रहनक्षत्र**(?)णक्षेत्रज्यो*******(?) ***** (?) | १८१, प्. १८१) अथ एकोनविंशः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोषय मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म || अस्ति मञ्जुश्रीः ! तृतीयमपि ज्योतिषज्ञाननियमपरिवर्तं भाषिष्ये पूर्वकैः सम्यक् सम्बुद्धैर्भाषितं चाभ्यनुमोदितं च त्वदीयमन्त्रतन्त्रार्थकल्पितम् | शृणु साधु च सुष्ठु च मनसि कुरु || एवमुक्ते भगवता शाक्यमुनिना मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां तेनाञ्जलिं प्रगृह्य भगवन्तमेतदवोचत् | तत् साधु भगवां भाषतु ज्योतिषज्ञानपटलविसरम् | तद् भविष्यति सत्त्वानामर्थाय हिताय सुखाय | देवमनुष्याणां सर्वमन्त्रचर्यानुप्रविष्टानां च सत्त्वानामनुत्तरायां सम्यक् सम्बोधो अभिप्रस्थितानां च उपायकौशल्यमन्त्रचर्या सुखेन साधयिष्यन्ति | सर्वसत्त्वानुकूलं योगविधानकर्मानुकूलं कालनियमनिष्यन्दितकर्मस्वकतां नक्षत्रवारग्रहयोनिक्षेत्रराशिसमोदयाम् | तद् भविष्यति सुखसाधनोपायं मन्त्रानुवर्तनं सुखविपाकं तद् भविष्यति ते बोधिसत्त्वानां विष्पन्दितविकुर्वण ऋद्ध्यधिष्ठानम् || एवमुक्ते मञ्जुश्रिया कुमारभूतेन अथ भगवां मञ्जुश्रियं कुमारभूतमेतदवोचत् | साधु साधु मञ्जुश्रीः ! यस्तथागतमेतमर्थं परिपृच्छसे | तेन हि शृणु साधु च सुष्ठु च मनसि कुरु | भाषिष्ये सर्वसत्त्वानामर्थाय || एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य निषण्णो धम्रश्रवणाय || अथ भगवां सर्वावन्त शुद्धावासभवनमाभया स्फुरित्वा सर्वशुद्धावलोकनद्य**(?) नाम ***(?) समापद्यते स्म | समनन्तरसमाप*(?)य भगवतः **************** (?)जष्ठस्फटिकवर्णादयो रश्मयो **(?)रन्ति स्म | निर्गत्य च सत्त्वानां बुद्धक्षेत्रां *******(?)र्वाणि च १८२, प्. १८२) ग्रहनक्षत्रयोनिं समाश्रयराशितारां भवनान्यवभास्य गगनतलगतां नरकतिर्यक्प्रेतदेवभवनमनुप्यसर्वसत्त्वभवनानि भावभास्य सर्वदुःखानि च प्रतिप्रश्रभ्य सर्वसत्त्वाना. पुनरेव भगवतः शाक्यमुनेः कायेऽन्तर्द्धीयते स्म || अथ भगवांश्छाक्यमुनिस्तस्मात् समाधेर्व्युत्थाय सर्वां तां नक्षत्रग्रहराशिदेवसङ्घानामन्त्रयते स्म | शृण्वन्तु भवन्तः सर्वनक्षत्रदेवसङ्घाः ! यो ह्यस्मिन् धर्मविनये मन्त्रचर्यायां समनुप्रविष्ट इह कल्पविसरे तत् साधयेत् सर्वमन्त्राणां सर्वद्रव्यकर्मविधानादिषु न भवद्भिस्तत्र विघ्नं कर्तव्यं सर्वैरेव सन्निपतितैः रक्षाविधानसान्निध्यं कथयितव्यम् | यो ह्येनं समयमतिक्रमेत् तस्य यमान्तकः क्रोधराजा सर्वनक्षत्रग्रहाणां तत्क्षणादेवमपर्यन्तलोकधातुस्थितानां ससुतानां सबान्धवां सपार्षदानानयति स्म दमयति स्म समनुशासयति स्म भगवतः समीपमुपनामयति स्म सर्वेषां च मूर्धनि स्थित्वा पादेनाक्रम्य विविधानि क्रूरकर्मऋद्धिप्रातिहार्याणि दर्शयति स्म बुद्धाधिष्ठानेन प्राणैर्वियोजयति स्म समये च स्थापयति स्म विकृतरूपमात्मानं दर्शयति स्म अन्ते सर्वभूतयक्षराक्षसनक्षत्रग्रहराशयो निसत्त्वगरुडमरुतमहोरगगणा सर्वैर्भीतास्त्रस्ताः तह्रथरायमानाः महाविक्रोशं कुर्वाणः भगवतः पादयोर्निपत्य प्रकम्प्यमाना एवमाहुः - परित्रायस्व भगवं परित्रायस्व | सुगत अनाथाः स्म अत्राणाः स्म महाक्रोधराज भयभीता जीवितं नो भगवां समनुप्रयच्छास्माकम् इत्येवमुक्त्वा तूष्णीम्भूताः प्रवेपमानगात्राः || अथ भगवांश्छाक्यमुनिः | तां नक्षत्रग्रहसङ्घातांश्च यक्षराक्षसप्रेतपिशाचमातरगणानामन्त्रयते स्म | मा भैष्टथ मार्षाः ! मा भैष्टथ मार्षाः ! नास्ति तथागतानामन्तिक उपसङ्क्रान्तानां भयं वा मरणं वा | सर्वदुःखा निवार्यो हि मार्षाः ! बुद्धं मरणं गच्छेत् विपदानामग्र्यं धर्मं ******(?) **(?)रागाणामग्र्यं *(?)रणं ग***(?) गणानामग्र्यं न तस्य ******(?)हर्षम् | वाञ्छन्ति तत्त्वो **(?) पुनर्वादो मृत्युभयं सर्वभयदुःखे ******(?) एव द्रष्टव्यः | सर्वसांसारिकं भयं न कदाचिद् विद्यते | १८३, प्. १८३) दुःखो नमं शान्तिं निज्वरं सन्नियतं बोधिपरायणं पामनाप्युयादिति || अथ तत्क्षणादेव भगवता तेषां सर्वदुःखानि ऋद्ध्या प्रतिप्रमुन्धानीति यमान्तकश्च क्रोधराजा भगवतश्चरणयोर्निपत्य मञ्जुश्रियस्य कुमारभूतस्य समीपे सन्निषण्णो धर्मश्रवणाय || सर्वे च ते ग्रहनक्षत्रगणाः सर्वदुःखानि च प्रतिप्रश्रभ्यन्ते स्म | सर्वश्च केतवो प्रशान्ता निषण्णाश्च धर्मश्रवणाय स्वस्थीभूता एकाग्रमनसो भगवन्तं व्यवलोकमाना विस्मयोत्फुल्लनयना *(?) द्विल्पमनसश्च संवृत्ता अभूवं || अथ भगवता लोकानुकम्पार्थं तथा तथा धर्मदेशना कृता चतुर्यासत्त्वसम्प्रयुक्ता यथा यथा तैः सत्त्वैः कैश्चित् सत्यानि दृष्टानि कैश्चिदर्हत्वं कृतम् कैश्चित् प्रत्येकबोधः कैश्चिदनुत्तरायां सम्यक् सम्बोधोचितान्युत्पादितानि सर्वं च नियताव्याकृतानुत्तरायां सम्यक् सम्बोधो सर्वैश्च पिथितान्यपापदुर्गतिविनिपातानि देवमनुष्योपपत्तौ द्वाराण्युत्पादितानि स्वर्गार्गलमपावृतम् | सर्वे च समयमधितिष्ठन्ति || अथ भगवांश्छाक्यमुनिस्तेषामनुशयं ज्ञात्वा विनयकालसमयमनन्तरमेव तेषां विनीतां सत्त्वां ज्ञात्वा धर्मं भाषते स्म || अरिदुःखसमाक्रान्तं दोषजं विनिधाश्रयम् | अभावो देवगणाः सर्वे पूज्यन्ते शासने इह || आरभध्वं परं वीर्यं बोधिसोपानहेतुकम् | प्राप्नुयादेव सङ्घाताः शान्तनिज्वरमालयम् || अशोकं विरजं क्षेमं निर्वाणं वापि नैष्ठिकम् | निर्मलं गगनतुल्याख्यं अभावं तु स्वभाविकम् || परं प्राप्स्यथानिन्दितं दिव्यं सुजुष्टमनावृतम् | * * * * * * * * * * * * (?) समोदितम् || भावयन्तं *****(?) सर्वं प्रा***(?) च नैष्ठिकमिति | मन्त्रतन्त्रां ****** (?) चर्या चैव सुखोदया || कथिता जिनवरैः श्रेष्ठा मन्त्रसिद्धिरुदाहृता | ***(?) सत्त्वानां अग्रे नियोगेनैव धीमतैः || १८४, प्. १८४) कथिता मन्त्रसिद्धिस्तु फलकाले समोदये | विचित्रं कर्मणां जाति विचित्रेव योजिता || विचित्रा कर्मतः सिद्धिर्विचित्रं कर्मयोनिजम् | विचित्रा चित्ररूपेण मन्त्रैरेभिर्नियोजिता || विचित्रार्थाः कर्मविस्तरा विचित्रं कर्म उच्यते | कर्म चिन्त्या तथा चित्रं अचिन्त्यं चापि चिन्तितम् || तस्मात् प्रारम्भन्मन्त्री मन्त्रचित्तेषु पुष्कलाम् | राशयः कथिताश्चित्रा तेषु जाता नरा सदा || सदेवासुरमुख्यास्तु विविधा प्राणिविहङ्गमा | तेषां च यानि चिह्नानि तानि सिद्धिषु योजयेत् || मेषराशौ तथा जातः मनुजा वा दिवौकसा | बह्वपत्यो बहुभाष्यो सुरूपश्चापि जायते || वणिक् शीली तथा शूरः मनुजः स्त्रीषु वर्णितः | वक्रो लुब्धचित्तश्च भूपतिर्गृहसेविनः || तत्रस्थश्चन्द्रमा प्रोक्तः सर्वकर्मे प्रयोजयेत् | आदित्यो यदि दृश्येत मेषराशिसमाश्रितः || तत्र कर्म सदा सिद्धि क्रूरकर्मसुयोजिताम् | यानं गमनं चैव आसनं शयनं सदा || न भजेत् तन्त्रमन्त्रज्ञो विरुद्धा सर्वयोगिभिः | तत्र जातः सदा मर्त्यो मन्त्रं देयाभिचारुकम् || वृषराशौ तदा जातो मनुजो भोगवान्सदा | स्त्रीषु कान्तः सदा लुब्धः धर्माधर्मविचारकः || ग्राम्यसेवी सदाध्यक्षो देवराङ्गानि बोधता(?) | ****(?)द्रमा जातो *(?)र्मिकोऽसौ सुरेश्वरः || भवेत् तस्य चित्तं वै ***(?)श्रयता सदा | तस्य मन्त्रा सदा दे****(?) जिनभाषितः || १८५, प्. १८५) तेन चन्द्रार्थयुक्तेनराश्रयोऽर्थनिबोधिताः | गमनागमनं कर्म स्मश्रुकर्म च युक्तिमाम् || आचरेद् ग्रहकर्माणि न कुर्याद्याभिचारुकम् | सर्वकर्मसमुद्योगं मन्त्रसिद्धिसुखोदयम् || आलिखेन्मण्डलादीनां बुद्धबिम्बांश्च कारयेत् | सिद्धद्रव्यसुराश्रेष्टा साध्यमाना दिवौकसा || सिध्यन्ते मन्त्रिभिर्युक्ता नक्षत्रेष्वेव रिसिषु | मिथुनायां यदा जातो मानुषोऽथ दिवौकसः || तेषां च गतिचिह्नानि सिद्धिकालं निबोधताम् | आढ्यो उद्युक्तचित्तश्च शठो मूर्खोऽथ जायते || तत्रस्थो यदि विख्यातः नक्षत्रा निशि भूषणम् | ततः कान्तो कवेन्मर्त्यो बन्धूनां वल्लभः सदा || धनाढ्यो युक्तिमन्तश्च महेशाख्योऽथ जायते | शेषै ग्रहैः क्रूरैस्तु विविधैश्चापि कुत्सितैः || जायते धूर्त्तरागार्त्तः व्याधिभिश्च समाकुलः | नेदद्युस्तस्य मन्त्रा वै शान्तिकं पौष्टिकं परम् || क्षुद्रां कश्मलांश्चैव क्रव्यादां पिशिताशिनाम् | क्रूरै ग्रहमुख्यैस्तु दर्शनाश्च भवेत् सदा || एतेषां मन्त्रसिध्यर्थं क्रूरकर्मेषु योजये | निषिद्धं गमनं तत्र अग्रपञ्चविवर्जितम् || गमनागमनयोस्तत्र न सिद्धिः सर्वकर्मसु | क्षुद्रकर्म तथा तेषां दद्यः सर्वतो जानां || सिताख्यौ ग्रहमुख्यौ तौ पातकौ द्वे परेऽपरौ | चतुर्था ग्रहमुख्याना दर्शनं श्रेयसोद्भवम् || उभौ रक्तौ उभौ कृ**(?) **(?) क्रूरकर्मिणाम् | सितौ शुक्लेन्दुमुख्यौ *(?) पीतकौ बुधबृहस्पतौ || १८६, प्. १८६) अर्काङ्गारकश्चैव रक्तौ तौ दिशि भूमिजौ | षण्डो राहो तथा कृष्णौ विचित्रा शेषका ग्रहाः || नानाग्रहगृहा प्रोक्ता विचित्रा धातुसुभूषिताः | विचित्राकृतयः केचिद् विचित्रप्रहरणोद्यता || नानाधातुगणाध्यक्षा नानाऋषिपुरातनै | शेष्यन्ते ग्रहाणां सर्वं अप्सराभिश्च किन्नरैः || गगनस्था वर्णतो याता गतियोनिविदिता | अन्तरीक्षचराः सर्वे नक्षत्रैः सहचारिणः || व्योम्नि धानसमायाता विचित्रा गतिचेष्टिता | महर्द्धिका प्रभावतः गत्या रूपवेषसमाश्रयात् || कथिता मुनिवरैः सर्वैः कर्मतत्त्वार्थयोजिताः | चतुर्थेऽहनि संयुक्ताश्चतुःसत्त्वनियोजिताः || चत्वारो ग्रहवरा प्रोक्ता सितो पीतोऽर्थसाधकाः | शेषाः क्रूरकर्मसु रक्तौ कृष्णौ च योजितौ || नाचरेत् सर्वकर्माणि शान्तिकानि विशेषतः | कृष्णरक्तौ ग्रहौ ह्येतौ तिथौ चापि चतुर्दशी || नाचरेत् सर्वकार्याणि क्षुद्रकर्माणि साधयेत् | मानुषे साधयेदर्थां गणनामे शुभोदयाम् || तैरेव कारयेत् क्षिप्रं आसनं शयनं सदा | मन्दिरं च विशेद्धीमां सर्वदुर्गाणि कारयेत् || कर्कटराशिजातस्थो दृश्यते मनुजाः शुभः | शास्ता च भवेत् क्षिप्रं राजानश्चक्रवर्तिनः || भवन्ते जन्मिनो व्येधो पूर्वकर्मसमूहतैः | शुक्रेन्द्रग्र*******(?)र्शनं चैव जातनाम् || शुभेऽह********(?)बोधिसत्त्व अज***(?) | पुष्पनक्षत्र********(?) मरुपूजिता || १८७, प्. १८७) बुद्धास्त्रैलोक्यगुरवोऽन्येऽपि महर्द्धिकाः | राज्यकर्मा निकृन्ता च बहुपाणिनराधिपाः || जायन्ते विविधा लोके शन्यर्काङ्गारचिह्निताः | केचिज्जनभूयिष्ठा मर्त्या कर्मपरायणा || जायन्ते विविधाचारा पुष्ये जातापि ते सदा | तस्मात् कर्मफलं विद्धि गतिमात्मानचेष्टिता || केवलं तु सदाचारा ग्रहकर्मनियोजिता | लोकधर्मानपेक्षेह निर्दिशन्ति तथा जिनाः || कर्म लोकवैचित्र्यं लोकधातुसमाधिजम् | भाजनं सर्वलोकानामाश्रयोद्भवसम्भवम् || विचित्रं कथितं लोके सुराः ! श्रेष्ठां निबोधताम् | कर्मजं हि पुरा प्यासी कथयामास वत्सलः || सत्त्वसाधारणा धीमां बोधिसत्त्वो महर्द्धिकः | मञ्जुघोषस्तदा वव्रे सत्त्वानां हितकाम्यया || कर्मजं कथितं सर्वं मन्त्रतन्त्रसविस्तरम् | एषो वः सुराः सर्वे धर्मो ह्येकेन यः सदा || कर्कटो राशिजातस्य दद्यान्मन्त्रं तु पौष्टिकम् | ततः परेण सिंहस्य राशिर्दृश्यति मानवाम् || सिंहजातो भवेन्मर्त्य अशून् लुब्ध एव तु | स्त्रीशठो मांसभोजी स्याद् गिरिकन्दरवासिनः || सेनापत्य तथा नित्यं कारयेच्च वसुन्धराम् | महीपालो महाध्यक्षः क्रूरकर्मा सदा शुचिः || कृतघ्नः कृसत***(?) **(?)पकर्मसदारतः | मित्रद्रोही ****** (?)श्चैवमजायत || ग्रहैश्चापि सदा ****(?)पानैश्च धीमतैः | जायते धार्मि******(?)पि शठः स्मृतः || १८८, प्. १८८) तत्र कर्म समुद्दिष्टं पौष्टिकं सिद्धिलिप्सिताम् | उत्तिष्ठं खेचरं चापि अतिमानसमोद्गतम् || नान्यं कर्म समुद्वेतं समानं चापि वर्जयेत् | ततः परेण सिंहस्य कन्यराशिरिति स्मृतः || तत्र जातो भवेद्धूर्तस्तस्करः कृपणः शठः | स्त्रीषु कान्तः सदा लुब्धः क्रूरः साहसिकः सदा || मूर्खः परदारी च स्तब्धो मानोन्नतः सदा | शुभनक्षत्रवारेण शुभदृष्टिग्रहोदितैः || पीतशुक्लैर्ग्रहैर्दृष्टा जायन्ते च महाधनाः | शुद्धमन्त्रः सदा धीमान् शुचिवृत्तिसमाश्रये || सम्भूता मन्त्रतन्त्राश्च साधयेत महीतले | क्षिप्रमर्थकरा ये तु पुष्ट्यर्था ये तु कीर्तिता || साधयेन्मन्त्रवित् सर्वां जिनाङ्गीकुलयोरपि | जिनेन्द्रमुख्या ये मन्त्रा बहुधा चापि कीर्तिता || साधयेन्मन्त्रवित् सर्वां राश्यर्थेष्वेव जातिषु | ततः परेण भवेद् राशिः तुलानामनि कीर्तिता || प्रसिद्धां कर्मभूयिष्ठां तन्नासेवेत् तदाश्रिताम् | तुलायां जायते धीमान्मन्त्रसिद्धिषु योजितः || न कारयेत् साधकानां सर्वां उत्तिष्ठं भूनिबन्धनाम् | सर्वमन्त्रप्रसिद्ध्यर्थं गतियोनिषु आचरेत् || धूर्तः कृपणो लुब्धः मत्सरी चैव जायते | तुलायां राशिजातस्थो दृश्यते च सदा रतः || तं कुर्यात् सदा मन्त्री तस्मिं राशौ क्षमासृतः | यं न चाचक्षते लोके भूमिं ****** (?) || ग्रहमुख्ये तदा जातो पीतै ****** (?) | न भजेन्मन्त्रसिद्धिं च यत्नर***** (?) || १८९, प्. १८९) क्षणमात्रे तथा ****(?)यन्तं नियोजितैः | शुभैर्ग्रहैर्यदा दृष्टः पीतैः शुक्लैश्च सर्वतः || महात्मा जायते शूरः धार्मिकोऽथ नराधिपः | क्रूरतरैर्ग्रहैर्दृष्टः शन्यर्काङ्गारसिंहजैः || तुलाया जातराश्यर्थः मत्सरो भवते पुमां | बहुरोगो दरिद्रश्च व्याधिरोगार्तसमुद्भवम् || प्रचण्डः सर्वकर्मेषु क्रूरः साहसिकः सदा | न भजेच्छान्तिकर्माणि जिनतत्त्वाङ्गभाषितम् || रौद्रं कुरुते कर्मां वज्रिणे समुदयोदिताम् | आभिचारुककर्माणि नानायुद्धकृतानि तु || तस्मिं राशौ सदा तत्र कुले तत्र समुद्भवे | कुत्सिता जिनवरैः कर्म सिद्धिमायाति तत्र तु || प्रधानगुणविस्तारं प्रभावं चापि वर्जयेत् | प्रवासगमनं चैव नाचरेद्दिशि माशुजम् || मन्दरं वाहनं चापि सत्त्वधातुकृताकृतम् | नाचरेत् सर्वकर्माणि तस्मिं राशौ दिवाकरे || वृश्चिकात्तु समुत्पादे सत्त्वयोनि समाश्रयेत् | भवते लिङ्गवैचित्र्यं कथ्यमानं निबोधताम् || तीव्रः साहसिकः क्रूरो दुर्धर्षो मानदर्पितः | वक्रो लुब्धस्तथा मर्त्यो जायते वसुधातले || प्राज्ञो धार्मिको विद्वान् वक्रश्चैव दुरासदः | स्त्रीषु कान्तो भवेन्मर्त्यः कृतज्ञो दृढपराक्रमः || तन्त्रमन्त्रसदोद्युक्तः सेवायां गुरुपूजकः | *** (?) *(?)क्यानां *******(?)बुधो गुरुः || प्रशस्तं *********** (?) र्द्धनम् | तेषां दर्शनसिद्ध**(?) मन्त्रिणामूर्ध्वसाधने || १९०, प्. १९०) शन्यर्काङ्गारकौ राहुः पश्यति तं नरं यदा | क्रूरः साहसिको वक्रो जायते रौद्रकर्मकृत् || तेषां च वज्रिणे मन्त्राः सिद्ध्यन्ते क्रूरकर्मिणाम् | नागच्छेत् सर्वतो मर्त्यो दिनेष्वेव सुकुत्सितैः || ततः परेण धन्वाख्यं राशिमुक्तं तथागतैः | जायन्ते बहुधा मर्त्या गतिदेशसमाश्रयात् || अन्ते च शोभनाः सर्वे वाल्या दुःखभागिनः | यथाविभागनिर्देशा आयुषः परिकीर्तिताः || तथा धनार्थनिष्पत्तिं वाचिष्ये अर्थसम्पदाम् | स्वयोनिं नाशयेन्नित्यं परयोनिं विवर्द्धयेत् || बद्धपत्यो बहुभाष्य बहुरागरतिप्रियः | असंयतो भवेन्मर्त्यः धनूराशिसमाश्रयात् || प्रभुः श्रीमां सदा दक्षो धार्मिको वापि जायते | दर्शनं यदि मुख्यानां ग्रहाणां सितपीतकाम् || तेषामाचरेन्मन्त्रा नानाप्रहरणोद्भवाम् | नानाशस्त्रफला वापि वस्त्रभूषणवाहना || नानाधातुकृतांश्चैव नानाधातुफलोद्भवाम् | सिद्ध्यन्ते तस्य मन्त्रं वै मुनिजुष्टाङ्गसम्भवा || ततः परेण कर्माणि सर्वद्रव्यैस्तु कारयेत् | प्रसवेत् सर्वतो मन्त्री गतिदेशनिरत्ययाम् || स्वालयं वाहनं चापि स्वसुतां च निवेशनम् | भेषजं सर्वमिष्टं तु महार्थं चोर्ध्वगामिनम् || सिद्धये तस्य मुक्तात्मा क्षिप्रमेव करे स्थिता | ततः परेण राश्यायां मक**(?) दृश्यते सम || तेषु जातः सदा मर्त्यः **** (?) लक्षयेत् | मातृभक्तो पितृभक्तश्च ख्या*(?) बहुमतः प्रभुः || १९१, प्. १९१) दुःसहः सर्वदुःखानामाढ्योऽपि धनसञ्चकः | कृपणो लुब्धचित्तश्च शठश्चैवमजायत || शुक्रेन्द्रग्रहदृष्टानां सर्वसम्पत्ति जायते | कृष्णरक्तग्रहा ये तु क्रूरकर्मा तु पूर्ववत् || नागच्छेत् तत्र मन्त्रज्ञः विदिशां चैव सर्वतः | दुष्टां साधयेत् कर्मां अनिष्टं चैव वर्जयेत् || वमनगमनं चैव उत्तरां दिशिमाश्रयेत् | महासमुद्रार्थगतां द्रव्यां नौयानमाविशेत् || प्राप्नुयात् सम्पदां तत्र निम्नमाध्यक्षदेशजम् | ततः परेण कुम्भेति मकरात् समुदितात् परः || कुम्भराशिसमाख्येया सत्त्वजाताश्रया सदा | बहुधा बहुलिङ्गास्तु कथिता ते नरोत्तमैः || विचित्रा चित्ररूपास्तु वर्णजातिसमाश्रयात् | श्यामवर्णो विशालाक्षो जायन्ते बहुमता नराः || मैथुनाशक्तवस्ते तु ग्राम्यधर्मार्थचिन्तकाः | कृतज्ञा धार्मिका प्रोक्ता मन्त्रजाः कुम्भराशयः || शुक्लपीता ग्रहा दृष्टा लोकेऽस्मिन् सम्प्रपूजिताः | कृष्णरक्ता ग्रहा ये तु दृष्टजातिसमोदया || व्यङ्गा कृपणयो मूर्खा चपलाः तस्करावहा | बहुरोगा दरिद्राश्च जायन्ते मानवा सदा || तेषां न कारयेत् कर्म उत्तमं मुनिपूजितम् | अङ्गार्थसम्भवा येन दद्युः सर्वकर्मसु || न गच्छेत् प्राप्य ती**(?) अतो नैवापि वर्णितम् | कुर्यात् वज्रकुल ****(?) सिद्धिलिलिप्सया || क्रूरं क्रूरकर्मान्तं स्फठुङ्कारभूषितम् | मन्त्रं साधयेच्चात्र क्रोधराजसुयोजितम् || १९२, प्. १९२) सिद्ध्यन्ते पापकर्मास्तु रौद्रकर्मासु योजिता | ततः परेण मीनेति राशिरुक्ता तथागतैः || तत्रस्था मानवाः सर्वे दृश्यन्ते बहुलिङ्गिनः | मीनराशिसमाजाता रूपाण्येतानि समुद्भवैः || प्रभुर्मानधीः श्रीमां भोगसम्पच्छतान्वितः | प्रभवः सर्वलोकानां जायतेऽसौ महीतले || क्षिप्रमर्थकरो धीमां नराधिपोऽथ अजायत | शुक्रेन्दुदर्शनाज्जातः भवेल्लोके नरोत्तमः || दर्शनाद् बुधजीवानां धनाढ्योऽथमजायत | प्रांशुमूर्त्तिर्विशालाक्षः स्त्रीषु कान्तो भवेत् सदा || वह्वमित्रो नराध्यक्षः कुटिलश्चैवमजायत | बहुमित्रोऽथ शुक्रश्च जायते मित्रवत्सलः || ततः परेण क्रूरो वै ग्रहमुख्यो दिवाकरः | पश्यते यद्यसौ मर्त्यां शनिराहुसु भूमिजा || तदा कष्टमिति ध्वजः क्रूरश्चैव जायते | पूर्ववत् कथिता ह्येते ग्रहाः कृष्णान्तशुक्लयोः || कुर्यात् सर्वकर्माणि मीनराशिसमाश्रयाः | तत्रस्थश्चन्द्रमां पश्येत् सर्वांश्चैव साधयेत् || अतः परेण राशीनां गजमानुषमानुषाम् | गन्धर्वा राक्षसा गरुडाश्चापि पन्नगाः || तेषां स्वरूपतो जातिगतिदेशमचिह्नितः | मना उद्भवस्तेषां लिङ्गैरेवैस्तु लक्षयेत् || यथा **(?)प्रकृतिश्च तथा लिङ्गं विभाष्यते | *** (?) भाषिता ** (?) ** (?) चैव नियोजयेत् || *** (?) कथिता लोके *** (?) गणोद्भवाः | *** (?) ग्रहमुख्यैस्तु **** (?)योजिताः || १९३, प्. १९३) संक्षेपात् कथिता ह्येते कथ्यमानातिविस्तरा | मानुषाणां तदा चक्रे नक्षत्रे ग्रहमण्डलैः || अत ऊर्ध्वं तु देवानां ऋषीणां च महर्द्धिकम् | ज्ञानं प्रवर्त्तते तत्र एतन्मानुषचेष्टितम् || अचिन्त्या बुद्धधर्माणां ज्ञानदृष्टि नरोत्तमाम् | साधयेत् सर्वमन्त्रज्ञः राशिजातौ समुद्भवा || * (?) रनक्षत्रां तिथयो नित्यं शुक्लपक्षे समाचरेत् | सिद्धिस्तेषु सदा प्रोक्ता कृष्णे कृष्णकर्मिणाम् || ग्रहैः सितैः पीतैः दिनैश्चैव समाचरेत् | शुक्लपूर्णगता चन्द्रे पौर्णमास्येषु योजयेत् || प्रतिपच्छुक्लपक्षे तु तृतीये चैव रोचयेत् | पञ्चमी सप्तमी चैव दशम्येकादशोद्भवाम् || त्रयोदश्यां तथा शुक्ले सर्वकर्माणि आचरेत् | पुष्ट्यर्थं शान्तियोगं च गमनागमनं शुभाशुभम् || आलेख्या मन्त्रतन्त्रस्थं नृत्यगीतरतिः सदा | भूषणं यानमावासं क्षुरकर्मं च धीमता || प्रयोक्ताः सर्वतो विद्वां मर्त्यैश्चापि श्रीमतैः | भोगसम्पत्सदासिद्धिरिष्टसत्वसमागमम् || निर्दिष्टं मुनिमुख्यस्तु अन्य अन्यकर्माणि अन्यतः | धनार्थिभिः श्रीमतैः क्षिप्रं कुर्यान्मन्त्रार्थसाधनम् || * * * * * * * * (?) चन्द्रशुक्रगुरुर्बुधैः | वारैर्ग्रहवरैर्दिव्यैः सुपूजितैः शुचिमङ्गलैः || तिथियुक्तैः समा*****(?)श्चापि भावयेत् | घोरैर्घोररूपैस्तु ग्रहै****(?)भिः सदा || १९४, प्. १९४) आचरेद् रौद्रकर्माणि कृष्णे कृष्णकर्मिणाम् | गतिदेशसमासं च *(?)लिमन्त्रार्थसाधने || ग्रहा राश्यर्थनक्षत्रा तिथयश्च समोदिता | कर्मसिद्धिप्रभावं च नियमं सर्वकर्मसु || इति | बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् सप्तदशमः पटलविसरात् तृतीयो ज्योतिषज्ञानपटलविसरः परिसमाप्त इति | १९५, प्. १९५) अथ विंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीस्त्वदीयकल्पविसरे सर्वभयोत्पादनिमित्तनिर्घातगतानि आश्चर्यनिमित्तलिङ्गानि कथयन्ति शुभाशुभं सुभिक्षदुर्भिक्षपरराष्ट्रगगनं अनावृष्टिमतिवृष्टिं सत्त्वानां सूचयन्ति महासाधनादिषु यो विघ्नं कारयन्ति ततो साधकेन च मन्तव्यं साध्यासाध्यानि च तस्मिं देशे कर्तव्यमकर्तव्येति ज्ञातव्यम् | ततो यदि न शोभनानि निमित्तानि भवन्ति तस्माद् देशादपक्रम्य अन्यत्र गत्वा साधयितव्यानि || अथ चेच्छोभनानि निमित्तानि भवन्ति | तस्मिन्नेव देशे साधयितव्यानि | तत्रैव च स्थातव्यम् | एवं ज्ञात्वा साधकेन मन्त्रचर्याभियुक्तेन कर्तव्यमकर्तव्यमिति मन्त्रचर्यायां निमित्तानि ज्ञात्वा शुभाशुभं बोद्धव्यमिति || अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः पादयोर्निपत्य पुनरष्येवमाह - तत् साधु भगवां देशयतु निमित्तज्ञानपरिवर्तविसरम् | तद् भविष्यति सर्वसत्त्वानां हिताय सुखाय सर्वमन्त्रचर्याभिमुक्तानां बोधिसत्त्वानां महासत्त्वानां शुभाशुभफलोदयनिमित्तलिङ्गानि | यस्ते सर्वसत्वा मन्त्रचर्यानुप्रविष्टा साध्यासाध्यं कालनिमित्तं ज्ञात्वा स्थातव्यं प्रक्रमितव्यमिति पश्यन्ते || एवमुक्ते भगवां शाक्यमुनिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | तेन हि मञ्जुश्रीः ! शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येऽहं ते || आदौ तावद् भवेल्लिङ्गमुत्पातानां समोदयम् | महद् भयमनादिस्थममानुषाणां तु चेष्टितम् || सर्वे * * * * * * * * * (?) ग्रहराक्षसाः | मातरा * * * * * * * * * (?) महर्द्धिकाः || दर्शयन्ति तदा लिङ्गं ***(?)नां च सम्भवे | आदिमन्तं ततो मध्यं अशुभं चैव ते सदा || १९६, प्. १९६) भूमिस्थितिर्नाशकं *(?) कथयन्ति विविधाश्रयात् | सर्वमानुषसत्त्वेषु भूतलेऽस्मिन्निबोधताम् || कबन्धा विविधाश्चापि पक्षिणश्च समाकुलाः | दृश्यन्ते सर्वतो लोके तस्माद् देशादपक्रमेत् || रात्रौ शक्रायुधं दृष्ट्वा धनुश्चापि विशेषतः | शरनाराचपाशाश्च विविधा प्रहरणोद्भवाः || दृश्यन्ते गगनाद् रात्रौ तस्माद् देशादपक्रमेत् | चन्द्रबिम्बे यदाकाशे दृश्यन्ते विकृतरूपिणः || कबन्धा पुत्तलाश्चैव नृत्यन्ता गगनालये | सुषिरं छिद्रमित्याहुर्दृश्यते शशिमण्डले || पुरुषा उच्चनीचाश्च युध्यन्तां शशिमण्डले | दृश्येयुर्मानुषे लोके तस्माद् देशादपक्रमेत् || विविधा प्राणहराश्चापि नानाभूतगणास्तथा | नृत्यमानाश्च युद्ध्येयुस्तस्माद् देशादपक्रमेत् || मण्डलाकारसङ्काशं दृश्यस्थः शशिमण्डलम् | तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत् || युद्ध्यन्तां सर्वसङ्ख्यांश्च दृश्यन्ते शशिमण्डले | एकस्तत्र पतेत् क्षिप्रं यस्य यो दिशिमाश्रितः || तं देवदिशिमित्याहुः भूपतिर्मृयते ध्रुवम् | तादृशं दृष्ट्वा सत्त्वाख्यं विविधाकारसम्भवम् || अचिरात् तत्र भयात् क्षिप्रं तस्माद् देशादपक्रमेत् | शरनाराचशक्तिश्च दृष्ट्वा तत्र निशाकरे || तस्करोपद्रवं क्षिप्रं शस्त्रसम्पातजं भयम् | दृष्ट्वा विकृत **(?) **(?)सत्वसमाश्रयाम् || रात्रौ ****(?) तस्माद् देशादपक्रमेत् | कृष्णव*(?) विहङ्गास्तु शुक्ला चैव सपीतकः || १९७, प्. १९७) रक्ताश्चैव तथा धूम्राः ***(?)विकृताश्रया | ते वै विवर्णवर्णास्तु दृश्यन्ते भूतले यदा || तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् | शुक्ला पक्षा भवेत् कृष्णा कृष्णा पक्षा तथा सिता || दृश्यन्ते विकृतरूपास्तु विहङ्गाश्चैव महीतले | तादृशं लक्षणंन् दृष्ट्वा तस्माद् देशादपक्रमेत् || मृगक्रोष्टुकगणाः सर्वे प्रविशेयुर्ग्राममालयम् | श्वापदा व्यालिनो धूर्ता म्लेच्छोपद्रवतस्कराः || भवेयुर्भयकृतं तेषां दुर्भिक्षं वापि वर्णितम् | विविधा भूतगणाश्चापि दृश्यन्ते तु महीतले || विकृताविकृतरूपिण्यः यक्षराक्षसकिन्नराः | दिवा रात्रौ तथा नित्यं नृत्यन्ते च महीतले || तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् | नरनारीकुमारांश्च क्रन्देयुर्भृशं भूतले || रात्रौ दिवा तथा नित्यं व्याधिस्तत्र मिहागमः | उरगा विकृतवीभत्सा दृश्यन्ते वसुधातले || गृहे रथ्ये तथा भिन्ध्या मन्दिरे वृक्षसन्निधौ | सर्वतो व्याप्य तिष्ठन्ते भवेत् तत्र महाभयम् || महामार्योपसर्गं च विषविस्फोटमूर्च्छनम् | दुर्भिक्षं राष्ट्रभङ्गं च भवेत् तत्र जनागमे || विकृताविकृतवीभत्सा पक्षिणश्वानक्रोष्टुका | ऊर्ध्वतुण्डा यदाकाशे रवन्ते विकृतानना || अर्धरात्रौ तु मध्याह्ने उभे मर्त्ये च कुत्सिता | भवेन्महाभवं क्षिप्रं परच***(?)गमम् || दुर्भिक्षमति***(?) भवेत् तत्र समासतः | मासमेकेन ******** (?) पीडिताः || १९८, प्. १९८) अन्योन्यं भूतले वासा मानुषा तत्कराग्निना | महाशस्त्रभयं तत्र तस्माद् देशादपकमेत् || गगनस्था सर्वतो मेघा दृश्यन्ते च वक्त्रसम्भवा | स्फुटाकाराथ रौद्राश्च तीव्रगर्जननादिनः || सप्तस्फुटा द्विश्चतुर्वा च दृश्यन्ते उरगाश्रयाः | सुघोरा घोरवक्त्राश्च दृश्यन्ते गगनाश्रया || तादृशं लक्षणं दृष्ट्वा अचिरात् तत्र महाभयम् | महामार्योपद्रवं च ज्वरो व्याधिः रोगाश्चैव महाभयाः || सद्यः प्राणहराः क्षिप्रं विषाः स्थावरजङ्गमाः | उत्सृजन्ति तदा मेघां तदा वृष्टिं च दारुणम् || नश्यते भूतयस्तत्र अन्योन्या निरपेक्षिणः | तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् || महाप्रपातदुर्भिक्षमुल्कापातां समन्ततः | धूमकेतोश्च निर्घातां दिशादाहां कथयिष्यामि ते || शृणु प्रपातं दृश्यस्थं उल्किनां चैव जायते | रात्रौ दिवा समन्ता वै उल्कापातो भवेद् यदि || महाभयमनारोग्यं ज्ञात्वा मन्त्री व्रजेत् ततः | महोल्काज्वलमानाया दिशं गच्छेत वै सदा || तादृशं नृपतीनां भङ्गः यतो वक्त्रं ततो भयम् | विदिशां पतते उल्कां समन्ताद्वै निशि सर्वदा || तत्र देशे महाव्याधिः दुर्भिक्षनृपघातनम् | दिवारात्रौ यदा उल्का पतते वै समन्ततः || तादृशं च भवेन्मृत्युर्नृपतीनां च मन्त्रिणाम् | तं बुद्ध्वा मन्त्रजापी स्याद् ****** (?) क्रमेत् || उल्किनः ****(?)द् यतो पु****** (?) | अन्या वा *** (?) ङ्गो नृपतीनां **** (?) || १९९, प्. १९९) महाक्षोभं तदा चक्रे महोक्का ग्रहचिह्निते | समन्तात् पतते क्षिप्रं तस्माद् देशादपक्रमेत् || यादृशं उल्कमावेश्य आश्रयात् पतते सदा | तां दिशं व्याधिदुर्भिक्षं राष्ट्रभङ्गं च जायते || गमनागमनयोर्मृत्युस्तारकाणां तदाश्रयात् | योऽयं नक्षत्रजातस्थः तस्य मृत्युभयं भवेत् || द्विरात्रान्नश्यते जन्तुर्नक्षत्रा पतते भुवि | नराधिपानां च सर्वेषामेव एव विधिर्भवेत् || योऽयं पश्यते देवः इष्टं *(?) ष्वेदमाकुलम् | रातौ दर्शनेऽवश्यं प्रतिमायां दिवा तदा || तस्य मृत्युभयं विन्द्यान्मासैः षट्भिस्तदा स्मृतः | प्रतिमा चलिता यस्य देवतेष्टस्य जन्तुनः || हसते रुदते चैव तं देशं वर्जयेत् सदा | प्रतिमा पतते चैव विशीर्यते वा स्वकात्मना || तस्य भङ्गं भवेत् क्षिप्रं गृहाश्चैव नराधिपे | कुर्वन्ति विविधाकारां लिङ्गां विविधरूपिणाम् || प्रतिमा यदि दृश्यस्था देवायतनमन्दिरे | तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत् || समन्तात् सर्वतो मन्त्री पश्येयुः प्रतिमां सदा | विकृतरूपवीभत्सां नानाविकृतमाश्रिताम् || स्वयं वा पश्यते मन्त्री अन्यैर्वा दृश्यते भुवि | तादृशं लक्षणं दृष्ट्वा तस्माद् देवादपक्रमेत् || अर्धरात्रे तथा यामे तृतीतेऽर्धे यदि दृश्यते | **(?)काणां महावृष्टिं तस्माद् दशादपक्रमेत् || चतुर्त्थभागे तथा **** (?) क्षिप्रगामिनः | *(?)द्योत इव गच्छन्ति **(?) सर्वतो न भजेत् || २००, प्. २००) वसुधातलेन गच्छन्ति तस्मिं देशे ततो व्रजेत् | यत्र संशयते तुष्टि यत्र गच्छन्ति तारकाः || तं देशं मा विशेत् क्षिप्रं यत्र वृष्टि महद् भयम् | तं देशं नश्यते क्षिप्रं परचक्रसमागमम् || दुर्भिक्षं शस्त्रसम्पातं तं विन्द्याद् देशमाकुलम् | चोरोरगव्यालानां म्लेच्छधूर्तसमागमम् || तं देशं नराधिपा नित्यं प्रवसेत् सर्वतो दिशम् | विलुप्तराज्यो विभ्रष्टपरचक्रसमाश्रितः || वर्षा अष्ट एकं च तं देशं तत्र लेभिरे पुनः | प्राप्नुयात् तदा राज्यं देशदागमनं पुनः || स्नात्वा दुपक्रमात् सर्वां विक्रियां क्रिययोजिताम् | क्रियाकालं समासेन तं जापी आरभेत् सदा || उल्कापात महान्तो वै दृश्यते यदि मिश्रितम् | समन्तान्नित्यकालं च तस्माद् देशादपक्रमेत् || उल्किनो बहुधाकारा दृश्यन्ते विविधाश्रया | विचित्रा चित्ररूपिण्यः यक्षिण्यश्च महर्द्धिकाः || ज्वलन्तां वक्त्रदेशाभ्यां क्रव्यादांश्च पिशाचिकाः | तस्मात् परीक्षयेदुल्कां लिङ्गैरेभिः समोदिताम् || अतिदीर्घ तथा ह्रस्वो मध्याश्चैव प्रकीर्तिता | चतुर्हस्ता द्विहस्ता वा हस्तमात्रप्रमाणतः || दृश्यन्ते भूतले मर्त्यैराश्रयन्ते महोदया | महाप्राणा स्वरूपाश्च देवतैषा महर्द्धिका || विचित्राकाररूपास्तु हूतास्वे च दिवौकसाम् | * * * * * * * * * * * * * * * * (?) || शक्र*** (?) क्षिप्रं गच्छन्त****** (?) | जम्बूद्वीपपतां मर्त्यां नराध्यक्ष्तां नराधिपाम् || २०१, प्. २०१) पत्यन्ते सर्वलोकांश्च ****(?)विचारकाम् | *** (?) पितृभक्ताश्च कुले ज्येष्ठापचायका || महामन्त्रधरा सर्वे जापिनो यद्यजाम्बुद्वीपगता नराः | तदा देवा महोत्सवापि जायन्ते तदा दैत्यां कुर्वन्वे च पराभवम् || धर्मिष्ठा भूतले मर्त्या जाम्बूद्वीपनिवासिनः | महोत्साहं तदा काले तृदशाध्यक्षोऽथ वासवः || तदा भग्नवतोत्साहा असुरा भिन्नमानसा | अभिमानं लभेतां येन पाताले तेन ताः || प्रविशन्ते स्वपुरं तत्र भिन्नमाना कृतव्यथाः | महाप्रमोदं तदा देवा लेभिरे तृदशेश्वराः || तदा जम्बूद्वीपेऽथ सर्वत्र सुभितमारोग्वते जनाः | स्वस्था च सर्वतो जग्मुः नरनारी गतव्यथा || तस्मात् सर्वप्रकारेण बुद्धेः भक्तिः कृथे जनाः | धर्मसङ्घे च भूयिष्ठे गतद्वन्द्वे निरामये || पूजां कुरुथ मर्त्यातो लालिलिप्सः सर्वसम्पदाम् | मन्त्रचर्यां तदा चक्रे वव्रे वाचां शुभोदया || दशकर्म यथालोकां सम्प्रतिष्ठा निरोपगाम् | कुरुध्वं जनसम्पातां त्रिधा शुद्धेन मानसाः || विरतिः प्राणिवधे नित्यं अदत्तं वापि नाचरेत् | न भजेदङ्गनादन्यां अगव्यापरिवर्जिताम् | जपेत् || सन्तुष्टिः स्वेन धर्मेण स*(?)रुध्व जनसत्तमाः | मृपावादं न भाषेत ***** (?)दुःखदम् || नाभावेत् कर्कशां ****** (?)र्यदुःखदान् | ***(?) क्लेशसंयु***** (?)विवर्जिताम् || ***(?)र्थसंयुक्ता *****(?)चरेत् सदा | ***(?)येन्नित्वं *******(?)दने || २०२, प्. २०२) क्लिष्टचित्तस्य सर्वत्र निषिद्धं मुनि**(?)वैः | अभिध्यं नाचरेत् कर्म परसत्त्वोपकारिणः || यो यस्य सदा सृतं न कुर्याद् द्वेषसमुत्थितम् | व्यापादं वर्जयेत् कर्म सत्त्वद्वेषमनास्पदम् || उपघातं परसत्त्वस्य न कुर्यात् सर्वतो जनाः | मिथ्यादृष्टिं न कुर्यान्तां सर्वधर्मविनाशिनीम् || नास्ति दत्तं हुतं चैव न चेष्टमन्त्रसाधने | न सिध्यन्ते तथा मन्त्राः सर्वतन्त्रार्थकल्पिताः || न बुद्धानां सुखोत्पत्तिः न शान्तं निर्वाणमिष्यते | न चापि चर्या तथा बोधो प्रत्येकार्थसम्भवाम् || न चार्हत्वं भुवि लोकेऽस्मिं नापि धर्मेषु जायते | स्वभावैषा विविधा लोके अर्थादर्थतथातथा || एवमाद्यां अनेकांश्च विविधाकारचिह्निता | न तां भजेत् सदा मन्त्री पापदृष्टिसमुद्भवाम् || दशकर्म यथा प्रोक्ता विरत्या स्वर्गोपगा स्मृताः | भावना चैव फलं तेषां निर्वाणामर्थसम्भवाम् || अनिष्टा तु भवे लोके तदा सुराणां पराजयम् | दैत्यानां वर्धते मानः अतिदर्पार्थसम्भवाम् || जनालये तदा सर्वं जम्बूद्वीपनिवासिनः | वाध्यन्ते व्याधिभिः क्षिप्रं अन्योन्यां तेऽपि मूर्छिता || जनाध्यक्षास्तदा सर्वे * * * * * * * * (?) | क्षिप्रं नश्यन्ति ते * * * * * * * * * * (?) || *(?)मरे शुद्धचित्तानां शस्त्र* * * * * * * (?) | ***(?)देवमुख्यानां तर्जन्यापद्य*(?)लये || बुद्धं * * * * * * (?) न पूजेदशुभा नृपा | न मन्त्रां * * * * * * (?) नृपा तस्थुरं सदा || २०३, प्. २०३) विनश्यन्ते तदा लोका विविधायासमूर्छिताः | ततस्ते दैत्यवशः क्षिप्रं सुसंरब्धा रुरोह तम् || सुमेरुपर्वतमूर्धानमाविशन्ते जनसत्तमाः | परिपण्डो तदा भेरो विभजेन्मन्दिरा शुभौ || समन्ताद्वनविध्वस्तं दिवौकसां कारयन्ति ते | विविधा रथवरै रूढा नानाभरणभूषिता || नानाप्रहरणा दद्युः पुरः श्रेष्ठां पराजयाम् | ततस्ते खरं भेजे अप्सराणां भज जग्रहे || ईश्वराः प्रभवः सर्वे असुरास्ते वलदयिता | जग्राह सुरकन्यां वै सुधा चैव च भोजनम् || ततस्ते सुरवराः श्रेष्ठाः प्रविष्टाः नगरोत्तमम् | मेरुमूर्ध्नि ततो गत्वा नगरं दर्शनाश्रयम् || शक्तानुयाता सर्वे वै पिशिता द्वारपुरोत्तमे | न तु माया पुरी भीतिः उपजग्मु मुदाश्रयम् || निवर्त्य तत्र वै सर्वे स्वालयं जग्मु ते सुरा | यदेका मन्त्रसिद्धिस्तु निवशेर्जन्युमाश्रयम् || जप्तमन्त्रोऽपि वा मर्त्यः निवसं तत्र आलये | तत्र देशे च चार्तीनि न दुर्भिक्षं न शत्रवः || न रोगा नापि भयं विन्द्याज्जप्तमन्त्रे स्थिते भुवि | न चास्या दस्यवः सर्वे शक्नुवन्तीह हिंसितुम् || न चार्तिमृत्यवस्तत्र अमर्यादा प्रवर्तते | न रुजा व्याधिसम्मूर्छा ज्वररोगापहारिणः || *** (?) भूतले तस्मिं ****(?)दाश्रयः | वेऽत्र मन्त्रवरा द्युक्ता ****(?) *(?)द्भवा || अब्जाके तु तथा मन्त्रा मन्त्रिणं मन्त्रपूजिताः | तत्र मन्त्रवरां मन्त्री जह्नुजोपमहर्द्धिकाम् || २०४, प्. २०४) तदा ते सुरवरा * * * * (?) तु पराजयः | एवमुक्ता गुणा ***(?) दृश्यते *(?)ले कदा || तार्किका विविधाकारा कथयन्तीह महीतले | ग्रहयेपो इति श्रुत्वा अवतारार्णविस्तरा || गीतं ऋषिवरैर्ज्ञानमुल्किनां ग्रहचिह्निताम् | निर्दिष्टं तन्न निर्देशः निघातस्य प्रवक्ष्यते || उल्कापाते यदा लोका निर्घातो भुवि मण्डले | प्रद्युन्नगर्जना कस्माच्छूयते च महीतले || भृशं चुचुक्षुत्र तद्देशं तिथिरेभि समायुतैः | अतुल्यशब्दनिर्घोष रौद्रां वापि तमाहयाम् || श्रूयते गर्ज च क्षिप्रं महामेघवचः श्रूयते | षष्ठ्यचमथमष्टम्यां त्रयोदश्यामथ श्रूयते || कृष्णपक्षे तथा नित्यं द्वादश्यां तु चतुर्दशी | नक्षत्रैरेभि संयुक्ता वारैश्चापि प्रहोत्तमैः || अश्विन्यां कृत्तिकानां च भरण्यां यातं निबोधताम् | पूर्वभद्रपदे चैव आर्द्रामघाश्लेषसंयुक्ते || * * * * * * * * (?) ग्रहैश्चापि सुपूजिते | शन्यर्काङ्गारकैः क्रूरैः भूम्या निपतते यदा || अवर्पोदकर्मा क्रूरं शब्दो निघात उच्यते | महद् भयं तत्र देशे वै दुर्भिक्षं राष्ट्रमर्दनम् || परचक्रभयं * * * * * * * * * * (?) | निर्घातं पतते चोर्व्यां नक्षत्रैरेभि कीर्तितैः || * * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || *** (?) काले रौद्रे च कर्माणि ***** (?) जपेत् | विविधा व्याधयरतत्र अ****** (?) || २०५, प्. २०५) मृत्युस्तत्र भवेद् व्याधिर्दुर्भिक्षिश्चापि निन्दितैः | अनावृष्टि सदाकाले द्वादशाब्दानि निर्दिशेत् || पश्चिमां दि**(?)श्रित्य प्रपते भूतले **(?)त् | निर्घातं मृत्युसङ्कीर्णं दृश्यते मृत्युतस्करैः || मध्याह्ने तु तदा काले युवाप्यस्तमितेऽपि वा | उदयन्तं भास्करं रक्ते सुशब्दैः श्रावकैरेवम् || त्रिःसन्ध्यात् कुत्सितः शब्दः शेषकाले तु तुष्टये | अर्धरात्रे यदा शब्दः निर्घातस्य महद् भयम् || गुप्तां पुरवरां तत्र कारयन्तु नृपोत्तमा | नानाम्लेच्छगणा धूर्ता तस्कराधिष्ठितापि ते || परद्रव्योपकारार्थं कुर्वन्तीह महीतले | शेषकाले भवेच्छब्दः निर्घातस्य सुपुष्कलम् || मन्त्रिमुख्यो भवेत् तत्र बहुव्याधिसमाकुलम् | बहुव्याधितत्वं च नृपास्तस्य विधीयते || पत्नी वा हन्यते तस्य मन्त्रिमुख्यस्य हन्यतः | सर्वे सौल्किकास्तत्र नानाजातिसमाश्रिताः || हन्यन्ते मृत्युना तेऽपि तथा जीवकसेवका | प्रकृष्टा वणिजा मुख्या नियुक्ता सर्वतो नृपाः || मध्याह्नपरिमित्याहुः ऋषिभूतो रवे तदा | निर्घातमतुले शब्दं यदा शुश्रावते जनाः || व्याधिभिर्व्यस्तसर्वत्र भवतीह महीतले | अन्यथा तुमुलं शब्दो यदि शुश्राव मानवा || अकस्मात् सर्वतो नित्यं जपस्तत्र न जीवते | दक्षिणां दिशमाशृत्य ***(?) पततेच्छुभः || विद्युच्चोर्ध्वं तथा दृष्टिर***(?)तं विनिर्दिशेत् | पूर्वायां दिशिमाश्रित्य शुश्रुवः यदि नादिते || २०६, प्. २०६) निर्घातस्य भवेत् तत्र प्राच्याध्यक्षो विनश्यति | हि*(?)द्रिकुक्षुसन्निविष्टा जनास्तत्र निवासिनः || शुश्राव शब्दं महाभैरवे ग्रहे चिह्निते | तस्मिं देशे जनाध्यक्षो विनश्यन्ते म्लेच्छतस्कराः || वत्से वत्साश्च ये मुख्या नेपालोधिपतिस्तदा | हन्यन्ते शत्रुभिः क्षिप्रं नानाद्वीपनिवासिनः || विदिक्षु भैरवं नादे ऊर्ध्वमुत्तरतो भवेत् | कामरूपेश्वरो हन्या गौडाध्यक्षेण सर्वदा || लौहित्यात् परतो ये वै जराध्यक्षाथ जीविना | कलशाह्वा चर्मरङ्गाश्च समोतद्याश्च वङ्गकाः || नृपांश्च विविधां हन्या सशब्दे भैरवा ग्रहे | पूर्वदक्षिणतो भागे यदि शब्दो महद् भवम् || कलिङ्गा कोसलाश्चैव सामुद्रा म्लेच्छवासिनः | हन्यन्ते शस्त्रिभिः क्रूरैः सदाध्यक्षाश्च नृपा चराः || पूर्वपश्चिमतो भागे यदा शब्दो महान् भवेत् | मेघगर्जनवत् क्रूरो दिवारात्रौ महाम्बुदे || तं निर्घातमिति वेद्मि देवसङ्घा निबोधताम् | शुभाशुभं तदा चक्रे मानुषाणां जनोत्तमाः || यदा शुभे च नक्षत्रे लग्ने चापि शुभोत्तमे | तिथिश्रेष्ठे सिते चापि शब्दो शुश्राव मेदिनीम् || शुभो सुभिक्षमारोग्यं सम्पत् क्रीडाय साधनम् | सिद्धमन्त्रस्तु जायेत वरदा जापिनां सदा || तदा काले **(?) सिद्धिः सर्वकर्मसु योजिता | * * * * * * * * * * * * * * * * (?) || * * * * * * * (?) तत्र सर्वकर्मसु * * * * (?) | निर्वाता बहुधा प्रोक्ता क्ष्मातलेऽस्मिन् * * * (?) || २०७, प्. २०७) * * (?) प्राणहराः सद्यः केचित् सत्यफलोदया | सर्वार्थसाधना केचिच्छन्दा गम्भीरवादिनः || तं च शब्दं श्रुयात् क्षिप्रं देवसङ्घा निबोधताम् | धीरो गम्भीरयुक्तश्च स्तनितं चापि गर्जिते || दीर्घदुन्दुभयो यद्वत् तच्छब्दसम्मुखावहम् | स शब्दो भैरवः क्रूरो यथानिर्दिष्टकारकः || उल्कापातसमे काले भूमिकम्पान्न जायते | शब्दं क्रूरनिर्घोषं निर्दिशं चापि योजयेत् || महद् भयं तदा विन्द्यात् सर्वनिर्देशभामिमाम् | सत्त्वाघातं ततो विन्द्याद् दुर्भिक्षं व्यधिसम्भवम् || अमानुषं च तदा चक्रे मायोपद्रवादिकम् | भूपालां तदा मृत्युर्दिवसैस्त्रिंशविंशतिः || यथोद्दिष्टकराः सर्वे शब्दा रौद्रनिनादिते | भूमिकम्पं तु निर्दिक्ष्ये कथ्यमानं निबोधत || नक्षत्रेष्वेव कम्पा ये * * * * * * * * (?) | तिथिभिः सर्वत्र योज्यं स्यान्नक्षत्रं चापि युक्तवाम् || निर्घाते यथा सर्वं कर्मेष्वेव योजयेत् | अश्विन्यां चलिता भूमिर्दुर्भिक्षं चापि निर्दिशेत् || भरण्यां कृत्तिकां चैव उभौ कम्पौ सुखौदयौ | रोहिण्यां मृगशिरः कम्पो जायते अर्थसम्पदः || आर्द्रः पुनर्वसुश्चैव नक्षत्रा परिचिह्नितौ | एषु कम्पेद् यथा पृथ्वी तत्र देशे महद्भयम् || * * * * * * * * * * (?)शाश्च नराधि.आः | पुण्ये * * * * * * * * (?) भूतलवासिनीम् || तत्र देशे * * * * * * (?)रोग्यं विनिर्दिशेत् | * * * * * * * * (?) कृत्स्ना चैव **(?)धरा || २०८, प्. २०८) तत्र देशे समाकीर्णं ****(?)कररौद्रिभिः | मघासु चलिता भूमिः सर्वेष्वेव न सर्वतः || अङ्गदेशे विनश्यन्ते मागधो नृपतिस्तथा | मागधा जनपदाः सर्वे पीड्यन्ते व्याधितस्करैः || उभौ फल्गुननक्षत्रे क्ष्माकम्पो यदि जायते | हिमाद्रिकुक्षिसन्निविष्टा गङ्गामुत्तरतस्तदा || हन्यन्ते व्याधिभिः क्षिप्रं वृजिमैथिलवासिना | वैशाल्यामधिपाः सर्वे हन्यन्ते अर्तिभिस्तदा || विविधा म्लेच्छमुख्यास्तु हिमाद्रेः सानुसम्भवाः | निवस्ताः कुक्षिमध्ये वै नितम्वेष्वेव द्रोणयः || म्लेच्छाध्यक्षवरा मुख्या हन्यन्तेऽस्त्रिभिः सदा | हस्तचित्रौ यदा भूमिश्चलते सन्ध्ययोर्यदा || म्लेच्छतस्करनराध्यक्षा हन्यन्ते शस्त्रिभिः सदा | स्वात्या विशाखयुक्त्या वै नक्षत्रेष्वेव योजिता || चलते मेदिनी कृत्स्ना दृश्यन्ते वणिजा परे | वणिजाध्यक्षवराः श्रेष्ठा मुख्याश्चैव शुक्लिनः || व्याधिभिः शस्त्रसम्पातैर्विनश्यन्ते जलचारिणः | अनुराधे ज्येष्ठविख्याते नक्षत्रेष्वेव सर्वदा || भ्रमते वसुमती कृत्स्ना नमते चापि दारुणम् | यदा उन्नतनिम्नस्था पर्वता निम्नगा वरा || क्ष्मातलं कम्पते क्रूरं उभौ सङ्ख्ये तदा परे | भवेत् तत्र भयं क्षिप्रं दुर्भिक्षं चापि निन्दितम् || मरणं दिवसैः षड्भिर्महानृपस्य भवेत् तदा | नश्यन्ते पुरवरा क्षिप्रं मध्येदेशेषु ते जनाः || ईषच्च चलिता भूमिरनुराधायां शुभोदया | सस्यनिष्पत्ति सर्वत्र मध्या यदि जायते || २०९, प्. २०९) मूलाषाढमिति ज्ञेयं नक्षत्रेष्वेव कम्पते | पूर्व उत्तराषाढे तृधा दुःखसमोदये || व्याधिदुर्भिक्ष सर्वत्र तस्करादिभि पीड्यते | मेदिनी सर्वतो ज्ञेया यदि कम्पो भवेद् दिवा || श्रवणासु चलिता भूमिर्धनिष्ठेष्वेव सर्वतः | सुभिक्षमायुरारोग्यं दुर्भिक्षैश्चापि वर्जिता || मेदिनी सस्यसम्पन्ना यदि कम्पो भवेन्निशम् | शतभिषे भद्रपदे चापि यदि कम्पेत मेदिनी || दुर्भिक्षं राष्ट्रभङ्गं वै दृश्यते तत्र आस्पदे | हन्यते तस्करे मर्त्या दुर्भिक्षं चापि कुत्सितम् || भवन्ति भूतले मर्त्या अर्धरात्रे निशि कम्पते | उत्तरासु च सर्वासु रेवत्यासु च कीर्त्तिता || उभौ नक्षत्रौ सर्वत्र रेवती भद्रपदस्तथा | एतेष्वेव हि सर्वत्र यदा कम्प अजायत || नक्षत्रेष्वेव पूर्वोक्तकम्पो दृष्टः सुखावहः | एते कम्पा समाख्याता निर्घाता वरचिह्निता || उल्कापातसमे काले त्रिदोषा जन्तुपीडना | निर्याते च यदा पूर्विं निर्दिष्टं विस्तरान्वितम् || गुहास्तत्रैव कर्तव्या सर्वं चैव दिशाह्वये | सरवः कम्पनिर्दिष्टः सालोकश्चापि सुखान्वितम् || सिद्धिकाले तदा सर्वे दृश्यन्ते मन्त्रजापिनाम् | योगिनां च तथा सिद्धि अभिक्षां तु सम्भवे || बोधिसत्त्वानां तथा जाते बुद्धबोधिं च प्राप्तये | प्रभावा ऋषिमुख्यानां बुद्ध्या वर्जितचेतसाम् || सुरश्रेष्ठस्तदा काले आगमं चापि कीर्तयेत् | सालोका सरवा मूर्वी घोषनिःस्वनगर्जनम् || २१०, प्. २१०) कम्पमुत्पद्यते क्षिप्रं एतेष्वेव च कारणैः | निःशब्दा च निरालोका यदा कम्पेत मेदिनी || नारकाणां तु सत्त्वानां चलितानां तु निर्दिशेत् | दुःखं बहुविधैः खिन्ना मया कायाति भीषणा || तेषां च कर्मजं दुःखं पश्यमावृत्ति दृश्यते | कथितां कर्मनिर्घोषां तं जनानृषिसत्तमा || निबोध्यमखिलं सर्वं धारयध्व सुखेच्छया | केतुना दृश्यते सर्वं गगनस्थं तु कीर्तयेत् || रात्रौ दिवा च कथ्येते दृश्यन्ते चोत्तरा नभे | मध्याह्नि सर्वत्र दृश्यते दीर्घतो ध्रुवा || धूम्रवर्णा महारश्मा धूमायन्तं महद् भयम् | यदेव देशमाशृत्य धूमयेत् नभस्तलम् || तदेव देशे नृपो ह्यग्रो हन्यते व्याधिभिर्ध्रुवम् | यदेव ग्रहमाशृत्य वारं नक्षत्रमुज्ज्वला || दृश्यते धूम्ररेखायाः गगने चापि उज्ज्वलम् | तदेव राशिनक्षत्रं ग्रहं चैव सुलक्षयेत् || तदेव हन्यते जन्तुः शस्त्रिभिर्व्याधिभिस्तदा | यस्मात् तु दृश्यते रेखा धूम्रवर्णा महद्भया || तं देशं नाशयेत् क्षिप्रं ग्रहः क्रूरो न संशयः | स्निग्धा च नीलसङ्काशा धूम्ररेखामजायत || तच्छिवं शान्तिकं विन्द्यादायुरारोग्यवर्धनम् | रूक्षवर्णा विवर्णा वा धूम्रवर्णा तु निन्दिता || प्रशस्ता शुक्लसङ्काशा चतुरश्मिसमुद्भवा | सौम्या कीर्तिता नित्यं शुभवर्णफलप्रदा || कीर्तिता पुष्पलक्ष्मीकं तं विन्द्याद् यत्र मा तिथाः | हिमपुञ्जनिभा शुभ्रा स्निग्धस्फटिकाविधा || २११, प्. २११) सोमसौम्य विज्ञेया रूक्षवर्णसमप्रभा | कल्याणं चार्थनिष्पत्तिं दुःखनिर्वाणते दृशम् || * * * * * * * * (?) यस्मिन् देशे समोदिता | नक्षत्रे वापि युक्तेऽग्रे तले तारकमण्डले || निर्गते नभसि विख्याते दृश्यते यं महीतले | सर्वा समन्तादायुरारोग्यं जाता ये तारकाश्रयाः || प्रभविष्णु भवेत् तत्र सुखी धर्मचरः प्रभुः | श्रेष्ठो जायते मर्त्यः तस्मै नक्षत्रमाश्रयेत् || ग्रहे वा शुचिते प्रोक्ता सर्वदुःखनिवारणी | रेखा च दृश्यते यत्र तं विन्द्यात् सुखसमर्पितम् || प्रहृष्टरूपसम्पन्नस्निग्धाकारभूषितम् | रेखा नभस्तले याता धूमायन्ती महद्भया || ततोऽन्यश्रेयसि युक्ता प्रशस्ता वापि नभस्तले | शिवं सुभिक्षमारोग्यं तं देशं विदुर्बुधाः || धार्मिकं तत्र भूयिष्ठं धूमकेतोरजायते | सिता स्फटिकसङ्काशा प्रभाः सञ्चेयु सर्वतः || एकशः श्रीमतो ख्याताः तारकेऽस्मिं नभस्तले | ततः स्फटिकसङ्काशा रश्म्या चापि मूर्तिजः || प्रभवह् श्रीमतः ख्यातः तस्मिन् नक्षत्रमाश्रयेत् | केतवो बहुधा ह्युक्ता सहस्रौ द्वौ त्रयोऽथ वा || त्रिंशमेकं च बहुधा नानाकर्मफलोदया | केचिच्छ्रेष्ठा तथा मध्या केचिद्धर्मपरान्मुखाः || उदयन्तं तदा केचिन्महद्भयसुदारुणा | स्निग्धकारसमा ज्ञेया स्फटिकाकारसमप्रभा || स्निग्धा शोभना ज्ञेया स्फटिकाकारसमप्रभा | स्निग्धा शोभना ज्ञेया चारुवर्णाल्पभोगता || २१२, प्. २१२) केचित् तिर्यगः क्रूरा उत्तरा दक्षिणा परा | श्रेयसा चैव भूतानां उदयन्ते शशिसमप्रभा || महाप्राणा विकृतास्तु अतिदीर्घा नृपनाशना | मध्ये उदिता ह्येते प्राच्यावस्थितरश्मिजाः || पूर्वपश्चिमतो याता पूर्वदेशाधिपतिं हनेत् | पूर्वपश्चिमतो याता पश्चाद् देशा नृपतिं हनेत् || समन्ताद् रश्मिजातायाः समन्ताद् दुर्भिक्षमादिशेत् | विदिक्षा ह्युदिता ह्येते म्लेच्छप्रत्यन्तगणाधिका || निहनेत् सर्वतो याता तस्मिं स्थाने समादिशेत् | धूम्रवर्णा विवर्णास्तु रूक्षवर्णा महाभयाः || प्रभवः सर्वतो याता सर्वप्राणिषु आदिशेत् | दिवा सर्वतो नित्यं मध्याह्ने यदि दृश्यते यदा || महद् दुःखं महोत्पातं नृपतीनां तदा विंशेत् | यत्र तिर्यग्गता रेखा यत्र स्थिते समोदिता || तत्रस्था नृपतिं हन्ति यस्मिं देशे समागता | दिवा विदिक्षु निर्दिष्टा महाव्याधिसमागमम् || तस्करोपद्रवां मृत्युं तस्मिं स्थाने समादिशेत् | नीलवर्णं यदाकाशे दिवा पश्येत केतवम् || विविधायासदुःखैस्तु विविधोपद्रवभूमिषा | समन्तात् कथिता ह्येते महादुःखभयानकाः || यातिरौद्रा दिवाह्युक्ता रात्रौ केचित् शुभोदया | रक्तवर्णं यदा पश्येत् केतुश्चन्द्रसमाश्रितम् || रुधिराक्तां महीं क्षिप्रं शस्त्रसम्पातितं तदा | पृथिव्यां क्षिप्रमसृक्र ** (?) रात्र्यवसुन्धराम् || बहुसत्त्वोपघाताय बहुदुःखनिराश्रयम् | जायन्ते जनपदास्तत्र तस्मिं स्थाने समादिशेत् || २१३, प्. २१३) पीता च पीतनिर्भासा दृश्यते व्योम्नि मूर्तिना | हरिद्राकारसङ्काशा हरितालसमप्रभा || हेमवर्णा यदाकाशे केतवो उदयन्ति वै | तत्र विद्यान्महद् दुःखं सर्वसत्त्वेषु लक्षणम् || महामारिगताध्यक्षो जनास्वेव निबोधिता | द्वादशाब्दं तथा हन्ति अनावृष्ट्योपद्रवादिषु || अतिकृष्णा रौद्रमित्याहुरतिधूम्रास्तु वर्जिता | अतसीपुष्पसङ्काशा पावकोच्छिष्टवर्जिता || महामेघसमाकारा नीलकज्जलवर्णिता | वराहाकार तथा केचित् परपुष्टसमप्रभा || दृश्यन्ते गगना घोरा तस्माद् देशादपक्रमेत् | महाक्रूरा तथा रौद्रा दृश्यन्ते क्रूरकर्मिणः || महादुःखं महाघोरं मार्योपसृष्टिरेव वा | महादुर्भिक्षमित्याहुस्तस्मिं देशे भयानकम् || ओडूपुष्पसमाकारं रक्तभास्करविद्विषम् | असृग्वर्णं यदा पश्येदुदितं केतुनभस्तलम् || सर्वत्र व्याधितद्वेगं बहुसत्त्वोपरोधिनम् | नृपतीनां तदा मृत्युस्तत्क्षणादेवमादिशेत् || अकस्मात् पश्यते यो हि नरो वा यदि वा स्त्रियः | तस्य मृत्यु समादिष्टं सप्ताहाभ्यन्तरेण तु || द्विरात्रैस्त्रिभिर्वापि दिवसैः शस्त्रिभिर्हन्यते | तदा दिवा वा यदि वा पश्येदकस्मान्निशिरेव वा || तस्य मृत्यु समादिष्टा तत्क्षणादेव भूतले | विषेण हन्यते जन्तुः शस्त्रिभिर्वा न संशयः || शुक्ला स्निग्धवर्णाश्च निशि*(?) सुखोदया | अन्यथा दर्शनं नेष्टं विविधाकाररूपिणाम् || २१४, प्. २१४) स्वकायपरकाये वा यदि केतुसमाश्रिता | रात्रौ चापि दिवा चापि सद्यः प्राणहराः स्मृता || शुक्लवर्णां यदा पश्ये शशिगोक्षीरसमप्रभाम् | हिमकुन्दसमाकारां नानारत्नसमप्रभाम् || तस्य राज्यं समाख्यातं सिद्धिर्वा मन्त्रजापिने | एते केतवो इष्टा शरीरे मन्दिरेऽपि वा || स्वसैन्यपरसैन्ये वा यत्रस्थं तत्र फलप्रदम् | तमाहुः कीर्तितां श्रेष्ठां नानाचित्रसमप्रभाम् || दृश्यन्ते सर्वतो मर्त्यैः वह्वार्थावहाः स्मृताः | सर्वतः कथिता मर्त्यैर्विग्रहे मन्दिरेऽपि वा || केतवः सिद्धकायानां सर्वेष्टाः सफलाः स्मृताः | अन्यथा कुत्सिताः सर्वे बहुदुःखभयप्रदाः || सर्वे वै कथिता ह्येते केतवो ग्रहचिह्निताः | पूर्ववत् कथितं सर्वं तिथिनक्षत्रराशिजाः || विविधैर्वारयोगैस्तु ग्रहैश्चापि महर्द्धिकाः | पूर्ववत् सर्वमित्येषां कथिताः सर्वतः लोके || तदा सर्वे ते संज्ञिनो केचिच्चारुसमप्रभा | चित्रा क्वचित्ततः शुभ्रः स्निग्धो वर्णतः शुभः || सुनेत्रो नेत्रनामः शशिकुन्दसमप्रभः | सुभ्रू सुनयनश्चैव रुग्मवर्णः सहेमजः || सर्वे सिता विचित्राश्च नानानामसमोदिताः | षड्वर्णानामपि तेषां केतूनां निबोधिता || नानावर्णरूपाणां तत्संज्ञाश्च प्रयोजयेत् | नानाविकृतिनो येऽपि येऽपि घोराः सुदारुणाः || ये मया कथिता **(?) तत्संज्ञाश्च सर्वतः | ***(?)द्यादि**(?)क्ता केतवो बहुरूपितः || २१५, प्. २१५) मानुषाणां तदा चक्रे सुभाशुभफलोदयाः | विग्रहा ग्रहमुख्यानां दृश्यते च समन्ततः || देवासुरे च युद्धे वै दर्शयन्ति तदात्मनाम् | महाप्रभावा महेशाख्या दिव्या दिव्ययोनयः || सिताः शुभोदयाः सर्वे देवपर्षत्समाश्रिताः | विकृताविकृतरूपास्तु कुत्सिता विकृतवर्णिनः || सर्वे वै असुरपक्षे तु क्रूरकर्मान्तचारिणा | यदा देवासुरे युद्धे वर्तमाने महद्भये || असुराः पराजिता देवैः केतवः सूचयन्ति ते | दर्शने भूतले मर्त्यं प्रदद्युः सर्वतो नभः || सिताः शुभफला नित्यमिष्टाश्चैव सुरप्रिया | दर्शयन्ति तदात्मानं देवपक्षसमाश्रिताः || मर्त्यानां तदा क्षिप्रं सुभिक्षमारोग्यविनिर्दिशेत् | असुरैर्निर्जिता देवा यदा काले भवन्ति वै || तदा विकृवर्णास्तु क्रूरकर्मनियोजिता | असुराणां तदा पक्षे केतव उदयन्ति वै || तदा सर्वतः क्रूरा वाता वायन्ति जन्तुनाम् | महावृष्टिमनावृष्टिनागाश्चैव क्रूरिणः || मुमोच विषजां तोयं बहुव्याधिसमाकुलम् | मानुषाणां तदा चक्रे विषविस्फोटमूर्च्छनम् || विविधा राक्षसा चैव दैत्ययक्षसमाश्रिता | कुर्वन्ति मानुषां हिंसामतिदारुणविघ्नकाम् || प्राणापरोधिनं दुःखं कुर्वन्तीह महीतले | अश्मवृष्टिं तदाकाशे प्रपतेद् भूतले तदा || महावाताः प्रवायन्ति तस्मिं काले तु भीषणाः | प्रचण्डा वायवो वान्ति बहुसत्त्वापकारिणः || २१६, प्. २१६) नानातिर्यगता प्राणा सप्त्वनाशं प्रचक्रिरे | बहुभूतगणाः क्रूरा कुर्वन्तीह च भूतले || मानुषाणां तदा विघ्नं चक्रिरे प्राणोपरोधिनाम् | एवम्प्रकारा ह्येकाश्च बहुविघ्नसमाश्रया || नानातिर्यग्गताश्चैव चण्डाः श्वापदमौरगाः | विविधा नागयोनिस्था सत्त्वानामपकारका || प्राणोपरोधिनं कुर्वन्ति विविधा म्लेच्छतस्करा | कपिला भासतो वर्णा वाता क्रूराश्च अग्निजाः || वायन्ति विविधा लोके यदा देवपराजयेत् | अधर्मिष्ठा तदा मर्त्या जाम्बूद्वीपगता सदा || तदा ते देवपक्षास्तु हीयन्ते दैत्ययोनिभिः | यदा धर्मवतः सत्त्वा भूतलेऽस्मिं समागता || बुद्धधर्मरताः श्रेष्ठा सङ्घे चैव सदा वरा | मातृपितृभक्ताश्च सत्यसत्त्वा जपे रता || तदा ते सर्वतो देवा निर्जिजे दैत्ययोनिजम् | तदा सस्यफलसम्पन्ना बहुपूर्णा वसुन्धरा || दीर्घकालायुषो मर्त्या बहुसङ्क्यपरायणा | धार्मिका नृपतयः सर्वे सुखदाः सौख्यपरायणाः || तदा तासु सुखा सैत्या ह्लादिनो व्याधिनाशकाः | भवेयुः सर्वे ते लोके सुखकारणशीतलाः || गतिशीता न चोष्णा वै ऋतवः सुखदा सदा | नानापक्षिगणाश्चैव कू*(?)येन्मधुरं सदा || बहुपुष्पफलाढ्या तु तरवः सर्वतो शुभा | सर्वे व्याधिविनिर्मुक्ता जन्तयो ***(?)सिनः || न चोद्वेगं तदा चक्रे नृपतिर्धार्मिको भवेत् | बहुधान्***(?)श्चैव नानारत्नथमन्दिराम् || २१७, प्. २१७) पश्यते सर्वयोन्यांस्तु जम्बूद्वीपगता नराः | फलाढ्या तरवो नित्यं बहुक्षीराश्च धेनवः || धर्मायतनशत्राश्च कूपवाप्य समन्ततः | कुर्वन्ते च जनाः सर्वे जम्बूद्वीपगता नराः || बहुधा बहुविधाश्चैव प्राणिधर्मरतः स्थिताः | समन्तात् सर्वतो तेषां यस्य पूर्णा वसुन्धरा || विपरीता तदन्यथा तेषां भ्रष्टमर्यादचेष्टिताम् | कर्मे युगाधमे काले अन्यथा फलमादिशेत् || निःफलं सफलं चैव * * * * * * * * (?) | विकृतं हेतुजं कर्म अशुभा चैव कामयेत् || इति | बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाच्चतुर्थो निमित्तज्ञानमहोत्पादपटलपरिवर्तः परिसमाप्त इति | २१८, प्. २१८) अथ एकविंशः पटलविसरः | अथ खलु भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीये कल्पविसरे सर्वसाधनोपयिके मन्त्रचर्याभियुक्तस्य साधनकाले सर्वमन्त्राणां सर्वकल्पविस्तरेषु राहुरागमनसुराणामधिपतेः सर्वग्रहानायकस्य ग्रहसंज्ञा चन्द्रदिवाकरादिषु नक्षत्रयोगेन दृश्यन्ते | तं शृणु साधु च सुष्ठु च मनसि कुरु ते भाषिष्ये || एवमुक्ते भगवता शाक्यमुनिना सम्यक् सम्बुद्धेन मञ्जुश्रीः कुमारभूतः उत्तरासङ्गं कृत्वा भगवतस्त्रिःप्रदक्षिणीकृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां तेनाञ्जलि प्रगृह्य भगवतश्चरणयोर्निपत्य पुनरेवोत्थाय भगवन्तमनिमिषं व्यवलोकयमानः उत्फुल्लनयनो भूत्वा हृष्टतुष्टो भगवन्तमेवमाह - तत् साधु भगवां निर्दिशतु राहोरागमनम् यत्र सत्त्वानां मन्त्रचर्याभियुक्तानां सिद्धिकालं भवेयुरिति सर्वसत्त्वानां च सुखोदयं शुभाशुभनिमित्तं वा तं निर्दिशतु भगवां | यस्येदानीं कालं मन्यसे || अथ खलु भगवांश्छाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात् | साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं परिप्रश्नसे सर्वसत्त्वानां च हितायोद्युक्तः | तेन हि मञ्जुश्रीः ! शृणु भाषिष्ये | सर्वसत्त्वानां निर्दिशश्चेति || आदौ ताव ग्रहैः क्रूरैः राहोश्चन्द्रमण्डले | आगमोदिते काले यथावन्तं निबोधिता || ** (?) देवासुरं युद्धं वर्तते च महद् भयम् | ***(?) दैत्यराजा वै दानवेन्द्रो महर्द्धिकः || * * * * * * * * (?) समन्तादुच्छ्रितो महां | * * * * * * * * (?) सुमेरोरधिको भवेत् || महाप्रमाणः * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || २१९, प्. २१९) ततः पाणिना परामृश्य सुमेरुं * * * * * * (?) | अप्सरां प्रेक्षते दैत्यः यदा काले नभस्तलम् || तदा चन्द्रमसपूर्णः कर वामे स दैत्यराट् | नानामणयस्तस्य करे कङ्कनतां गता || तदा भुवि लोकेऽस्मिं ग्रहभूतेति कथ्यते | यदा पद्मरागेऽस्मिं अर्चिर्भवति रक्तका || तदा तार्किका मानवा आहुः आग्नेयं मण्डलं विभोः | यदा तु नीलरक्तेऽस्मिं प्रभा नीलतां व्रजेत् || तदा नीलमिति ज्ञेयं शशिने भास्करेऽपि वा | माहेन्द्रमिति कथ्यते तार्किका भुवि मानवा || वायव्यमण्डलमित्याहुस्तार्किका एव ते तदा | विविधा रत्नमालेभ्यो विविधा रत्नसम्भवा || विविधं तार्किके शास्त्रे विविधा गतियोनिजाः | विविधैव क्रिया तेषां विविधा फलसम्पदा || सम्यग् ज्ञानविहीनानां वालिशानामियं क्रिया | तस्मात् तथागतं ज्ञानं सम्यक् तेन नियोजयेत् || असुरस्य तदा दृष्टिः अज्ञानेष्वेव दिवौकसाम् | रथं सम्पूर्णयामास शशिनस्य महात्मने || यदा काले भुवि मर्त्यानां राहोरागमनं भुवि | शशिमण्डलमाक्रम्य यदा तिष्ठति स ग्रहः || तदा महद् भयं विन्द्यान्नक्षत्रेष्वेव निबोधताम् | अश्विन्येव यदा युक्तः शशिने भास्करमण्डलौ || उभौ तौ युग्मतः ग्रासं दिवा रात्रौ च कथ्यते | अश्विन्यागमनं नित्यं दुर्भिक्षं तं विदुर्बुधाः || भरण्यां तु यदा चन्द्रं ****(?)डलाश्रयेत् | विविधा * * * * * * * * (?) चापि निर्दिशेत् || २२०, प्. २२०) कृत्तिकासु यदा चन्द्रः राहुना ग्रस्यते ध्रुवम् | रात्रौ वा यदि प्रभाते वा यामान्ते निन्दितं हितम् || तदा विन्द्या महद् दुःखम् व्याधिसम्भवगेव वा | मध्यदेशेषु नान्यत्र भवेन्नक्षत्रमादिभिः || जनपदेष्वेव वक्तव्यो नृपैर्बोधिविधोद्भवैः | मृगशिरासु यदा चन्द्रः भास्करो वा नभस्तले || राहुणा ग्रस्तपूर्वौ तौ अस्तं यातौ महर्द्धिकौ | पूर्वदेशे नरा यातु व्याधिभिर्हन्यते तदा || नृपाध्यक्षा गतायुष्या तत्र देशे विनिर्दिशेत् | आर्द्रायां पुनर्वसुश्चैव ग्रस्तौ च शशिभास्करौ || रुधिराक्ता महीं सर्वां म्लेच्छदेशेषु कीर्तयेत् | अन्योन्यहतविध्वस्ता हतप्राणा गतायुषा || निर्दिष्टा तत्र देशेऽस्मिन् पूर्वमुत्तरयोस्तदा | निकृष्टा पापकर्माणः म्लेच्छतस्करतां गताः || पुष्याश्लेषौ यदा चन्द्रे भास्करे वा नभस्तले | राहुणा ग्रस्तविम्बा तौ मध्याह्ने वार्द्धरात्रतः || तदा विन्द्यान्महादोष पश्चादन्यां नृपेश्वराम् | मघासु यदि ग्रस्येतौ शशिभास्करमण्डलौ || राहुणा सह मुद्यन्तो अस्तं यातौ ग्रहोत्तमौ | तदा प्रहाय तं विन्द्याज्जम्बूद्वीपेषु सर्वतः || दुर्भिक्षराष्ट्रभङ्गं च महामारिं च निर्दिशेत् | उभौ फल्गुनिसंयुक्तौ राहुरागमनं भवेत् || मध्याह्नेऽथवा रात्रे च मुच्यते च पुनः क्षणात् | सुभिक्षं ततो विन्द्याज्जम्बूद्वीपेषु दृश्यते || हस्तचित्रे यदा राहुः प्रसते चन्द्रभास्करौ | ग्रस्तौ सह मुच्येतौ अस्तं यातौ च दुःखदा || २२१, प्. २२१) महामारिभयं तत्र तस्कराणां समन्ततः | नृपाश्च नृपवरा श्रेष्ठा हन्यन्ते व्याधिभिस्तदा || दिशः सर्वे समन्ताद्वै दुर्भिक्षं चापि निर्दिशेत् | विशाखस्वातिनौ युक्तौ नक्षत्रवरपूजितौ || राहोरागमनं विन्द्यात् पशूनां पीडसम्भवाम् | विविधा कुलमुख्यास्तु हन्यन्ते शस्त्रिभिस्तदा || ज्येष्ठानुराधसंयुक्तौ नक्षत्रौ वरवर्णितौ | राहोरागमनं तत्र सुभिक्षं वा विनिर्दिशेत् || मूलेन यदि चन्द्रस्थः राहुर्दृश्यति भूतले | उदयन्तं तदा ग्रस्तं उदितं वापि सर्वतः || अस्तं यातेन तेनैव शशिनो राहुणा सदा | प्राच्याध्यक्षो विनश्येयुः पूर्वदेशजनालया || महान्तं शस्त्रसम्पातं दुर्भिक्षं चापि निर्दिशेत् | परचक्रभयाद् भिन्ना त्रस्ता गौडजना जना || राजा वै नश्यते तत्र व्याधिना सह मूर्छितः | उभौ अषाढौ तदाकाले राहुर्दृश्यति मेदिनीम् || तत्र दुःखं महाव्याधि तत्र दृश्यति भूतले | नृपमुख्यास्तदा सर्वे दुष्टचित्ता परस्परम् || धनिष्ठे श्रवणे चैव निर्दिष्टं लोकनिन्दितम् | नाना गणमुख्या वै विश्लिष्टान्योन्यतद्भुवा || पूर्वभद्रपदे चैव नक्षत्रे शतभिषे तथा | राहुरागमनं दृश्येत सुभिक्षं चैव निर्दिशेत् || उत्तरायां यदा युक्तः नक्षत्रे भद्रपदे तथा | राहुरागमनं श्रेष्ठं दिवा रात्रौ तु निन्दितम् || रेवत्यां तु यदा चन्द्रः राहुणा ग्रस्त सर्वतः | उदयन्तं तथा भानोर्निशिर्वा चन्द्रमण्डले || २२२, प्. २२२) अस्त**(?) यदा राहुग्रहमुख्यैः सहोत्तमैः | मध्यदेशाच्च पीड्यन्ते मागधो नृपतेर्वधः || एतद् गणितं ज्ञानं मानुषाणां महीतले | नक्षत्राणामेतत् प्रमाणं चैव कीर्तितम् || अशक्यं मानुषैरन्यैः प्रमाणं ग्रहयोनितम् | नक्षत्रमाला विचित्रा वै भ्रमते वै नभस्तले || एतन्मानुषां सङ्ख्यात्ततोऽन्यद् देवयोनिजाम् | यो यस्य ग्रहमुख्यो वा क्षेत्रराशिसमोदिता || नक्षत्रं कथितं पूर्वं तस्य तं कुरुतेऽन्यथा | ईषत् प्रमाणं न दोषोऽस्ति बहुवाचास्ति निन्दितम् || एतत् प्रमाणकाले वै ग्रहमुख्योऽर्थकृत् स्मृतः | काल.,म् कथितं ज्ञेयं नियमं चैव कीर्त्यते || नक्षत्रराशिसंयुक्तः कम्पो निर्घात उल्किनः | सग्रहौ यदि तत्रस्थौ रविचन्द्रौ तु दृश्यते || उभयान्तं तदा तस्य नक्षत्रां जातिभूषिताम् | अन्यथा निष्फलं विन्द्यात् प्रभावं वापि निन्दिते || तस्माज्जपे तदा काले मन्त्रसिद्धिसमोदिता | धूम्रवर्णं यदाकाशं दृश्यते सर्वतः सदा || तदा महद् भयं विन्द्यात् परचक्रभयेत् तदा | शशिने भास्करे चापि धूम्रवर्णो यदा भवेत् || पर्येषा द्वित्रयो वा वा तत्र विन्द्यान्महद् भयम् | धूमिकायां भवेद् वृष्टिः सर्वकाले भयानके || कुत्सितं सर्वतो विन्द्याद् व्याधिसमागमम् | ग्रीष्मे शरदे चैव धूमिका यदि जायते || समन्तात् सप्तरात्रं तु तत्र विन्द्यान्महद् भयम् | दिवा वा यदि वा रात्रौ धूमिका यदि जायते || २२३, प्. २२३) नक्षत्रैर्ग्रहचिह्नैस्तु तिथिवारान्तरेण वा | पूर्ववत् कथितं सर्वं यथा निर्घात उल्किनाम् || तैरेव दिवसैः पूर्वं धूमिकाया नियोजयेत् | अर्धरात्रेऽथ मध्याह्ने धूमिका जायते सदा || तत्र विन्द्यान्महोद्वेगं नृपतीनां पुरोत्तमाम् | शरदे यदि हेमन्ते ग्रीष्मे प्रावृषेऽपि वा || धूमिका सर्वतो ज्ञेया नक्षत्रैश्चैव कीर्तितः | शुभाशुभं तथा ज्ञेयं दिवा वा यदि वा निशा || निःफलं चापि विन्द्या वै सफलां चापि कीर्त्तिताम् | सर्वतः भूमिकम्पे वापि तथोल्कचैकतो राहुसमागमम् || तत्र धूमो भवेद् यद्यत् समन्ताश्चैव नभस्तले | अचिरात् तत्र तद् राज्यं घात्यते शस्त्रिभिः सदा || प्रभवः सर्वतो देशे मृत्युश्चैव प्रकीर्त्यते | सप्ताहाद्विजयमुख्या भुवि वाता सत्त्वयोनयः || घात्यन्ते सर्वतो नित्यं शस्त्रिभिर्मृत्युवशानुगा | अन्योन्यापरतो राज्यं कृपावर्जितचेतसः || विभिन्ना शस्त्रिभिः क्षिप्रं वणिजा नृपयोनयः | ग्रीष्मे सितवर्णस्तु नभो यत्र प्रदृश्यते || महाव्याधिभयं तत्र नीले चैव शिवोदयम् | पीतनिर्भासमुद्यन्तं सविता दृश्यते यदा || ग्रीष्मे च कथिता मृत्युः शरत्काले च निन्दितम् | हेमन्ते च वसन्ते च ताम्रवर्णः प्रदृश्यते || अन्यथा पीतनिर्भासौ निन्दितो लोकवर्जितः | शरदे ग्री**(?) ज्ञेयः पितिवर्णः प्रशस्यते || प्रावृड्काले तथा शुभ्रे पीतो वा न च * * * (?) | महाप्रभाव***(?) **(?)नीलसमप्रभः || २२४, प्. २२४) नभो ज्ञेयं सदाकालं सर्वसौख्यफलप्रदम् | विपरीतं ततो विन्द्या देशमावासपीडनम् || सस्योपघातमारिं च दुर्भिक्षं चापि मुच्यते | अतिकष्टं सुरा ह्येतं भयं वा रसदूषितम् || महाप्रणादं घोरं च शुक्रे वै च नभस्तले | तत्क्षणादेव सर्वेषां नृपतीनां प्राणोपरोधिनम् || ततोऽन्यच्छुभसंयुक्तं श्रेयसा चैव कल्पयेत् | सग्रहे भास्करे चन्द्रे यदा राहो महद्भये || नश्यन्ते जनपदास्तत्र विविधा कर्मयोनिजा | ततोऽन्यच्छुभसंयुक्तं शब्दं लोकपूजितम् || श्रेयसार्थे नियोक्तासौ सुरश्रेष्ठा ग्रहोत्तमा | विविधां मन्त्र सिद्ध्यन्ते विविधा मूलफलप्रदा || विविधा वा न वा सर्वे विविधा प्राणसम्भवाः | अनेकाकारसम्पन्ना स्वरूपा विकृतास्तदा || नानाप्रहरणाश्चैव नानाशस्त्रसमुद्भवा | सर्वमतयो ह्यग्रा मूलमन्त्रसुभूषणा || सर्वे ते साध्यमाने वै सिद्धिं गच्छेयु सग्रहा | ग्रहे चन्द्रे यदा भानो राहुणार्थोऽपि सग्रहे || तस्मिं काले तदा जापी मन्त्रमावर्तयेत् सदा | सर्वे ते वरदाश्चैव * * * * (?) भवन्ति ते || सत्त्वोपकारं फलं ह्येतत् प्रतिष्ठा तत्र दृश्यते | सिध्यन्ते मन्त्रराट् क्षिप्रं ग्रहे जप्ता सराहुके || सप्तभिर्दिवसैर्मासैः पक्षैश्चापि सुपूजिताः | मन्त्राणां सिद्धिनिर्दिष्टा सग्रहे चन्द्रभास्करौ || * * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || २२५, प्. २२५) ब्रह्मस्यापि महात्मानः किं पुनर्भुवि मानुषाम् | शक्रस्यापि न देवस्य रुद्रस्यापि त्रिशूलिने || विष्णोश्चक्रगदाहस्ते तार्क्षस्यापि महात्मने | नेष्यते सिद्धिरेतेषां विधिहीनेन कर्मणाम् || मन्त्रे सुजप्ते युक्ते च तन्त्रयुक्तेन हेतुना | सिध्यन्ते इतरस्यापि * * * * * * * * (?) || विधिना मानुषैर्मुक्ता विद्यातत्त्वसुभूषिता | सिध्यन्ते सग्रहा क्षिप्ता जप्ता कालेषु योजिता || ददाति फलसंयुक्तं विद्या सर्वत्र योजिता | हेतुकर्मफला विद्या * * * (?) हेतुदूषणी || कर्म सहेतुकं विन्द्या विद्याद्धेतुफलोदया | विद्या कर्मफलं चैव हेतु चान्य नियोजयेत् || चतुःप्रकारात्तथा विद्या चतुर्था कर्मसु योजिता | दद्यात् कर्मफलं क्षिप्रं सा विद्या हेतुयोजिता || सा विद्या फलतो ज्ञेया बुद्धैश्चापि सुपूजिता | विद्या सर्वार्थसंयुक्ता प्रवरा सर्वकर्मिका || प्रदद्युः कर्मतो सिद्धिं सा विद्या कर्मसु योजिता | श्रेयसा चैव योजयेत् न मन्त्राणां गतिगोचरम् || प्रभावं मन्त्रसिद्धिं च लोकतत्त्वं निबोधताम् | निःफलं कर्मतो वा वा फलं कर्म च तत्र च || * * * * * * * * (?) लोकतत्त्वनियोजिताम् | दृश्यते फलहेतुर्वा मन्त्रा बुद्धैश्च वर्णिता || न फलं कर्म क्रमं हन्ति नाफलं कर्म क्रिया परा | फलं कर्मसमारम्भात् सिद्धि मन्त्रेषु जायते || गुणं द्रव्यक्रयायोगा क्रमं द्रव्यक्रियाक्रमा | मन्त्राड् सिद्ध्यते तत्र फला कर्मेषु योजिता || २२६, प्. २२६) विधिद्रव्यसमायुक्तः वृत्तस्थो कर्मयोजितः | न योनिः कर्मतो ज्ञेयं यो नियुक्तः सदा फले || न बृहत्कर्मतां यान्ति सिद्धिमन्त्राक्षरं सदा | तदा मन्त्री जपेन्मन्त्रं विधियोनिसमाश्रया || कालक्रमा गुणाश्चैव विधियोनिगतिसौगतः | सिद्ध्यन्ते मन्त्रराट् सर्वे विधिकालार्थसाधिका || न गुणं द्रव्यतो ज्ञेयं नाद्रव्यं गुणमुच्यते | गुणद्रव्यसमायोगात् संयोगान्मन्त्रमर्चयेत् || अर्चिता देवताः सर्वे आमुकेनैव योजयेत् | तत्प्रमाणं गुणं द्रव्यं क्षिप्रमन्त्रेषु साधयेत् || क्रमः कालगुणोपेतं गुणकालक्रमक्रिया | चतुर्धा दृश्यते सिद्धिः मन्त्रेष्वेव सुयोजिता || प्रभावं गुणविस्तारं सत्त्वनीतिसुखोदयम् | प्रदद्युः सर्वतो मन्त्रा गुणेष्वेव नियोजिताः || प्रभवं सर्वतः कर्म गुणद्रव्यं च सिद्ध्यते | नापि द्रव्या गुणामेता द्रव्यकर्माच्च वर्जिता || न सिद्धिं दद्यु तत्क्षिप्रं यथेष्टमनसोद्भवात् | मानसा मन्त्रनिर्दिष्टा न वाचा मनसा विना || वान्यतो मन्त्रविज्ञेया न वान्या मनसे विना | नान्यकर्मा मनश्चैव संयोगात् सिद्धिरिष्यते || न दृष्टिकर्मतो हीना नेष्टं कर्मविवर्जितम् | सम्यग् दृष्टि तथा कर्मं वाक् चित्तं च योजितम् || सिद्ध्यन्ते देवताः क्षिप्रं मन्त्रतन्त्राक्षरोदितम् | सम्यग्दृष्टिसमायोगा **(?)कर्मान्तयोजयोः || * * * * * * (?) मन्त्रा सिद्ध्यन्ति सर्वदा सम्यक् | कर्मान्तवाक्सुमोपेतं सम्यग्दृष्टिसुयोजितम् || २२७, प्. २२७) सिद्ध्यन्ते सर्वतो मन्त्राः सम्यक् कर्मान्तयोजिताः | न चित्तेन विना मन्त्रं न स्मृत्या सह चित्तयोः || सम्यक् स्मृत्या च चित्ते च दृश्यते मन्त्रसिद्धये | न स्मृत्या च विनिर्मुक्ता मन्त्र उक्तस्तथागतैः || स्मृत्या समाधिभावेन सम्यक् तेन नियोजिताः | दृश्यन्ते ऊर्जितं मन्त्रैः सिध्यन्ते च समाधिना || सम्यक्समाधिनो भावो मन्त्रा लोकसुपूजिताम् | तत्प्रयोगा इमा मन्त्राः समाध्या परिभाविता || सिध्यन्ते मन्त्रराट् तत्र योगं चापि सुपुष्कलम् | सम्यक् समाधिभिर्ध्येयं मन्त्रं ध्यानादिकं परम् || सिध्यन्ते योगिनो मन्त्रा नायोगात् सिद्धिमुच्यते | यो मया कथितं पूर्वं सम्यगुक्तसुयोजितम् || नान्यथा सिद्धिमित्याहुर्मुनयः सत्ववत्सलाः | नासङ्कल्पाद् भवेन्मन्त्रः सम्यक् तत्त्वार्थयोजिताः || सङ्कल्पा मन्त्र सिध्यन्ते सम्यक् ते विधियोजिता | न पूज्य मन्त्रराट् सर्वे सम्यक् सङ्कल्पवर्जिताः || सिध्यन्ते सर्वतो मन्त्राः सम्यगाजीवयोज्जिता | सम्यक् सङ्कल्पतो ज्ञेयं मन्त्रेष्वेव सुखोदयम् || आजीवे शुद्धितां याति मन्त्रा सम्यक् प्रयोजिता | सिध्यन्ते भुवि निर्दिष्टा मन्त्रमुख्या सुयोजिता || आजीवं हि फलं युक्तो सम्यगेव सुयोजयेत् | सम्यक् सञ्जीवरतो मन्त्री शुद्धचित्तः सदा शुचौ || शुचिनः शुचिकर्मस्य शुचिकर्मान्तचारिणः | सिध्यन्ते शुचिनो मन्त्रा कश्मलाकश्मले सदा || क्रव्यादा येतरापन्त्रा चान्ये परिकीर्तिता | सिध्यन्ते मन्त्रिणां मन्त्राः क्रव्यादेष्वेव भाषिताः || २२८, प्. २२८) रुद्रविष्णुर्ग्रहा चोरै गरुडैश्चापि महर्द्धिकैः | यक्षराक्षसगीतास्तु सिध्यन्ते मन्त्रकश्मलाः || विविधैर्भूतगणैश्चापि पिशाचैर्मन्त्रभाषिताः | स्वयं न सिध्यते विधिना हीना अशौचाचाररतेष्वपि || विधिना योजिता क्षिप्रं अशौचेष्वेव सिद्धिदा | तस्मान्मन्त्रं न कुर्वीत विधिहीनं तु कर्मयोः || सिध्यन्ते साश्रवा मन्त्रा विधिकर्मसुयोजिताः | साध्यास्तु तथा मन्त्रा आर्य बुद्धैस्तु भाषिता || तेषां सिद्धि विनिर्दिष्टा मार्गेष्वेव सुयोजिता | आर्याष्टाङ्गिकं मार्ग चतुःसत्यसुयोजितम् || चतुर्ध्यान सदाचेयं चत्वारश्चरणाश्रिताः | भिद्यन्ते मन्त्रमुख्यास्तु प्रवरा बुद्धापदेशिता || अनाख्येयस्वभावं वै गगनाभावस्वभावताम् | मन्त्राणां विधिनिर्दिष्टां आर्याणां च महौजसाम् || भूम्यानां विधिनिर्दिष्टा सिद्धिमार्गविवर्जितम् | विद्यानां कथयिष्येऽहं तन्निबोध्य दिवौकसाः || दशकर्मपथे मार्गे कुशले चैव सुभाषिते | सिध्यन्ते दिव्यमन्त्रास्तु विधिदृष्टेन कर्मणा || इति | बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पा- देकुनविंशतिपटलविसरात् पञ्चमः ग्रहोत्पादनियमनिमित्तमन्त्रक्रियानिर्देशपरिवर्तपटलविसरः परिसमाप्त इति || २२९, प्. २२९) अथ द्वाविंशः पटलविसरः | अथ भगवांश्छाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतगामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीये मूलकल्पपटलविसरे सर्वभूतरुतनिमित्तज्ञानपरिवर्त्तनिर्देशं नाम | तं भाषिप्येऽहम् | यं ज्ञात्वा सर्वमन्त्रचर्यानियोगयुक्ताः सर्वसत्त्वा सर्वमन्त्राणां कालाकालं ज्ञास्यन्ते | तं शृणु | साधु च सुष्ठु च मनसि कुरु | भाषिष्येऽहम् || अथ मञ्जुश्रीः कुमारभूतो उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवतः शाक्यमुनेः सिंहासनं तेनाञ्जलिमुपनाम्य त्रिरपि प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत् | तत् साधु भगवां निर्दिशतु | तं भूतरुतज्ञाननिर्देशं सर्वसत्त्वानामर्थाय | तद् भविष्यति सर्वमन्त्रचर्यानुप्रविष्टानां सर्वकालनियमोपकरणं सिद्धिनिमित्तये | यस्येदानीं भगवां कालं मन्यसे || अथ खलु भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात् | साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं परिप्रश्नितव्यं मन्यसे | तेन हि मञ्जुश्रीः ! शृणुष्व निर्देक्ष्यामि || एवमुक्ते मञ्जुश्रीर्भगवतश्चरणयोर्निपत्योत्थाय निषण्णोऽभूद् धर्मश्रवणाय || अथ भगवां सर्वावतीं पर्षदमवलोक्य सर्वभूतरुतप्रचोदनी नाम समाधिं समापद्यते स्म | समनन्तरसमापन्नस्य भगवतः ये केचित् सत्त्वानन्तापर्यन्तेषु लोकधातुषु स्थिता सर्वे ते बुद्धरश्म्यावभासिता सर्वांश्च तां बुद्धां भगवतां शिरसा प्रणम्य अनन्तापर्यन्तलोकधातुस्थितां अभ्यर्चयेन भगवतः शाक्यमुनेः शुद्धावासभवनोपरिस्थितं सिंहासनं तेनोपजग्मुः | येन च सहा लोकधातुः तेन च प्रत्यष्ठात् | तत्र च स्थिता सर्वभूतगणा बुद्धानुभावेन स्वकं स्वकं रुतं विदर्शयन्तः भगवान पादमूलसमीपोपगता धर्मश्रवणाय | भगवन्तं प्रणम्य मभ्यर्च्य च मध्यस्थानेषु च सन्निषण्णा अभूवं धर्मश्रवणाय || २३०, प्. २३०) अथ बह्गवांश्छाक्यमुनिः शाक्यसिंहो शाक्यराजाधितनयः तेषां सर्वसत्त्वानां धार्म्या कथाया सन्दर्शयति समुत्तेजयति सम्प्रहर्षयति तेषां सर्वभूतसुरेश्वराणां तथा तथा धर्मदेशना कृतवां यथा तैः सर्वैः कैश्चिदनुत्तरायां सम्यक्सम्बोधौचित्यान्युत्पादितानि | कैश्चित् प्रत्येकायां वोको कैश्चिच्छ्रावकत्वे कैश्चित्कैश्चित् सत्यानि दृष्टानि कैश्चिदर्हत्वं साक्षात्कृतं कैश्चिद् दशकुशले कर्मपथे स्थित्वा प्रणिधानं कृतम् | अनन्तां बुद्धां भगवतः अनन्तां कल्पकोटीष्वजोपस्थानग्लानप्रत्ययभैषज्यप्रदानं चीवरपिण्डपातशयनासनपरिष्कारं प्रदद्याप इति नियता च भविष्यामो बुद्धबोधेरिति || अथ भगवां शाक्यमुनिः तेषां सत्त्वानामाशयं ज्ञात्वा मन्त्रं भाषते स्म सर्वभूतरुताभिज्ञा नाम | यं साधयित्वा सर्वबोधिसत्त्वाः सर्वसत्त्वाश्च रुतं विजानेयु. एकक्षणेन सर्वेषां सर्वसत्त्वानां यथागोचरमस्थितानाम् | कतमं च तत् || नमः समन्तबुद्धानामप्रतिहतशासनानां समन्तापर्यन्तावस्थितानां महाकारुणिकानाम् | ओं नमः सर्वविदे स्वाहा || कल्पमस्य भवति | आदौ तावन्महारण्यं गत्वा क्षीरयावकाहारः मूलफलशाकाहारो वा अक्षरलक्षं जपेत् | त्रिःकालस्नायिना वल्कलवाससा पूर्ववत् सर्वं विधिना कर्तव्यम् | यथा मन्त्रतन्त्रेषु तथागतकुलोद्भवेषु | ततः पूर्वसेवां कृत्वा अक्षरलक्षस्यान्ते तत्रैव साधनमारभेत् | विनापि पटेन | अग्निकुण्डं कृत्वा द्विहस्तप्रमाणं चतुर्हस्तविस्तीर्णं समन्ताच्चतुरश्रं सर्वपुष्पफलैरर्घ्यं दत्वा प्राङ्मुखः कुशविण्डकोपविष्टः नवमग्निमुत्पाद्य क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य श्रीफलफलानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | त्रिसन्ध्यं दिवसान्येकविंशति || ततो पूर्वायां दिशि महाल्भासं कृत्वा बुद्धो भगवानागच्छति | ततो साधके मूर्ध्नि परामृशति | अपरामृष्टे साधके तत्क्षणादेव भगवतो वाचा निश्चरते - सिद्धस्त्वं गच्छ यथेष्टम् इति कृत्वान्तर्द्धीयते || २३१, प्. २३१) ततः प्रभृति साधकः पञ्चभिज्ञो भवति महाप्रभावदिव्यमूर्त्तिः बोधिसत्त्वाचारः द्विरष्टवर्षाकृतिः यथेष्टगतिः सर्वभूतरुतज्ञः एकक्षणमात्रेण सर्वभूतानां रुतं विजानीते प्रभवश्च भवति यथेष्टगामी | पञ्चवर्षसहस्राणि जीवते | अवैवर्त्तिको भवति बोधिसत्त्वः | विंशतिभिः साधनप्रवेशैर्नियतं सिध्यतीति नात्र विचिकित्सा कार्या प्रसाधितस्यापि न मन्त्रं जपता पूर्वमादितश्चैव मध्ये चैव निबोधताम् || रुतज्ञानं प्रभावं च स्वभावं चैव कीर्त्यते | मध्ये आदितश्चैव अन्ते चैव दिवौकसाम् || भाषितं कथ्यते लोके मध्यदेशे च कीर्तिता | मागधा मङ्गदेशेषु काशिपुर्या नरोत्तमा || वृजिकोसलमध्येषु नरेष्वेव यथावच | तथा ते देवराट् सर्वे मन्त्रां वव्रे स्वभावतः || त्रिदशो मध्यदेशे च वत्स पश्य दशार्णवा | अमन्ते यथा वाचा तथा देशेषु जायते || त्रिदशेष्वेव सर्वत्र तथा वाणीमुदाहृता | यामा देवमुख्याश्च निर्माणश्च सनिर्मिता || तदा वाचकृतां वाचा मध्यदेशार्थचारिणी | तथारूपिण सर्वे वै अकनिष्ठाश्च महर्द्धिका || सर्वे ते सुरः श्रेष्ठा रूपधातुसमाशृता | ध्यानाहारगता सौम्या कदाचिद्वाचामभाषिरे || ब्राह्मीश्वरमतेला च कलविङ्करुतस्वना | मधुराक्षरनिर्घोषा मत्तकोकिलनिःस्वना || यद्यदार्त्था भवेद् वाचा धीरगम्भीरसंयुता | तथा सर्वतो वक्त्रा दृष्ट्या चैव सुपूजिता || भवन्ते ते सदा देवा मध्यदेशे सवाचका | मधुराक्षरसम्पन्नाः स्निग्धगम्भीरनादिनः || २३२, प्. २३२) मेघगर्जना तेषां वाचैषा तां तु लक्षयेत् | मध्यदेशा यथा मर्त्या अवन्त्येष्वेव पूजिता || वाचा शब्दसम्पन्ना तथा ज्ञेयां सुरेश्वराम् | अरूपिणां कृतो वाचा असंज्ञायतनसम्भवाम् || अभावादाश्रयात् तेषां न वाचां जग्मिरे सुराः | अधः श्रेष्ठाः सुराः सर्वे मध्यदेशेषु वाचका || मध्यदेशार्त्थचिह्नानां वाचैषा सम्प्रवर्तते | अथ देवामथ भूम्या वै यक्षाश्चैव महर्द्धिका || देवयोनिसमाविष्टा बहुसत्त्वगणास्तथा | करोटपाणयो देवा सदा मत्ताश्च वीणकाः || चत्वारोऽपि महाराजा चतुर्योनिसमाश्रिता | त्रिदशा देवमुख्यास्तु शक्रेण सह समाश्रिता || सुयामामथ सर्वत्र ऊर्ध्वं जापि सुरूपिणः | सर्वदेवगणा श्रेष्ठा वाचा ह्येषा तु कीर्त्यते || मध्यदेशे यथा मर्त्या हीनोत्कृष्टमध्यमाम् | तथा देववती वाचा हीनोत्कृष्टमध्यमाम् || वाचा तृविधा ज्ञेया हीनोत्कृष्टमध्यमा | त्रिविधात् कर्मतो ज्ञेया हीनोत्कृष्टमध्यमा || तथा देवालये वाणी मधुरं चापि सूक्तजिता | रुतं मतं तथा ज्ञेयं कर्मेष्वेव नियोजयेत् || असुराणां भवेद् वाचा गौडपौण्ड्रोद्भवा सदा | यथा गौडजनश्रेष्ठं रुतं शब्दविभूषितम् || तथा दैत्यगणा श्रेष्ठं रुतं चापि नियोजयेत् | तेषां पर्यटन्तानां समन्तानां च पुरोजवाम् || यक्षराक्षसप्रे*(?)नां नागांश्चापि सपूतनाम् | सर्वेषामसुरपक्षाणा वङ्गसामतटाश्रयात् || २३३, प्. २३३) हरिकेले कलशमुख्ये च चर्मरङ्गे ह्यशेषतः | सर्वेषां जनपदां वा तथा तेषां तु कल्पयेत् || त्रिप्रकारा यथोद्दिष्टा तेषां नैव वियोजयेत् | देवानां च तथा नित्यं पुरोगानां परिकीर्तयेत् || प्रेतयक्षगणाध्यक्षा स्कन्दमातरकिन्नरा | नागांश्चैव सदा काले यथा वाचा निबोधताम् || लाडोद्रेषु तथा सिन्धौ यथा मुत्तरतो तथा | जनेष्वेव हि सर्वत्र तां तु तेषां नियोजयेत् || नागानां च यथा लाडी वाचा ह्युक्ता मनीषिणी | यक्षाणां तु तथा वाचा उत्तरां दिशि ये नराः || गरुडानां यथा ह्येद्रे किन्नराणां तु कीर्त्यते | नेपाले सर्वतो वाचा यथा सा तां निबोधताम् || पूतनानां तथा नार्या विन्ध्यकुक्षिनिवासिनाम् | विन्ध्यजाता मनुष्याणां म्लेच्छानां च या वाचा || पूतनानां तु सा ज्ञेया वाचैषां परिकीर्तिता | राक्षसानां यथा वाचा तां वव्रे सुरोत्तमा || ससृज्यदक्षिणा देशा अन्ध्रलाटेषु कीर्तिता | द्रविडानां तु सर्वेषां डकारबहुला सदा || तां तु वाचा समालक्ष्ये राक्षसेष्वेव नियोजयेत् | त्रिःप्रकारा तथा ज्ञेया राक्षसानां कुलयोनयः || त्रिःप्रकारैव वाचैषा त्रिधा चैव नियोजयेत् | सर्वतो त्रिविधा ज्ञेया देशभाषाश्च ते त्रिधा || त्रिःप्रकारं तथा कर्म त्रिदेशं चैव योजयेत् | त्रिविधः सर्वतो ज्ञेयः त्रिविधं कर्म रुतं स्मृतम् || समं सर्वैषु तत्रैव विधातान्यं नियोजयेत् | नानाभूतगणा प्रोक्ता नानाभूतलवासिनः || २३४, प्. २३४) नाना च बहुभाषज्ञा नानाशास्तर्विभूषिता | मानुषा मानुषां विन्द्या नानावाचविभाषिताम् || नानाशास्त्रमता ज्ञेया नानामन्त्रार्थशालिनः | नानाकर्मसमोद्देशा नानासिद्धिस्तु मुच्यते || आविष्टानां यदा मर्त्या पात्रस्थानसमागता | तेषां च विधियुक्तेन मन्त्रैश्चापि सुयोजिता || आगता भूतले देवां वाचेनैव विभावयेत् | लिङ्गमर्थं तथा पात्रं देवं चैव नियोजयेत् || श्रेयसा श्रेयसे चैव आवेशानां तु लक्षयेत् | नानादेशसमाचारा नानाभाषसमोदया || नानाकर्मार्थसंयोगा नानालिङ्गैस्तु लक्षयेत् | मध्यदेशावहिर्येषां वाचा भवति चञ्चला || ते तु व्यक्तं नरा ज्ञेया म्लेच्छभाषारता हि ते | ये क्रूरा राक्षसा घोरा रौद्रकर्मान्तचारिणः || डकारबहुला वाचा लकाराव्यक्त मार्षो | दक्षिणात्य यथा वाचा चञ्चला भवति निन्दिता || तथा च राक्षसस्त्वेषु वाचैषा परिकीर्त्तिता | बहुधा रुतया ज्येष्ठा आविष्टानां तु त्रिजापराम् || आकृष्टा मन्त्रिभिः क्षिप्रं स्वयं वा इह मागता | बहुधा गृह्णन्ति सत्त्वानां मातरा सग्रहा सुरा || गरुडा यक्षगन्धर्वा किन्नरा * * * * * (?) | पिशाचा चोरगराक्षसानां यक्षपूतनाम् || आविष्टानां तथा लिङ्गा कथ्यमाना निबोधताम् | म्लेच्छभाषिण क्रव्यादा पिशाचाव्यक्तलापिनाम् || लकारबहुला वाचा डकारान्तास्तु पूतना | तेषां नेर्ध्वगता दृष्टि कर्मेष्वेतेषु योजिता || २३५, प्. २३५) मात्सर्या क्रूरसत्त्वानां मृषावादादसुचे रता | तेषा नोर्ध्वं गता दृष्टि अर्धो दृक् नोर्ध्वगता हि ते || मातराणां तथा वाचा शुभार्थोपसंहिता | ग्रहाणां कुमारमुख्यानां वाचा भवति केवला || शुभाङ्गसम्पदा वाचा वालभाव्यर्थयोजिता | प्रभावसर्वतः श्रेयां सर्वतश्च दिवौकसाम् || गरुडानां तथा वाचा आविष्टानां तु लक्षयेत् | गकारसमता ज्ञेया म्लेच्छभाषेव लक्ष्यते || अव्यक्तं स्फुटाभासं कीर्तियुक्तं शुभोदयम् | सुपर्णिने पायवदित्येषा विषदर्पनिवारणी || नानागतयो ह्येषां नानाभूतसमागमाम् | नानावर्णतो ज्ञेयां नानालिङ्गैस्तु लक्षयेत् || शुभाकरमभाकर मभासन्तं भक्षतो नागराट् पदे | वासुकीप्रभृतयो नागा धार्मिका वसुधातले || क्षिप्रवाचा समायुक्ताश्च वसन्तो उरगाधिपा | स्वेन स्वेन तु कायेन यो लिङ्गेन तु लक्षयेत् || तेन तेन तु लिङ्गेन तं तं सत्त्वं विनिर्दिशेत् | कश्मला कथिता सर्वे अधो दृष्टिगता हि ते || नानालिङ्गिनां ज्ञेया नानासत्त्वनिकायताम् | नानाकायगतैः कर्मैः नानाकायं निबोधताम् || एवम्प्रकाराह्यनेका बहुलिङ्गाभिभाषिणा | नानाबुद्धिकृतैः कर्मैः नानायोनिसमाश्रितैः || आविष्टानां भुवि मर्त्यानां कथिता लिङ्गानि वै सदा | सुराणामसुराणां च यथा वाचार्थलिङ्गिनी || तथैव तद् योजयेत् क्षिप्रं भूमिर्मानुषतां गताः | देवानां तदा विन्द्यात् सुप्रसन्नेन चेतसा || २३६, प्. २३६) निरीक्षन्ते तथा चोर्ध्वं दिशां चैव समन्ततः | अविक्लवा मनसौद्विल्या हृष्टा रूपसमन्विता || शुद्धाक्षा अनिमिषाक्षाश्च स्निग्धा च स्निग्धवक्त्रयः | प्रसन्नग्लत्या तथा सर्वे सुरश्रेष्ठा नु लक्षयेत् || पर्यङ्गोपहिता ज्ञेया निषण्णा भूतले शुचौ | केचिदम्बरं निःसृत्य निषण्णा खेचरा परे || ब्रह्माद्या कथिता देवा ध्यानप्रीतिसमाहिताः | तदूर्ध्वं श्रेयसां स्थाने रूपिणा बहुरूपिणा || आकृष्टा मन्त्रिभिर्मन्त्रैर्त्यैः मन्त्रजानां सनिश्रिता | तेषां रूपधरा कान्तिः आश्रया ते परिवर्तये || ध्यानप्रीतिसमापन्नाः ईषिस्मितमुखा सदा | शुद्धाक्षा विशालाक्षा बहुरूपसमाश्रिता || वमन्त्यो तदा कान्त्या श्रिया रूपसमन्विता | परज्ञानविदो देवा तेषां तं निबोधयेत् || पर्यङ्कोपरिविष्टा वै ध्यायन्ता ऋषिवत् सदा | तदावेशं विदुर्बुद्ध्या इष्टमर्थप्रसाधकम् || श्रेयसा सर्वमन्त्राणां हितायैवोषयोजयेत् | कथितं सर्वमेवं तु निबोधत सुरेश्वराः || ऋषिण्णा कथिता ह्येते संयता ते ऋषवस्थिता | आविष्टानां तदा लिङ्गा ऋषीणां कथिता मया || ऊर्ध्वदृष्टिगता देवा ऊर्ध्वपादाय कश्मला | विकृता रौद्ररूपाश्च ऊर्ध्वकेशास्तु राक्षसाः || मातराणां तदेवं तु केषां चेव तु दृश्यते | क्रव्यादा नग्नका तिष्ठे सचेला निश्चेलतां गता || ऊर्ध्वपाआ विकृताख्या ऊर्ध्वकेशा ग्रहा परे | विचेरुर्मेदिनीं कृत्स्नां समन्तात् सरितातटाम् || २३७, प्. २३७) एकवृक्षा श्मशानां च एकलिङ्गा पुलिनोद्भवाम् | देवावसथरथ्यासु विन्ध्यकुक्षिशिलोच्चयाम् || हिमाद्रे सानुमांश्चैव म्लेच्छतस्करमन्दिराम् | तत्रस्था विकृतरूपास्तु मन्त्राकृष्टाश्च मागता || गृह्णन्ति प्राणिनां क्षिप्रं शौचाचारपराङ्मुखाम् | सर्वमेदिनीं गच्छेद् भयादाहारमोहिताम् || गृह्णन्ति बहुधा लोके बहुव्याधिसमाश्रिताम् | नानाविकृतरूपास्ते नानावेषधरा परा || गृह्णन्ति प्राणिनां क्षिप्रं मृतकं मूत्रसुप्तकाम् | तेषां च कथितं लिङ्गं चरितं तु विभावितम् || वाचमालक्षितं पूर्वं कथितं तु महीतले | आविष्टानां तथा चिह्नं मानुषेष्वेव लक्षितम् || स्थिरप्रकाराः सर्वत्र सुरश्रेष्ठा निबोधता | आविष्टानां तथा लिङ्गा कथिता भूतले नृणाम् || स्निग्धं प्रेक्षते नित्यं अनिमिषश्चापि दृष्टितः | मानुषे सत्त्वसङ्क्लिष्टे सुरश्रेष्ठे तु महीतले || वव्रे वसुधरां वाचां शब्दसङ्घार्थभूषिताम् | युक्ते श्रेयसे धर्मे मानुष्ये वाश्रथोगतो || सुरश्रेष्ठो गतो मुख्यो ज्ञेयो सर्वार्थसाधको | चिन्तितं जापिने तेन गतबुद्धिदिवालये || तत् सर्वं बोधयेत् क्षिप्रं मन्त्रिणे चिन्तितं तु यत् | एतत् सम्यगाख्यातमावेशं भुवि दैवतम् || असंज्ञिनोऽपि सदा मन्त्रैराकृष्यन्ते तु भूतले | नभाष मधुरं वाचं न यज्ञो सत्वरा सुराः || निःश्रेष्ठा विवशा चैव स्थिता ते मौनमाश्रिताः | न वाचा किञ्चनस्तेषां न चित्ता नापि मानिता || २३८, प्. २३८) तस्मात् तं न चाकृष्ये तं जापी परिवर्तयेत् | असाध्यं नापि तत्तेषां मन्त्राणां जिनसौद्भवाम् || नाकृष्यं विद्यते किञ्चिद् दुष्करं तेषां जप्तमन्त्रार्थतापिनाम् | आकृष्यन्ते तथा आर्या आर्यैर्मन्त्रैस्तु युक्तिताः || आर्याणां यानि चिह्नानि खड्गिश्रावकसम्भवाम् | बोधिसत्त्वा महात्मानो दशभूमिसमाश्रिता || आकृष्यन्ते तथा मन्त्रैः समयैश्चापि सुभूषिताः | महादूत्यैस्तथोष्णीषैर्मुनिर्वर्णसुयोजितैः || बुद्धपुत्रैस्तु धीमद्भिरब्जकेतुकुलोदितैः | कुलिशाह्वैर्मन्त्रमुख्यैस्तु क्रोधराजमहर्द्धिकैः || नान्ये मन्त्रराट् शक्ता लौकिका ये महर्द्धिका | नापि समयवित्तेषां न चोत्कृष्टो मन्त्रमीश्वरः || वर्णितुं गणयितुं गन्तुं तं स्थानं यत्र ते सदा | समया सञ्चाल्यते तेषां हेतुः कर्मसमाहिताम् || ननु चाकृष्यते तेषां हेतुः कर्मसमाहितम् | तन्त्रं चाकृष्यते तेषां समये बुद्धभाषितैः || तस्मात् तं न चालये यत्ना न वृथामर्थेन योजयेत् | महर्द्धिका ते महात्मानो दशभूमिसमाश्रिताम् || अशक्ता सर्वमन्त्रा वै गन्तुं यत्र ते तदा | तथागतानां तथा माज्ञा संस्मृत्यामरपूजिता || आगच्छेयु तदा सर्वे मन्त्रजप्तार्थमन्त्रवित् | आकृष्टानां भवेल्लिङ्गा मानुष्योकायमानुषाम् || धीरतः स्निग्धवर्णश्च गम्भीरार्थसुदेशकः | धीरो गम्भीरतां यातो अल्पवाष्पो भवेत् तदा || *****(?)पनसोत्कृष्टो पृष्टश्च मन्त्रवित् | **(?)न्धयामास सुविदिशे चैव नभस्तले || २३९, प्. २३९) परसत्त्वविदो ह्यग्रो धर्मतत्त्वार्थदेशकः | नीतिः प्रीतिसुखाविष्टो कृपाविष्टस्य चेतसा || महोत्साहो दृढारम्भो बुद्धधर्मार्थदेशकः | मुहूर्त्तं क्षणमात्रं वा प्रविशेन्मानुषाश्रयम् || बहुरूपो सुरूपश्च ऊर्ध्वं तिष्ठे नभस्तलम् | बुद्धधर्मगता दृष्टिः संघे चैव सगौरवा || क्षणमात्रं तदा तिष्ठेन्मानुषीं तनुमाशृता | सत्यसन्धो महात्मानो जितक्रोधो त्रिदोषहा || प्रथमं तावतो विन्द्या पश्चाच्चैव नियोजिता | मानुषैस्तदा कृष्टा पुनर्मुक्ताश्च यथेष्टगाः || स्तब्धो निश्चलाक्षश्च सितवर्णस्तथैव च | अङ्गकेतुस्तदाविष्टो धीरगम्भीरसुश्वरः || सुप्रसन्नो महाकायो तिष्ठते च महीतले | पर्यङ्कमासनाविष्टो कृपाविष्टोऽथ चेतसा || स मुद्रा पद्मरोपेतो महासत्त्वो समाविशे | अवलोकितो मुनिः श्रेष्ठो बोधिसत्त्वो महर्द्धिको || स्वेच्छया आगतो लोकां सत्त्ववत्सलकारणो | अभयाग्रा कारणो * * * * * * * * * (?) || अभयाग्रा करोपेतौ ऊर्ध्वदृष्टिसमस्थितौ | साधकं पश्यते दृष्ट्या करुणाविष्टचेतसा || ईषिस्मितमुखा देवा केचिद् भ्रूलतभूषितो | महासत्त्वो महात्मानो सत्त्वानां हितकारकः || प्रसन्ना सर्वत मूर्त्त्या तं विन्द्यादवलोकितुम् | क्रूरः वज्रधरो मुख्यो बोधिसत्त्वो महर्द्धिकः || आविष्टो क्रूरिणो सर्वो रक्तान्तायतलोचना | इन्दीवरत्विषाकार ईषत् काये तु लक्षयेत् || परामृश्यन्तं तदा वज्रं मुद्रां बध्नाति मात्मनाम् | तुष्टो वरदो मर्त्यां भोगां दापयते सदा || २४०, प्. २४०) महात्मा कृष्णवर्णो वै ईषि दृश्यति तत्क्षणात् | स्निग्धं गम्भीरमुक्तोऽसौ वाचां भाषते तदा || नृणां किमर्थमेतं वो कर्मवरं दास्याम वो भुवे | अमोघं दर्शनमित्याहुर्वज्रिणेऽब्जिजिने जिने || वरदा सप्रभा मन्त्रा फलं दद्युस्तदा तदा | जिनेरागमनं तत्र निर्माणो भुवि मानुषाम् || समयात् कथिता ह्येते वर्णाश्चैव विबोधिता | तथागतादाश्रयाद्धि वा फलहेतुसमुद्भवा || निर्माणा कथ्यते बिम्बं न बिम्बं निर्माणमाशृतम् | बिम्बनिर्माणयो यद्वत् प्रतिबिम्ब न विद्यते || पद्मकिञ्जल्कवर्णोऽसौ हेमवर्ण महाद्युतिः | निर्भिन्नरोचनाभासो कुङ्कुमाराभिविद्विषः || उद्यन्तमिवार्क वै कर्णिकारसमप्रभः | तादृशं विद्यते बिम्बे बुद्धबिम्बसमासृते || ब्राह्मश्च रनिघोषो कलविङ्करुतध्वनिः | श्रेयसः सर्वभूतानां युक्तियोगान्नियुज्यते || तादृशं लक्षणं दृष्ट्वा बुद्धमित्याहु जन्तवः | तद्गोत्रा च विधिस्तेषां वज्राब्जकुलयो तदा || लौकिकानां तु मन्त्राणां मन्त्रनाथं तु योजयेत् | यत् पूर्वं कथितं सर्वं बहुप्रस्तावभूषितम् || तं नियुञ्ज्य तदा मन्त्री मन्त्रेष्वेव च सर्वतः | ऋषीणामेकसंस्थानं गरुडानां च निबोधितम् || स्वलिङ्गा वाचया चैव तं नियुञ्ज्यथ मन्त्रिणाम् | बहुलिङ्गा तदा चैषा स्वलिङ्गा चैव साधये || स्वमुद्रामुद्रितां ह्येते इतरा व्यन्तरा स्मृताः | कथितं सर्वमावेशं स्वमुखं दुःखदं पराम् || २४१, प्. २४१) एष कालक्रमो योगे आवेशे चैव योजयेत् | महाप्रभावैर्मुद्रैस्तु मन्त्रैश्चापि निवारयेत् || नियुञ्ज्यात् सर्वतो मन्त्री जप्तमात्रां च चेतराम् | अन्यथामाचेरद् यस्तु इतरैर्मन्त्रिभिः सदा || परिरक्ष्य तदा पात्रं मन्त्रैश्चापि महर्द्धिकैः | दूतिदूतगणैश्चापि चेटचेटिगणैः सदा || इतरां लौकिकां देवां आह्नये चैव महर्द्धिकाम् | यक्षराड् विविधा सर्वां यक्षिण्यश्च महर्द्धिकम् || आह्नयेत् तत्क्षणान्मन्त्री मनसः यद्यपीप्सितम् | अन्यमन्त्रा न चाह्वेया नान्ये देवगणा सदा || स्वयमेवागता ये तु समये तां नियोजयेत् | सर्वे सम्पदका ह्येते मन्त्रा सर्वार्थसाधकाः || तं तस्मा नेतरां कर्मं आवेशां चापि वर्जयेत् | आकृष्टा महर्द्धिका देवा दिव्या आर्याऽऽष्च भूमिजा | अल्पकार्येऽथ युञ्जाना समयभ्रंशोऽथ जायते || तक्षकः प्रेक्षते स्तब्धं वासुकिश्चापि नृत्यते | कर्कोटकश्च महानागो मुचिलिन्दयशश्विनः || शङ्खपालदुर्लक्षो नृत्यन्ते उरगाधिपा | शङ्खपालोऽथ शङ्खश्च मणिनागोऽथ कृष्णिलः || सागरा भ्रमते क्षिप्रं पतते च मुहुर्मुहुः | सर्पवन्निःश्वसन्ते ते विषदर्पसमुच्छ्रिताः || विविधा नागवरे ह्येते अन्तान्ता तेषु निबोधताम् | केचिद् भावयतो हृष्टो केचित् तिष्ठन्ति निश्चलम् || केचित् पाते ** (?) क्षिप्रं स्वस्थाङ्गा ऊर्ध्वमूर्द्धजा | पतन्ति विविधाकारं प्लुतं चापि करोति वै || अनन्ता भ्रमते क्षिप्रं पञ्चवच्चले जले | अनन्ता नागयोन्यास्तु सङ्ख्याता लिङ्गवेषयो || २४२, प्. २४२) पूर्ववत् कथिता वाचा दष्टाविष्टमहोदितम् | मोचयेत् कुलिशाह्वेन मन्त्रेण क्रोधराजेन युक्तिमांश्च || मन्त्रेणैव कुर्यान्तं तेषां मन्त्रेण योजयेत् | मन्त्रास्तु पर्णिनां येऽत्र निर्दिष्टा विषनाशका || ते तु मन्त्रा सदा योज्या दष्टाविष्टेषु सर्वतः | शेषा विघ्ना तथा कुर्या ग्रहमातरयोजिता || तेनैव कारयेत् कर्मं ग्रहमातरपूतनाम् | असङ्ख्या लक्षणा ह्येते दष्टाविष्टेषु जन्तुषु || तैरेव लौकिकैर्मन्त्रैस्तत्तत् कर्म नियोजयेत् | अशेषं कथितं ह्येतं दष्टाविष्टं च लक्षणम् || अधुना बोधयिष्यामि तिर्यग्भाषां समानुषाम् | नारकानां तु भाषां वा कथ्यमानां निबोधताम् || यदा पक्षिगणा सर्वे सन्निपत्य समन्ततः | ग्रामवासं तदा चक्रुः मध्याह्ने जनमालये || तदा ते कथये वाचां रेफंयुक्तां सभैरवाम् | क्रकः ककारमित्याहुः काका ये क्रूरभाषिणो || कथयन्ति भयं तत्र क्षुधा चैव का दर्शयेत् | मयूरा कोकिलाश्चैव सन्निपत्य प्रगे तदा || क्रूरां दर्शयेद् वाचां भयं तत्र निवेदयेत् | बुभुक्षां कथयामास आहारं चैव योजयेत् || सदाहं सर्वकायाता ग्रामस्थानेषु दृश्यते | तदा ते कथयन्त्येते तां वाचां भयभैरवाम् || षण्मासां नश्यते देशे ग्राम्यक्तां भोजनोत्तमाम् | तेषां क्षीरसमं देयं तोयं चैव मुखोदयम् || शारिकाशुकमुखांस्तु कपोता * * * * * (?) | चक्रवाका भास***(?) सर्वे आगत्य मीलये || २४३, प्. २४३) ग्राममध्यगता ह्येते यदा कुर्वन्ति मालयम् | तदा ते कथयन्त्येवं महादुर्भिक्षकारणम् || अनावृष्टिं तथा व्याधिं बहुरोगसमागमम् | लूता विस्फोटकाश्चैव महातस्करताश्रयाम् || अवगच्छन्तु भवन्तो वै षड्भिर्मासैर्भविष्यते | यदा सर्वपक्षिगणा क्रूरं चक्रतुर्भृशदारुणम् || रोदमाने तदा सर्वे सत्त्वानां च निवेदिता | यथास्थिता यथाकालं तदैवत्तत्र योजयेत् || दकारबहुलं वाचं मनुष्यभाषिणो यदा | आगत्य ग्रामवासेऽस्मिं कथयन्ति यथा हि तम् || रात्रौ स्वस्त्ययनं कृत्वा तस्मात् देशादपक्रमेत् | मधुराक्षरसंयुक्तं यदा नेदु सपक्षिजा || तस्मात् सुभिक्षमारोग्यमेवं चाहुर्निवेदयेत् | यदा दक्षिणतो गच्छे मृगा गच्छेथ मग्रतम् || सिद्धिं च निर्दिशन्ते ताः मृगाश्चैव सुपुष्कलाम् | श्वानजम्बूकनित्यस्थाः ते मृत्युं दर्शयन्ति ते || न गच्छेत् तत्र मेधावी जम्बूकैश्च निवारितः | प्रविशेत् स्वालयं क्षिप्रं कथयामास ते तदा || अतिक्रूरा निनेदुस्ताः अग्रतश्चापि प्रधावयेत् | गच्छेत तत्क्षणान्मन्त्री यदिच्छेत् सिद्धिमात्मनः || वामतो दक्षिणं गच्छेज्जम्बूको यदि गच्छतः | सिद्धियात्रं विजानीयाज्जम्बूकेन निवेदिताम् || चाषा च पक्षिणा सर्वे मृगाश्चैव सजम्बुका | हरिणा शशकाश्चैव विविधा तिर्यजातयाः || प्रदक्षिणं च यदा चक्रुर्महासिद्धिं सुपुष्कलाम् | कथयामास ते सर्वं गच्छ पूज्यो भविष्यसि || २४४, प्. २४४) सर्वमशोभना ह्येते उरगा श्वापदादयो | मार्गे यदि दृश्यते स्थानगच्छेत् कुत्र वा क्वचित् || सर्वे ते कथयन्त्येवं नास्ति सिद्धिनिवर्तताम् | गच्छतां स्वकमावासं स्वस्थो तिष्ठति स्वे गृहे || न गच्छेत् तत्र मन्त्रज्ञो उरगैस्तु निवेदितम् | यदि गच्छेत् तदा कालं उद्वेगो मृत्यु वा भवेत् || नानातिर्यगता प्राणा जलावासा स्थलेचरा | स्थावरा जङ्गमाश्चैव कथयन्ति शुभाशुभम् || विपरीतैर्भयं विद्यात् स्वस्थैः स्वस्थतां गताः | केचित् तिर्यगता दिव्याः मानुषा भाषिणो तदा || योऽयं निवेदये वाचां तं तथैव नियोजयेत् | स्वलिङ्गैः सदा स्वास्थ्यं क्रूरैश्चापि सुभैरवम् || तत् तथैवावधारणार्त्थं बुद्धिं दद्याथ मन्त्रवित् | लिङ्गावनेकधां लक्ष्ये नानायोनिसमाश्रिताम् || मानुषाणां तथा वाचा युक्ता मध्यार्त्थभाषिणौ | मध्यदेशे तु या वाचा शब्दपदार्त्थावभाषिता || स मानुषी वाचमित्याहुः ततोऽन्यं म्लेच्छवाचिनी | वाणी सर्वततो ज्ञेया मध्यदेशे निबोधिता || मधुराक्षरसंयुक्ता हृद्या कर्णसुखावहा | अनेला मानसोद्भूता अविक्षिप्तार्त्थभाषिणी || स ज्ञेया मानुषी वाचा रुतं चैव स्वभावतः | ततोऽन्ये सर्वतोऽनर्त्था सा वाचा म्लेच्छवर्णिनी || कथितं मानुषं वान्यं पशूनां तावदिहोच्यते | सिंहोऽपि देशमाक्रम्यः गच्छेत् पुरवरं सदा || भृशं तत्र हरेत् क्षिप्रं तरुं तस्य सुदारुणम् | रुद्यते पशुराजा वै करुणं दीन निवेदयेत् || २४५, प्. २४५) महद् भयं तदा विद्यात् सर्वदेशोपसंप्लवम् | महापुरे यदा रावं पऽऽषुराज्ञेति श्रूयते || पश्चिमे महद् भयं विन्द्याद् दक्षिणे शान्तिकामताम् | पूर्वेण तु भवेच्चक्र परराष्ट्रागमं विदुः || उत्तरेण भवेद् घोरा अतिवृष्ट्याहु संप्लवम् | विदिक्षेष्वेव सर्वत्र भयं चैव निवेदयेत् || रावैर्द्विस्त्रिभिर्ज्ञेयं त्रिभिर्दिक्षु महद् भयम् | क्षेमदक्षिणतो सर्व सिंहेनैव निवेदितम् || चत्वारो मथ पञ्चा वा सप्त षष्ठ निबोधिता | अष्टात् परेणमित्याहुः निःफलं चैव नियोजयेत् || दक्षिणावस्थिता श्रेया अध ऊर्ध्वार्त्थसम्पदा | क्षेमं * (?) कसामीप्ये देवायतनचत्वरे || सदारावं तदा वर्ज्यं तस्माद् देशादपक्रमेत् | यथा सिंहे तथा सर्वं सर्वप्राणिषु योजयेत् || शरभैः शार्दूलाख्यैर्वै यथा तत् सर्व निबोधताम् | अभावा मानुपावासं हिंसः शरभया सदा || किन्तु प्रासादिकं ज्ञानं कत्थ्यते तां सुरोत्तमाम् | क्रोष्टुकेषु च सर्वत्र तां तथैव नियोजयेत् || पूर्वपश्चिमतो भागे यदा हस्ती रुदेद् भृशम् | तस्मान्महद् भयं विन्द्यात् तत्र देशेषु जन्तुनाम् || श्मशाना वायसाश्चैव उर्ध्वतुण्डा रुदन्ति वै | तत्र विन्द्यान्महोद्वेगं वायसैश्च निवेदितम् || प्रस्थितो मन्त्रिणे कालं यद्यदेशाभिकांक्षिणम् | गच्छतो वामतः काको भृऽऽषं रौति सुदारुणम् || न गच्छेत् तत्र मेधावी वायसेन निवेदितम् | रौति दक्षिणतो श्रेयं अग्रतस्तु निवारयेत् || न गच्छेत् तत्र मन्त्रज्ञो गच्छत् मृत्युवशो भवेत् | गोमयं भक्षयेत् पक्षी यदा रौति सुखोदयम् || २४६, प्. २४६) मृष्टान्नभोजनं विन्द्या गोलाभं चैव निर्दिशेत् | मन्दिरारूढनित्यस्थो यदा रौति स वायसः || अर्धरात्रे तथा काले गृहभेदं समादिशेत् | धान्यपुञ्जधरारूढो यदा रौति स वायसः || सुशुभं कूजते क्षिप्रं मधुरं चापि भाषितम् | अचिरात् तं फलं विन्द्या बहुधान्यधनागमम् || गृहद्वारं यदा पश्यं वायसो रवतो भृशम् | तत्र रात्रौ भवेत् तस्य शस्त्रसम्पात चौरिभिः || क्षीरवृक्षे यदा श्रेष्ठो कण्टके कलहप्रियः | हस्तिस्कन्धसमारूढं अश्वपृष्ठे च शोभनम् || भोगिनां मस्तके राज्यं पद्मपुष्पेषु सम्पदा | नानाविविधसम्पत्यो मधुराक्षरकूजितां || सर्वतोलिङ्गमर्त्थानां तत् पूर्वं कथितं हितम् | * * * (?) कूजनं क्रूरं समं सर्वेषु योजयेत् || शिवाय सर्वतो ज्ञेया दक्षिणेन फलप्रदा | तत् सर्वं सिंहतो ज्ञेयं शिवान्नु सर्वदा || क्रूरा अशोभनारावा दीना मृत्युपरायणा | सर्वतो मुखनिष्पत्तिं फलं सस्यसमुद्भवम् || सर्वे शिवगणा प्रोक्तो शायम्प्राते च शोभना | एकारवेति यद्येता दक्षिणां दिशमाश्रिता || शिवा शिवतमा प्रोक्ता द्वितीया रावे तु कीर्त्यते | तृतीये रावे तथा ज्ञेया राज्ञे अर्त्थावहा भवेत् || चतुर्त्थे तु महालाभं पञ्चमे पुत्रदा स्मृता | षष्ठे च धननिष्पत्तिः सप्तमे न भवे शुभा || अष्टमं निःफलं विन्द्या तदूर्ध्वं भयपीडिता | एवं करोति शिवा तत्र असङ्ख्येया तेऽप्यनिष्टदा || पश्चिमेन शिवा ज्ञेया परचक्रभयं तदा | द्वितीये दुर्भिक्षकान्तारे क्रूररावा यदा भवेत् || २४७, प्. २४७) तृतीये अर्थनाशं तु चतुर्थे प्राणरोधिनम् | पञ्चमे कथिते रावे अमात्यानां व्याधिपीडकाः || षष्ठे चोरागमं विन्द्या सर्वतस्तु शिवा तु सा | सप्तमेन महाव्याधिं अष्टमे चापि निन्दिता || तदूर्ध्वं भयभीतार्त्ता क्षुधिता वा प्रभाषते | उतरेण तु यो यावो शिवायाः श्रूयते सदा || महाघोरतमं व्याधिं तत्र स्थाने विनिर्दिशेत् | द्वितीये क्रूररावे तु दुःखदा सा भवेत् तदा || तृतीये अर्थनाशं तु चतुर्त्थे अग्निसम्भवम् | पञ्चमेन महावृष्टिं षष्ठे राजापरुद्ध्यते || सप्तमेन महायुद्धं शस्त्रसम्पातमादिशेत् | अष्टमे निःफलं विन्द्या तदूर्ध्वं यः किञ्चि रोदिति || पूर्वेण च यदा रौति शिवा यामे तु मन्तिमे | तदा राजागमं विन्द्या द्वितीयारावे तु प्रेषिणाम् || तृतीयं राजतो मृत्युः वद्धो वा यदि श्रूयते | चतुर्थे चोरतो दुःखं पञ्चमे प्राणरोधिकम् || षष्ठे च भवते व्याधिः सप्तमे अग्नितो भयम् | अष्टमे निःफलं विन्द्या शेषं पूर्ववत् सदा || यदा दक्षिणपूर्वेण विदिशे व्याहरे शिवा | प्रथमेन भवेत् सौख्यं द्वितीये सर्वतो जनाम् || तृतीये धननिःपत्तिश्चतुर्थे सस्यसम्पदा | पञ्चमे सुभिक्षनिर्दिष्टं षष्ठे क्षेमं समादिशे || सप्तमे सर्वतो ज्ञेयमष्टमे निःफलं सदा | यदा दक्षिणभागेन पऽऽष्चिमामध्यतो सदा || निर्दिशे च ध्रुवा ऐथा शिवा क्रूरतमा स्मृता | प्रथमेन भवेन्मृत्युः हन्यते ब्राह्मणा द्विके || २४८, प्. २४८) तृतीये क्षत्रियं हन्या चतुर्थे वैश्यमित्याहुः | पञ्चमे शूद्रयोनयः || षष्ठे म्लेच्छिनां हन्ति सप्तमे तस्करा तदा | अष्टमे निःफलं विन्द्या अतिदुःखं क्रूरराविणाम् || असङ्ख्येयानां तु दृश्यते | उत्तरापश्चिमाभागे यदा तीव्रं विरौति सा || अतिक्षिप्रं महाव्याधिः राज्ञे वा व्याधिमादिशेत् | द्वितीयेन हन्यते हस्ती राज्ञो मुख्यो गजोत्तमम् || तृतीयेन भवेन्मृत्युः मादिष्टः तत्र वै | चतुर्थेन भवेन्मृर्त्युः मुख्यानां च धनेश्वराम् || पञ्चमे धननाशं तु षष्ठे व्याधि सम्भवेत् | सप्तमेन भवे दुःखं सर्वतो च भयावहम् || अष्टमे निःफलं विन्द्या पूर्वं वै सर्वतो तदा | उत्तरे पूर्वयोर्मध्ये विदिक्षु चैव लक्षयेत् || अतिक्रूरा यदा क्षिप्रं शिवा व्याहरते तदा | उत्तरे पूर्वतो मध्ये विदिक्षुश्चैव लक्षयेत् || अतिक्रूरा यदा क्षिप्रं शिवा व्याहरते तदा | मृत्युना हन्यते जन्तुः पौरमुख्यो धनेश्वरः || द्वितीयेन हनेन्मन्त्री तृतीये गजमादिशे | चतुर्थे विविधयोन्यास्तु म्लेच्छतस्करजीविनः || चतुर्थेन भवेद् व्याधिः सर्वेषां च तदा जने | पञ्चमे हन्यते पुत्रो अमात्यो वा नृपतेर्ध्रुवम् || षष्ठे मृत्युमादिष्टा महादेव्या तु नराधिपे | सगमेन हनेद् ** (?) रक्तं वापि विनिर्दिशेत् || अष्टमे निःफलं ** (?) पूर्ववत् कथिता सदा | अतः ऊर्ध्वं तथा ** (?) शिवानां च भवे यदा || २४९, प्. २४९) अमानुषं तं विदुर्**(?) महोपद्रवकारकम् | अपक्रम्य ततो गच्छे मन्त्रैर्वा रक्षमादिशेत् || महाप्रभावैर्विख्यातैर्जिनाब्जकुलयोद्भवैः | होमकर्माणि कुर्वीत शान्तिं तत्र समादिशेत् || एवम्प्रकारा ह्यनेकानि बहुभाष्या पशुयोनयः | नानापक्षिगणांश्चापि रुतं चैव निबोधये || बहुधा तिर्यगता केचिच्चापसुमूर्त्तिजा | केचिद् विकृतरूपास्तु रौद्रा सत्त्वविहेठका || केचित् प्राणापरोधिकां सत्त्वां हिण्ड्यन्तेऽथ महीतले | असृक्पानरता केचिद् अन्वाहिण्डन्ति मेदिनी || केचिद् रुधिरगन्धेन भ्रमन्ते मेदिनीतलम् | विविधा मातरा ह्येते ग्रहमुख्यास्तु वालिशा || कुमारकुमारिकारूपाः ग्रहाः प्रोक्ताः विविधा परा | भ्रमन्ते मेदिनीं कृत्स्नां क्षणमात्रेण सर्वतः || सहस्रं योजनं केचिद् वायुवद् भ्रमतापराः | पशुवेषकृता केचिद् दृष्ट्या नष्टा च जन्तुषु || विविधं करोति सर्वे ते सर्वत्र वसुधातले | मृतपूतकसत्त्वेषु सुप्त उपहते तथा || गृह्णते मानुषां केचिद् बलिमाल्यार्थकारणात् | सर्वेषां मानुषां लोके क्रमन्ते केचिन्नभस्तलात् || सर्वाकारविदो ज्ञेया बहुरूपा विकारिणः | शुभा अशुभरावाश्च ज्ञेया लिङ्गसितु सर्वतः || शुभाशुभफलं सर्वं विकृतं सुकृतं तथा | आगमैर्व****(?) लोकतत्त्वार्थचिह्नितैः || ऋषिभि*****(?)खड्गिभिर्जिनवरैः सदा | श्रावकैर्म******(?) नानायोनिसमाश्रितम् || २५०, प्. २५०) ग्रहैर्ग्रहवरैः ख्यातैः प्रकृष्टैर्लोकचिह्नितैः | ज्ञेयं शास्त्रतो तत्त्वं आगमाधिगमापि वा || नानालिङ्गविधानेन गतियोनिविभावतः | ज्ञेयं शुभाशुभं सर्वं क्रूरैः सौम्यैश्च लिङ्गिभिः || छत्रं शितं पताकं च मत्सं मांसं च सार्द्रयोः | उत्क्षिप्ता च मेदिनी पद्मयन्त्र गोमयं तदा || दधि पुष्पं फलं चैव स्त्रियं वाम्बरभूषिताम् | शुक्लवस्त्रं तथा ज्ञेयं द्विजं श्रयार्थभाषिणम् || वृषं गजं तथा ज्ञेयं अश्वं चामरभूषितम् | प्रदीपं भाजने न्यस्तं पूर्णधान्यफलोदयम् || देवद्विजप्रतिमां वा पूज्यमाना सदा नृपैः | अभिषेकार्त्थयुक्तं वा नृपबिम्बाथ मन्त्रिणाम् || शङ्खस्वनं भेरींश्च पटहं चापि सुदुन्दुभिम् | घण्टाशब्दं प्रहृष्टं च जयशब्दं प्रघोषितम् || मानुष्योदीरितां वाचां जयसिद्धिफलप्रदम् | एता निमित्ता मावेद्य इष्टां चैव निवेदिताम् || सर्वसम्पत्करं क्षेमं इष्टं चैव सुपूजितम् | सर्वां प्राप्नुयादर्त्थां सफलां मनसोद्भवाम् || मन्त्रजापं ततो गच्छेत् सिद्ध्यर्त्थी सिद्धिमादिशेत् | सर्वेषां सर्वसत्त्वानां प्रस्थितानां तु निर्दिशेत् || योऽयं देवताध्यक्ष इष्टो गोत्रजो परो | आध्येष्ट्यो भवेन्नित्यं तं लिङ्गी पश्यतो फलम् || विविधाकारचिह्नास्तु देवाः प्रोक्तास्तु सर्वदा | तल्लिङ्गिना तहा भोक्ता विविधा ***(?)ह्नयः || यो यमिष्टतरं पश्येत् सो तस्यैव * * * * (?) | ** (?) बहुविधां वत्रे यदा ते मानुषा भुवि || २५१, प्. २५१) कथयन्ति शुभां वाचां अन्योन्यालापमासृताः | परेषां च यदा वव्रे विश्वस्ताश्च समन्ततः || एवं च वाचिरे मूचुः शुभं श्रेयं जपं सदा | क्षेममारोग्यसर्वं वै स्वस्तिशान्तिसुखोदयः || धनिनः देवतो मुख्य सुरो धर्मराजास्तथा | सर्वतो भास्करश्चैव छत्रध्वजपताकयोः || बुद्धधर्मतदा सङ्घं मन्त्रं तारमितिः सदा | कुमारं काञ्चनं शुभ्रं अग्निस्कन्धं महोत्सवम् || जिनं पद्म तथा वज्रं लोकेशं बोधिमुत्तमम् | बोधिसत्त्वा तथा लोकां ब्रह्मश्चैव सुरोत्तमाम् || बहुप्रकारा ह्यनेकानि प्रशस्तां साधुवर्णिताम् | शुश्राव शब्दां यथा गन्ता सर्वासां प्राप्नुया हि सौ || ततोऽन्ये लोकविद्विष्टं स शब्दं चापि निन्दितम् | प्रशस्ता शकुनयो ह्येता प्रस्थितानां जपे रताम् || सर्वेषां च मयं योगो उद्योगार्त्थससम्पदाम् | ततोऽय निन्दितं सर्व न लेभे कायिकं फलम् || प्रशस्तैव सर्वतो गच्छे अप्रशस्तैश्च न व्रजेत् | प्रणम्य सर्वतो बुद्धांस्त्रयं कृत्वा प्रदक्षिणम् || स्वमन्त्रं मन्त्रनाथं च मातापित्रौ थ दुःकराम् | प्रणम्य सर्वतो गच्छे शिवं तत्र विनिर्दिशेत् || आचार्यगुरुमुख्यानामुपाध्यायं चैव यत्नतः | प्रशस्तधार्मकथि*****(?)व व्रते रतम् || *(?)थार्हं तदाभ्यच्य *****(?)हितम् | रक्तोऽथ विश्वस्तः प्रयूषे वा जितेन्द्रियः || शैः****(?)रतो मन्त्री गच्छेत् सर्वतो दिशाम् | यथाशा*****(?) प्राप्नुयात् सर्वतो शु*(?) || ########### END OF FILE #######